सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
by पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य)
Source: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (origin)
Page 225 of 516
Read in context२१० सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
द्विजेन्द्रेण । अपि गलं फणिफूत्कृतिरीक्षणतीक्ष्णांशुशुक्षणि क्षान्तः ॥ ७ ॥ निजकरनिकरप्रमृष्ट्या धवलय भुवनानि पार्वण शशाङ्क । सुचिर हन्त न सहते हतविधिरिह सुस्थितं कमपि ॥ ८ ॥ यद्यपि शिरोऽधिरोहसि रौद्रं कोवेन मिहिकातनय । त्यजति न शरण यात सागरसूनुर्मृगं तदपि ॥ ९ ॥ प्रोषितवति रजनिकरे बन्धुतया न खलु कैरवाण्यैव । म्लायन्ति किंतु सहसा भुवनान्यपि तमसि मज्जन्ति ॥ १० ॥ शंकरशिरसि निवेशितपदेति मा गर्वमुद्वहेन्दुकले । फलमेतस्य भविष्यति तव चण्डीचरणरेणुमृजा ॥ ११ ॥ या महेशशिरसो विभूषणं या त्रिलोकजनलोचनोत्सव । सेयमिन्दुकलिका दिनात्यये तापिता कमिह नातितापयेत् ॥ १२ ॥ रञ्जिता न ककुभो निवेशिता नार्चिषो वत चकोरचञ्चुषु । कष्टमिन्दुरुदये निपीयते दारुणेन तमसा बलीयसा ॥ १३ ॥ किरति प्रकरं गवां प्रकर्षं सुमनस्खच्छतर विधौ कलानाम् । कति चेत्कलयन्ति यद्वबोध कति चेन्नेति स तत्स्वभाव एव ॥ १४ ॥ विधेः कलानामपि रीतिरेषा मर्माणि मे
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in