सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । २७
ममाऽस्तु तव सन्निधौ तनुनवत्वमेतावता
न दुर्लभतमा रतिर्मुररिपौ मुकुन्दप्रिये ।
श्रीगोकुलनाथचरणानाम् विवृतिः ।
आवश्यकदैहिकधर्मेऽपि त्वत्सम्बन्धे मुक्त्यधिकभक्तिप्राप्तिर्यत्र, तत्र
का शङ्का यमयातनाभाव इत्याहुर्ममाऽस्त्विति । तव सन्निधौ तनोर्नवत्वं
लीलोपयोगिनूतनदेहसम्पत्तिरस्तु । एतेन पूर्वदेहनिवृत्तिः सूचिता । इद-
मपि त्वत्कृतमेव भवति न त्वन्यथेति ज्ञापनार्थं प्रार्थनमस्त्विति । एतावता
श्रीहरिरायप्रणीतं टिप्पणम् ।
आवश्यक्येति । देहस्य देहान्तरारम्भकत्वमावश्यको दैहिको धर्मः “प्रज्ञया
शरीरं समारुह्ये”१त्यादिश्रुतेः । किं बहुना । मुक्तावपि भगवच्छास्त्रे सेवोपयोगि
वैकुण्ठादिषु देहान्तरम् । अत एवोक्तमाचार्यैः सेवाफलग्रन्थे—“सेवोपयोगिदेहो
वैकुण्ठादिष्वि”ति । तस्मिन्नपि त्वत्सम्बन्धे सान्निध्यसम्पादिते दै२शिकेऽपि सम्ब-
न्धे यत्र तथाविधभक्तिसिद्धिस्तत्र तत्र जातानां यमयातनाभावे का शङ्केति कैमुतिक-
न्यायो निरूप्यत इत्यर्थः । तव सन्निधाविति । एतेन दुष्टसन्निधानकृतत्वच्चिरो-
भावाभावस्थल एव तथात्वमित्याशयो ज्ञेय इति बोधितम् । पूर्वदेहनिवृत्तिरिति ।
घटस्य पाकेन३ मृत्त्वनिवृत्तिवन्निवृत्तिरत्र वाच्या । अन्यथा पूर्वतनोर्नवत्वमिति न
व्याख्यातं स्यादिति भावः ।
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
तत्र च, एवमनेन स्वरूपसामर्थ्यं निश्चाययित्वा प्रियत्वोपयोगि यदभिप्रेतं
तत्रार्थयितुमग्रिमः श्लोक इत्याशयेन तमवतारयन्त्यावश्यकेत्यादि, आवश्यक-
दैहिकधर्मपदेन तीरवासात्मकं सेवनं पानं चेत्युभयमपि सङ्गृह्यते । पूर्वत्र सेवनपानयोः
फलस्योपपादितत्वेऽपि व्याख्यानाभावादत्राऽनुवादः । तथाच तीरवासात्मकत्वत्सेवन-
त्वज्जलपानरूपावश्यकदैहिकधर्मेऽपि त्वत्सम्बन्धे यत्र मुक्त्यधिकभक्तिप्राप्तिस्तत्र का
आशङ्का यमयातनाभाव इत्याशयेन पूर्वं प्रार्थनमाहुरित्यर्थः । तद्व्याकुर्वन्ति तवेत्यादि ।
तवे आधिदैविक्याः सन्निधौ भौतिकीमध्ये सन्निधाने तनोर्नवत्वं सिद्धिरूपलीलोपयो-
गिनूतनदेहसम्पत्तिरस्तु । अत्र तनुनवत्वं नैतच्छरीरेऽतिशयाधानमात्रपर्यवसायि,
किन्तु, पूर्वशरीरनिवृत्तिपूर्वकाभीष्टदेहान्तरप्राप्तिपर्यन्तमित्याशयं स्फुटीकुर्वन्ति एतेने-
त्यादि । एतेन नवत्वस्य नूतनदेहसम्पत्तिपर्यन्तत्वकथनेन पूर्वशरीरनिवृत्तिः सूचिता,
१ शरीरमारुह्येति ख. २ दैहिकेऽपीति ग. युक्तन्तु यथानिवेशमिति न प्रस्मार्थ्यम् । ३ परिपाके नामरूप-
निवृत्तिवद् इति पाठः अ.

२८ श्रीयमुनाष्टकम् ।
अतोऽस्तु तव लालना सुरधुनी परं सङ्गमात्
तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः ॥ ७ ॥
शरीरपरिवर्त्तमात्रेणैव मुररिपौ रतिर्दुर्लभतमा न भवतीत्यर्थः । किन्तु तनु-
नवत्वेन सुलभव । कदाचित्प्रतिबन्धके विद्यमानेऽपि यथा जलदोषरूपमुरस्य
निवारकस्तथा त्वत्सम्बन्धात्सर्वदोषनिवारकत्वं मुररिपुपदेनोक्तम् । अतः
कारणाद्यावदाधुनिकशरीरनिवृत्तिस्तावत्तव लालना स्तुतिरूपा अस्तु । साऽपि
श्रीहरिरायप्रणीतं टिप्पणम् ।
दुर्लभतमा नेति । त्वत्सम्बन्धस्यैव दुर्लभत्वेन सा भगवति दुर्लभा तु
भवत्येवेति तमप्प्रत्ययाशयो बोध्यः । प्रतिबन्धक इति । भक्त्युत्पत्तावित्यर्थः ।
त्वत्सम्बन्धादिति । यथा नरकासुरनिरुद्धकन्याऽनुग्रहाय तत्सम्बन्धाज्जलदोष-
रूपमुरस्य निवारकस्तथा त्वत्सम्बन्धात्तदीयसर्वसेवकदोषनिवारक इति भावः ।
एतेन त्वत्सम्बन्धिनां भगवद्रतिप्रतिबन्धनिरसनायाऽपि यत्नो न विधेय इत्युक्तम् ।
मुकुन्दप्रिय इति मूले । पदतात्पर्यं तु-भगवान् मुकुन्दो मोक्षदाता गृह
एव चतुर्विधपुरुषार्थं भावेन स्वयमाविर्भूयाऽनुभावयन् तादृशसमाजसत्यसम्पादनेन
स्वतन्त्रभक्त्या भगवदीयत्वसम्पादकस्तादृशस्य प्रियात्वेन तद्धर्मवत्त्वात् भगवदीयत्व-
सम्पादकत्वमस्या इति स्वतन्त्रभक्तिदायिकात्वेन परमोत्कर्षो निरूपितो भवतीति तथा
सम्बोधनमिति । अतः कारणादिति । यतो यथाकथञ्चित्त्वत्सम्बन्धे प्रतिबन्ध-
निवृत्तिपूर्वकभक्तिप्राप्तिसौलभ्यमतः कारणादित्यर्थः । यावदाधुनिकेति । नवीने
श्रीपुरुषोत्तमप्रणीता विवृत्तिः ।
अर्थबलादेव बोधितेत्यर्थः । इदमिति । पूर्वोक्तमुभयम् । ननु किमिति द्वयं प्रार्थ्यते
एतस्य शरीरस्यैव कुतो नवत्वं न प्रार्थ्यत इत्यत आहुरेतावतेत्यादि । शरीरस्य
यः परिवर्त्तः पूर्वधर्मनिवृत्तिपूर्विका धर्मान्तरवत्ता, तन्मात्रेणैव मुररिपौ दोषनिवर्त्तके
भगवति रतिर्दुर्लभतमा न भवति, तथापि लीला तु दुर्लभतमा भवत्येव । अतो न
प्रार्थ्यत इत्यर्थः । तदेतत्स्फुटीकुर्वन्ति कदाचिदित्यादि उक्तमित्यन्तम् । श्रीहरि-
रायास्तु लीलोपयोगिदेहप्राप्तिं परमभक्तिप्राप्तिमात्रसाध्यां मन्वानाः पूर्वदेहनिवृत्तिं
मृद्धटपाकदृष्टान्तेनैतद्देहेऽतिशयाधानमात्रपर्यवसितामङ्गीकुर्वन्ति । तदपि पूर्वपक्षावि-
श्रान्तमिति न विरोधः । मुकुन्दप्रिय इति तु न व्याख्यातम् । मोक्षदातृत्वस्य
१ दुर्लभा न भवत्येवेति ग, २ चतुर्विधपुरुषार्थभावेनेति ख, ३ स्वतन्त्रभक्तदायकत्वेनेति ख च,

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । २९
त्वत्कृपयैव नाऽन्यथेति प्रार्थ्यतेऽस्त्विति । गङ्गाया अपि फलसाधकत्वं
त्वत्सम्बन्धादेवेत्यत आहुः, सुरधुनी तव सङ्गमात् परं अत्यर्थं भुवि की-
र्तिता स्तुतेत्यर्थः, न तु कदापि त्वद्रहिताऽपीत्यर्थः । ननु क्वचित्पुराणादौ
केवलाया अपि स्तुतिर्दृश्यत इति स्तुतौ विशेषमाहुः पुष्टिस्थितैरिति । मर्यादा-
मार्गीयैः केवलाऽपि स्तूयते त्वत्स्वरूपाज्ञानात् । पुष्टिमार्गीयास्तु त्वत्स्वरूपं
जानन्तीति त्वत्सम्बन्धादेव स्तुवन्तीत्याहुः पुष्टिस्थितैरिति ॥ ७ ॥
श्रीहरिरायप्रणीतं टिप्पणम् ।
अलौकिके तु शरीरान्तरे सम्पन्ने लीलारसानुभव एव त्वत्तीरे भवेदिति भावः ।
लालना स्तुतिरूपेति । यथा जननी लालनसमये प्रेम्णा बालकं स्तौति । सा
स्तुतिरपि लालनैव न तु गुणकीर्त्तनम् । लालनमध्यपातित्वात् । तथैषाऽपि स्तुति-
र्लालनैवेति स्तुतिरूपेत्युक्तमित्यर्थः । फलसाधकत्वमिति, पुष्टिमार्गीयफलसाधकत्व-
मित्यर्थः । पुष्टिमार्गीयं फलं तु साक्षात्पुरुषोत्तमलीलासम्बन्धोऽलौकिकदेहसिद्ध्या,
तत्सम्पादकत्वं तु गङ्गायास्त्वत्सम्बन्धादेव । अन्यथा "स्रोतसामस्मि जाह्नवी"ति
वाक्येन तस्या विभूतिरूपत्वेन निरूपणादेतत्फलसाधकत्वमुच्यमानं बाधितं स्यात् ।
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
स्वाभाविकत्वेऽपि भवदनुरोधेनाऽलौकिकं देहं दास्यतीत्याशयस्य प्रियापदादेव स्फुटं
स्फुरणात् । प्रियत्वं तु तत्रैव "विष्णुदयिते"ति नाम्नोक्तम् । अतःकारणादिति ।
यतो भवती प्रिया । तथाच तदवधि लालनारूपं तदनुकूलमिदं द्वितीयं प्रार्थितं देय-
मिति भावः। ननु तनुभवत्वरूपं फलमन्यथा सिद्धं गङ्गायाऽपि सम्भवादतस्तदर्थं तत्स्तु-
तिरेव कार्येत्याशङ्कायां तन्निरासाय श्लोकशेष इत्याशयेन तमवतारयन्ति गङ्गाया
इत्यादि । इदमपि "सितासिते"इति मन्त्रोत्तराद्धू एव सिद्धम् । अस्याऽपि मन्त्रस्य-
कृत्वेन "गोप्यो गावः ऋचस्तस्ये"ति श्रुत्यन्तरे तासां गोपीत्वेन पुष्टिस्थितत्वात्केव-
लगङ्गाया एव माहात्म्यस्य तत्राऽस्फुटत्वाच्च । अत्र पुष्टिस्थितपदेन तदुक्तिराधिदैविक-
सङ्ग्रहाय । व्रजस्थकृतस्य केवलगङ्गाकीर्त्तनस्य श्रीभागवते अदर्शनादिति । आहु-
रिति । स्वपूर्वोक्तेऽर्थेऽभियुक्तसंमतिमाहुरित्यर्थः । व्याख्यानं तूत्तानार्थम् । इदं चाऽ-
र्थादेव सिद्धम् । पुष्टिमार्गीयाणां भजनानन्दाभिलाषुकत्वेन तदुपयोगिन एव स्तुत्य-
त्वात् । लोकादपि तथा निश्चयात् । योजना तु—सुरधुनी भुवि कीर्तिता, परं तवैव
१ तत्तीरे इति क-ग-घ-ङ-च.

३० श्रीयमुनाष्टकम् ।
स्तुतिं तव करोति कः कमलजासपत्नि प्रिये
यत्र त्वत्सम्बन्धात्सर्ववन्द्यगङ्गास्तुतिस्तत्र त्वत्स्तुतौ को वा समर्थ
इत्याहुः स्तुतिं तवेति । अशक्यस्तुतित्वे हेतुमाहुः कमलजासपत्नीति ।
श्रीहरिरायप्रणीतं टिप्पणम् ।
अत एव पुष्टिस्थितैरित्युक्तम्, अन्येषामेतन्माहात्म्यानवगतेः । पद्यपदलापनिका तु,
पुष्टिस्थितैः निःसाधनानुग्रहमार्गनिष्ठैः सुरधुनी लोकान्तरनदी भुवि तु पुनर्न कदाऽपि
कीर्त्तिता तादृक्पुष्टिमार्गीयफलसाधकत्वेनेति । परं किन्तु सर्वदैव तवैव सङ्गमात्
सा तथा कीर्त्तिता। अतः सर्वदा तव लालना पूर्वोक्तरूपाऽस्त्विति सम्बन्धो ज्ञेयः ॥७॥
अशक्यस्तुतित्व इति। वाग्गोचरमाहात्म्यसत्त्वाद्यथा रसस्वरूपानन्देऽशक्य-
स्तुतित्वम् । “यतो वाच” इति श्रुतेः । तथाऽत्राऽपीति भावः । कमलजासपत्नीति
हेतुनिरूपणम् । सपत्नीत्वेन लक्ष्मीविरुद्धस्वभावत्वादित्यर्थः । अयमभिप्रायः ।
लक्ष्मीर्हि प्रमाणसिद्धब्रह्मानन्दस्वरूपा । अतः प्रमाणभूतैर्वेदादिवाक्यैर्लक्ष्मीमाहात्म्य-
निरूपणमुपपद्येताऽपि । त्वं तु पुष्टिलीलास्थत्वेन तदतीताप्रमेयानन्दरूपेति 'यतो वाच'
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
सङ्गमात् । तत्र गमकं, पुष्टिस्थितैस्तु कदापि नेति । केवला न कीर्त्तितेत्यर्थ इति
समीची भाति। तथाच सेवोपयोगिदेहसम्पादकत्वं गङ्गाया अस्ति, परं नाऽभीष्टसेवो-
पयोगिदेहसम्पादकत्वम् । तेन नाऽन्यथा सिद्धिः । यदि तया सा स्यादभियुक्तैः साऽपि
स्तूयेत । तदभावा'द्यया चरणपङ्कजे'त्यर्द्धेनोक्तोऽर्थ उपपन्नतर इति भावः । अत्राऽपि
तनुभवत्वरूपं सप्तमैश्वर्यं स्पष्टमेव ॥ ७ ॥
नन्वस्तु गङ्गापेक्षया स्तुत्यत्वम् । सम्बन्धाधिक्यात्, न तु लक्ष्म्यपेक्षयाऽपि । तथा
सति तनुभवत्वार्थं सैव स्तोतव्या । यत्पुनस्तया सदृशतामित्यर्द्धेनोक्तमतिप्रियत्वं तत्तु
भक्तमानापनोदकेषु गुणातीतभक्तान्तरेष्वपि । कलिनिवारकत्वधर्मस्य साधारणत्वान्न
तेनाऽनुमातुं शक्यमिति मानाभावान्नोपपन्नमित्याशङ्कायां, लक्ष्म्यपेक्षया जीवोप-
कारकत्वं गङ्गायां सुप्रसिद्धमिति । तत आधिक्ये लक्ष्म्यपेक्षयोपकाराधिक्यं
कैमुतिकादेव सिद्ध्यतीति न लक्ष्म्यास्तदर्थं स्तोतव्यत्वमित्याशयेनाऽष्टमश्लोकमव-
तारयन्ति यत्रेत्यादि । उक्तार्थसूचनायाऽत्र सर्ववन्द्यपदम् । अतः परं कार्येणाऽतिप्रियत्व-
साधकोऽग्रिमग्रन्थ उक्तेऽर्थे हेतुत्वमपि भजत इत्याशयेन तमवतारयन्त्यशक्यैत्यादि ।
१ सा पूर्वोक्तरूपेति ग-घ. २ रसरूपेति ख. ३ ब्रह्मानन्दरूपेति च.

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। ३१
हरेर्यदनुसेवया भवति सौख्यमामोक्षतः ।
सर्वत्र स्तुत्यत्वं भगवत्सम्बन्धात् । स सर्वत्र लक्ष्म्यपेक्षया न्यून एव । त्वं
तु तस्या अपि सपत्नी तत्समानसौभाग्यवती । ननु लक्ष्मीस्तुतिस्तु लोके
दृश्यते । तर्हि तत्साम्यं चेत्कथं स्तुतिरशक्येत्याहुः प्रिये इति । साम्यमात्रे
कर्त्तुं शक्यत एव । अत्र तु ततोऽप्यधिकं प्रियत्वमस्तीति स्तुतिकरणमशक्यम्।
ननु कथं ज्ञायते लक्ष्म्यपेक्षयाऽऽधिक्यमस्तीति, तत्र हेतुमाहुर्हरेर्यदनुसेवयेति ।
श्रीहरिरायप्रणीतं टिप्पणम् ।
इति श्रुतेरशक्यस्तवेति विरुद्धस्वभावत्वात्सपत्नीति । लक्ष्म्याः स्तुत्यत्वमुपपादय-
न्ति सर्वत्रेति । लोके वेदे च स्तुत्यत्वं भगवत्सम्बन्धात् । तदभावे निन्द्यत्वमेव ।
“ मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिमि”ति वचनात् । सम्बन्धतारतम्येन
स्तुत्यत्वतारतम्यम् । तथाच सम्बन्धस्तु लक्ष्म्या निरतिशय एव, उरसि सर्वदा
निवासात् । अतः स्तुत्यत्वं तत्रोपपन्नमिति भावः । तत्समानसौभाग्यवतीति ।
अन्यासां भगवत्पत्नीनां लक्ष्म्यंशत्वेन तदधीनत्वम् । तव तु तत्समानसौभाग्यवत्त्वेन
लक्ष्मीवत्स्वातन्त्र्यमिति भावः । ननु लक्ष्मीस्तुतिस्त्विति । स्वातन्त्र्येऽपि साम्य-
सत्वे लक्ष्मीस्तुतिरिव कथमेतत्स्तुतिरशक्येत्याक्षेपार्थ इत्यर्थः । प्रिय इति सम्बोध-
नम् । स्वातन्त्र्येण साम्येऽपि प्रियत्वेन ततोऽप्याधिक्यसत्वान्न लक्ष्मीदृष्टान्तेन शक्य-
स्तुतित्वमस्या उपपद्येतेति भावः । अत एव “ श्रियं चाऽऽत्यन्तिकीं ब्रह्मन् येषां
गतिरहं परे”ति दुर्वाससं प्रति प्रभुरेवैतादृशानां ततोऽपि प्रियत्वमाहेत्याधिक्यं
प्रमाणसिद्धमेव । फलतोऽप्याधिक्यं वक्तुमाहुर्हरेर्यदनुसेवयेति । हरेः सम्बन्धिनी
या यदनुसेवा हरिसाहित्येन तत्रापि अनु पश्चाद्भगवत्सेवां विधाय गौणभावेन यस्याः
सेवा तया मोक्षं पुरुषोत्तमसायुज्यं मर्यादीकृत्य सालोक्यादिसुखं भवति । पुरुषोत्तम-
सायुज्यस्य भक्तिमार्गेण केवलभगवत्सेवासाध्यत्वात् । अत एवोक्तमाचार्यवर्यैः—
“ आदिमूर्त्तिः कृष्ण एव सेव्यः सायुज्यकाम्यये”ति निबन्धे । तत्रापि कृष्णपदेन
भक्तिप्राप्यः प्रभुरेवकारेण इतरनिरासश्चोक्तः । मोक्षप्राप्तिर्भवतीति । सालोक्या-
दिमोक्षप्राप्तिर्भवतीत्यर्थः । अत एव वैकुण्ठे लक्ष्मीसखीनां सालोक्यादिसुखं, न
१ तत्स्वातन्त्र्येऽपीति ख. २ प्रमाणप्रसिद्धमेवेति क. ग. घ. ङ. च. ३ केवलमिति ख.

३२ श्रीयमुनाष्टकम् ।
इयं तव कथाऽधिका सकलगोपिकासङ्गम-
स्मरश्रमजलाणुभिः सकलगात्रजैः सङ्गमः ॥ ८ ॥
हरेरनु पश्चाच्चर्याः सेवया मोक्षं मर्यादीकृत्य सुखं भवति । मोक्षप्राप्तिर्भवती-
त्यर्थः । न तु ततोऽप्यधिकं भजनानन्दाख्यं सुखं भवति । तदपि भगव-
त्सहिततद्भजनेन न तु केवलायाः, केवलाया मोक्षविघातकत्वात् । अनुशब्दा-
न्मुख्यतया भगवद्भजनम् । तदनुगुणत्वेन लक्ष्म्याः । कालिन्द्युत्कर्षमाहुरियं
तव कथेति । इयमग्रत उच्यमाना तव कथाऽपि सर्वमुक्त्यपेक्षयाऽधिका ।
अत एवैतत्कथारसिकानां न मोक्षेच्छागन्धोऽपि । तदेवोक्तं पञ्चमस्कन्धे—
“अथ ह वा व तव महिमामृतसमुद्रविप्रुषा सकृल्लीढया विस्मारितदृष्टश्रुत-
श्रीहरिरायप्रणीतं टिप्पणम् ।
लक्ष्मीवत्पुरुषोत्तमनित्यसंयोगरूपसायुज्यम्, तस्य लक्ष्मीमात्रभोग्यत्वात् । न हि
स्वभोग्यमन्येभ्यः कोऽपि दातुमीष्टे । अत एवोक्तं बालबोधे—“लोकेऽपि यत्प्रभु-
भुंङ्क्ते तन्न यच्छति कर्हिचिदि”ति । न तु ततोऽपीति । सायुज्यादप्यधिकमित्यर्थः । हरेरि-
त्यस्य पञ्चम्यन्तपदस्य सम्बन्धिवोधकस्य तात्पर्यमाहुस्तदपीति मोक्षसुखमपीत्यर्थः।केव-
लाया मोक्षविघातकत्वादिति। केवला भगवतः पुरुषोत्तमाद्भेदेन स्थिता विभूतिरूपा
भजनेन धनादिसम्पत्प्रदा तस्या विषयासक्तिहेतुत्वेन वैराग्यंविघातद्वारा मोक्षविघातक-
त्वमित्यर्थः । कालिन्द्युत्कर्षमिति, भजनानन्दरूपफलसाधकत्वेन लक्ष्मीत उत्कर्ष-
मित्यर्थः । सर्वमुक्त्यपेक्षयेति, लक्ष्मीतत्सेवकफलरूपसायुज्यसालोक्यादिमुक्त्यपे-
क्षयेत्यर्थः । अत एवेति, यतो मुक्त्यपेक्षयैतत्कथाया आधिक्यमित्यर्थः । एत-
त्कथारसिकानामिति । मोक्षे हि न भेदेन स्थितिरिति सर्वात्मभावलभ्यरसकथा-
श्रीपुरुषोत्तमप्रणीता विवृत्तिः ।
अनुशब्दोक्तस्य पश्चात्त्वस्य सापेक्षत्वादवधिं बोधयितुं हरेर्यदन्वित्येवं प्रतीकं तद्व्या-
ख्यानं चेति ज्ञेयम् । तेन न दोषः । शेषं स्फुटम् । एवं लक्ष्म्यपेक्षया गङ्गापेक्षया चा-
ऽऽधिक्यं साधयित्वा तत्र हेतुमुत्तरार्द्धेन वदन्तीत्याशयेन तमवतारयन्ति व्याकुर्वन्ति च
कालिन्द्यामित्यादि, इयमित्यादि च । सकलेत्यादि, इदमपि यमुनामाहात्म्ये “केलि-
१ सर्वत्र मुक्त्यपेक्षयेति ख. २ वैराग्यविघ्नद्वारेति च.

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। ३३
सुखलेशाभासाः परमभागवता एकान्तिन" इति। सा केत्याकाङ्क्षायामाहुः
सकलगोपिकेति । सकलगोपिकासङ्गमेन स्मरसम्बन्धी यः श्रमस्तेन जनिता
ये स्वेदजलाणवः सकलगात्रजास्तैः सङ्गमो यस्याः । एते जलाणवो न श्रम-
स्वेदरूपाः किन्तु विविधसङ्गरसस्य सर्वावयवपूर्णस्याऽन्युच्छलनेन बहि-
रागतस्यैव बिन्दवो न तु केवलजलमात्रस्य । अत एवोक्तं सकलगात्रजै-
रिति। एभिर्विशेषणैः परमकाष्ठापन्नपुष्टिपुष्टिमार्गान्तरङ्गभक्तत्वं सर्वदैतद्रस-
पूर्णत्वमन्तरङ्गभक्तानुगुणत्वमेतल्लीलामध्यपातित्वादिकं सूचितम् । स्वस्यै-
तद्रसपूर्णत्वेन केवलैतद्भजनकर्तुरप्येतद्रसं ददातीति स्पष्टमेव वैल-
क्षण्यम् ॥८॥

श्रीहरिरायप्रणीतं टिप्पणम्।
रसिकानां तत्र तदभावान्न तदिच्छागन्धोऽपीत्यर्थः । "अथ ह वावे"त्यादिना
प्रमाणोपन्यासः । सा केति । कथेत्यर्थः । यस्या इति पञ्चमी षष्ठी च व्याख्येया ।
पञ्चमीपक्षे—यस्याः सकाशादन्येषामेतत्सम्बन्धिनामपि तत्सङ्गमः । षष्ठीपक्षे—
श्रीयमुनायास्तत्सङ्गमः। तदाऽपि कृपया तद्रसदातृत्वमित्यर्थः । एभिर्विशेषणै-
रिति । एतत्कथायां सकलगोपिकास्तत्सङ्गमः, सोऽपि रसावेशजनितो येन श्रमः
तेनोद्गतं स्वेदजलं तदीया अणवोऽतिसूक्ष्मबिन्दवस्तैः सङ्गमः, एतावन्ति कथा-
विशेषणानि तैरित्यर्थः । एतादृशी एतत्कथेत्यस्यामपि परमकाष्ठेत्याद्युक्तसकलधर्म-
वत्त्वं सूचितमित्यभिहितमिति भावः । केवलैतद्भजनकर्तुरपीति । अनन्यभजन-
कर्तुरित्यर्थः ॥ ८ ॥

श्रीपुरुषोत्तमप्रणीता विवृतिः ।
सलिले"ति नाम्नि प्रसिद्धम् । केलिः सलिले यस्या इति तदर्थात् । किञ्च । "ब्रह्म-
विद्यासुधावहा" इति नाम्न्यपि भगवतस्तरणलीलायां प्रवाहे गण्डूषपाताद्ब्रह्मविद्यारूप-
भगवन्मुखसुधां वहतीत्यपि स्फुटति । यद्यपि श्रमजलगण्डूषजलसम्बन्धो लीलासमय
एव, तथापि श्रीयमुनायाः सप्तसागरान् भित्त्वा सूर्यमण्डलाद् रङ्गवत्पुनःपुनरत्रागम-
नेन इदानीमपि सोऽस्तीति न किञ्चिदनुपपन्नम् । अत्रापि लीलाससायिकप्रभुश्रम-
जलकणसम्बन्धसम्पादकत्वरूपमष्टममैश्वर्यं स्पष्टमेव ॥ ८ ॥

१ पराकाष्ठापनेति क-ख.
५

३४ श्रीयमुनाष्टकम् ।

तवाष्टकमिदं मुदा पठति सूरसूते सदा*
समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः।

एवं कालिन्दीं स्तुत्वैतत्स्तोत्रपाठफलमाहुस्तवाष्टकमिति । यद्य-
प्यन्यकृतान्यपि स्तोत्राणि सन्ति तथापि वक्ष्यमाणं फलमेतत्स्तोत्रपाठेनैव
भवति, नाऽन्येथेति ज्ञापनायेदमित्युक्तम् । अन्यकृतस्तोत्रेष्वेवंविधस्वरूप-
निरूपणाभावात् । इदं तवाष्टकं यः पठति तस्य पूर्वं समस्तदुरितक्षयो
भवति । तदनन्तरं मोक्षदातार्यपि स्नेहो भवति । अत एवोक्तं, "नराणां
क्षीणपापानां कृष्णे भक्तिः प्रजायत" इति । मुकुन्दपदाद्यद्यपि मोक्षमेव
साधारण्येन सर्वेभ्यो ददाति तथापि त्वत्स्तुतिपाठात्प्रसन्नो भक्तिमेव ददाति
न तु मोक्षमपीति भगवत्स्वभावपरावर्त्तकत्वमुक्तम् । ततः किमिति तत्राऽऽहुः।
तया सकलसिद्धयः पूर्वोक्ताः सर्वात्मभावादयो भवन्तीति शेषः । ननु प्रति-

श्रीहरिरायप्रणीतं टिप्पणम् ।
वक्ष्यमाणमिति । अनुपद्मेवाऽत्र पद्ये वक्ष्यमाणमित्यर्थः । समस्तेति
ब्रह्मसम्बन्धवदेकहेलया अखिलपापक्षय एतत्स्तोत्रपाठेन बोधितः। तदनन्तरमिति।
भक्तिप्रतिबन्धकसमस्तदुरितक्षयानन्तरमित्यर्थः । अन्यथा दुरितानामनन्तत्वेनैकदा
तन्निवृत्तौ रत्युत्पत्तेरनवसरपराहतिः स्यात् । अत एवेत्यादिना प्रमाणोपन्यासपुर-
स्सरं समस्तपापाभावस्य भगवद्भक्त्युत्पत्तौ हेतुता निरूपिता । यद्यपि "ज्ञानाग्निः
सर्वकर्माणी"ति वाक्याज्ज्ञानेनाऽपि सर्वकर्मनिवृत्तिः । परन्तु तत्र ज्ञानसाधने
क्लेशभूयस्त्वमत्र तु पाठमात्रेणैतत्स्तोत्रस्य सा भवतीत्यनायासेन तत्साधकत्वं पाठ-
स्येति तदुत्कर्षो ज्ञेयः । प्रसन्न इति । यथा लीला सृष्टिस्थेभ्यस्त्वत्साक्षात्कारात्
त्वत्सम्बन्धेन प्रसन्नस्तथा आधुनिकेभ्यः परोक्षे त्वत्स्तुतिपाठादेव प्रसन्नो भवती-
त्यर्थः । भक्तिमेवेति निश्चयवाचकं "वा" इत्यव्ययपदप्रयोगतात्पर्यं ज्ञेयम् । भगव-
त्स्वभावपरावर्त्तकत्वमिति । एतत्स्तोत्रपाठस्येत्यर्थः । अत्राऽयं भावः । भगवत्स्व-
भावः स्वामिनीभ्यो देयं फलमन्येभ्यो न प्रयच्छति । अन्यथानु कम्पापात्रमुद्धवं
व्रजे न प्रेषयेत् । स्वयमेव तादृग्भावं दद्यात् । एतत्स्तोत्रपाठे तु तत्कर्त्तरि
श्रीयमुनासम्बन्धावगमेन स्वामिनीभ्य इव स्वयमेव तादृग्भावं प्रयच्छतीति
तथेति भावः । ततः किमिति । ततो भगवद्भावाद्ग्रे किं भवतीत्यर्थः ।

  • अत्र श्रीपुरुषोत्तमचरणानां व्याख्यानं किञ्चिदस्ति तत् श्लोकान्ते निवेशितम् ।

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । ३५

तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति
स्वभावविजयो भवेद्वदति वल्लभः श्रीहरेः ॥ ९ ॥
श्रीयमुनाष्टकस्तोत्रं सम्पूर्णम् ।

बन्धके विद्यमाने सति कथमेतत्स्तोत्रमात्रादेतावद्भवतीति चेत्तत्राऽऽहुर्मुररि-
पुश्च सन्तुष्यतीति । यथा दोषरूपं तन्निरुद्धकन्यासुखप्राप्तिप्रतिबन्धकं निरा-
कृत्य ता अङ्गीकृतवानेवमेतत्पाठनाऽपि प्रतिबन्धं निवार्य तमप्यङ्गीकरोती-
त्यपि ज्ञापनाय मुररिपुपदम् । फलान्तरमाहुः स्वभावविजयो भवेदिति ।
स्वभावस्य विजयः परावृत्तिर्भवति । सवासनेति व्युपसर्गार्थः । दुष्टस्वभा-
वोऽप्युत्तमस्वभावो भवतीत्यर्थः । नन्विदमनकेतपःसाध्यं कथमेतत्पाठमात्रा-
दिति चेत्तत्राऽऽहुर्वदति वल्लभ इति । तेनाऽऽप्तवाक्यत्वेन प्रामाण्यमुक्तम् ।
नन्वितः पूर्वं केनाऽप्यनुक्तत्वाद्वद्भवदुक्तिमात्रेण कथं प्रामाण्यमिति चेत्तत्रा-
ऽऽहुः श्रीहरेरिति । साक्षाच्छ्रीपुरुषोत्तमसम्बन्धी यतः, अहमतो वदामीत्यर्थः ।

श्रीहरिरायप्रणीतं टिप्पणम् ।

सन्तुष्यतीति । भगवत्प्रियात्वाद्यमुनायास्तत्स्तुतौ भगवत्तोषस्तत्रापि सम्यक्तोषो यथा
गोपिकासु । अत एव "प्रियो भवति सेवनात्तव हरेरि"ति पूर्वमुक्तम् । चकारेण स्वामि-
न्योऽपि तुष्यन्तीत्यर्थः । लोकेऽपि स्वस्तवनापेक्षया स्वप्रियस्तवनस्याऽतितोषहेतुत्वा-
दिति भावः। फलान्तरमिति । प्रथममेकं फलं समस्तदुरितक्षयपूर्वकसकलसिद्धिसहित-
भगवद्भावप्राप्तिरूपं निरूपितमित्यर्थः । स्वभावविजय इति । "काममयोऽयं पुरुष"
इति श्रुतेः स्वभावस्य कामभावरूपजीवस्वभावस्य परावृत्तिः सर्वात्मभावसिद्ध्या
भवतीत्यर्थः । यद्वा । स्वभावस्य सात्त्विकादिस्वभावस्य विजयः स्वाधीनीकरणं
लीलामात्रोपयोगितया प्रवर्त्तनरूपं स्वरूपतो गुणातीतत्वसिद्ध्या भवतीत्यर्थः ।
अथवा । स्वभावस्य भगवद्धर्मप्रवेशजन्यमानादिस्वभावस्य दैन्यभावसिद्ध्या परावृत्ति-
र्भवतीत्यर्थः । दुष्टस्वभाव इति । शुद्धपुष्टिमार्गविचारेण पूर्वोक्तरूपस्वभावस्य दुष्ट-
त्वमित्यर्थः । आप्तवाक्यत्वेनेति । यथार्थार्थवादित्वेनाऽऽप्तत्वम् । तच्चाऽऽचार्यचरणे-
ष्वेव सम्भवति । लीलास्सृष्टिसम्बन्धित्वेन लीलास्थभक्तजनफलजननदर्शनात् । अत
एतदाप्तत्वमेतेष्वेवेत्येतद्विषये स्वोक्तमेव प्रमाणमिति बोधनाय स्वनामोक्तिरिति
भावः । नन्वित्यादिना आप्तत्वसंशयमादाय पूर्वपक्षो ज्ञेयः । साक्षादित्यादिनिरूप-
णस्याऽयमभिप्रायः । हरिपदेन निःसाधनगजराजोद्धृतये तद्देन्येन प्रादुर्भूतः पुरुषो-
त्तम उच्यते । स च पुष्टिमार्गीयप्रभुरेव । सर्वसाधनराहित्ये केवलदैन्येन प्रादुर्भूत-

१ पूर्वकमिति क. ग. घ. ङ.

३६ श्रीयमुनाष्टकम् ।
अत्राऽयमाशयः । साक्षात्स्वरूपसम्बन्धिनां स्वरूपं साक्षात्तत्सम्बन्धिन एव
जानन्ति न त्वन्ये । श्रीकालिन्द्याः साक्षात्तत्सम्बन्धित्वं पूर्वं प्रकटमेवोपपा-
दितम् । स्वातिरिक्तानां साक्षाच्छ्रीगोकुलेशसम्बन्धाभावात्साक्षात्तत्सम्ब-
न्धिन्याः स्वरूपाज्ञानात्तदकथनम् । स्वस्य तु साक्षात्तादृशत्वात्तत्स्वरूपज्ञाना-
त्तत्कथनमिति नाऽनुपपत्तिः काचित् ।
इति श्रीविट्ठलेश्वरविरचिता श्रीयमुनाष्टकविवृतिः सम्पूर्णा ।
श्रीहरिरायप्रणीतं टिप्पणम् ।
त्वात् । अत एवाऽग्रे साक्षादित्युक्तम् । पुष्टिमार्गीयातिरिक्तेषु साक्षात्सम्बन्धाभावेन
साक्षात्स्वरूपप्रादुर्भावाभावात् । तत्र तु पुरुषोत्तमस्य विशुद्धसत्त्वव्यूहादिव्यवधानमेव ।
अत एव श्रीपदम् । सौन्दर्यादिरसानुभावकधर्मप्राकट्यस्य पुष्टिमार्ग एव सम्भवात् ।
तादृशस्य वल्लभत्वेन सम्बन्धीति मदुक्तौ नाऽस्त्वसंशयः पुष्टिपथानुगृहीतैरस्म-
दीयैर्विधेय इति दिक् ।
इति श्रीमन्निजाचार्यकृपया परया युतः ।
हरिदासश्चकारेदं टिप्पणं विवृतौ प्रभोः ॥ १ ॥
प्रसीदन्तु निजाचार्याः स्वदासे निजवंशगे ।
प्रयच्छन्तु स्वतो भावं यमुनासहिते हरौ ॥ २ ॥
इति श्रीमद्वल्लभाचार्यचरणतामरसपरागभिलाषिहरिदासप्रणीतं
श्रीयमुनाष्टकविवृतिटिप्पणं
सम्पूर्णम् ।
श्रीपुरुषोत्तमप्रणीता विवृत्तिः ।
नवमश्लोकतद्विवरणं चोक्तानार्थम् । तत्राऽपि मुदा सदेति पदाभ्यां स्वस्या-
स्तवोक्त्या चाऽऽनन्दस्य प्रत्यहमविच्छेदस्य स्वस्मिन्विश्वासस्य च पाठाङ्गत्वं श्रीम-
दाचार्यैर्दर्शितमिति बोध्यम् ॥ ९ ॥
श्रीयमुनाष्टकविवृतिः प्रभुचरणकृपाबलेन विवृतेयम् ।
यदि ह्रस्वमतिजदोषादसदुक्तं तत् क्षमन्तां मे ॥ १ ॥
इति श्रीमत्प्रभुचरणकृपाभिलाषुकतत्तद्दासपुरुषोत्तमविरचिता
श्रीयमुनाष्टकविवृतेर्विवृत्तिः
समाप्ता ।

श्रीकृष्णाय नमः ।
श्रीत्रिभङ्गीरायो जयति ।
श्रीगोपीजनवल्लभाय नमः ।
श्रीमद्भगवद्वदनावतारश्रीमद्वल्लभाचार्यचरणप्रणीतं
श्रीयमुनाष्टकम् ।
श्रीमत्प्रभुचरणविनिर्मितया टीकया
गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन च समलङ्कृतम् ।
मूलम्—नमामि यमुनामहं सकलसिद्धिहेतुं मुदा
गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम् ।
नत्वा श्रीवल्लभाचार्यान्करुणारसपूरितान् ।
श्रीविठ्ठलेशांश्च विभून्निजेभ्यो बुद्धिदायकान् ॥ १ ॥
श्रीमदाचार्यचरणाः स्वीयानां भक्तिसिद्धये ।
अकार्षुः षोडशग्रन्थान्स्वसिद्धान्तार्थबोधकान् ॥ २ ॥
तद्व्याख्यानं कृतं पूर्वैः प्रभुभिश्च पृथक्कचित् ।
यमुनाष्टकमारभ्य सेवाफलमुदाहृताः ॥ ३ ॥
स्वगुरूनन्मथुरानाथान् गङ्गां च स्वीयमातरम् ।
हेतुः षोडशग्रन्थानां टीकानां च मयोच्यते ॥ ४ ॥
तत्र गोस्वामिप्रभूणां कृतीनां गणना—
यमुनाष्टकसिद्धान्तमुक्तावल्योस्तथा पुनः ।
नवरत्ने प्रकाशश्च त्रयं स्वैः प्रभुभिः कृतम् ॥ १ ॥
तट्टिप्पणं तु बहुभिर्वंशीयैर्बालकैः कृतम् ।
तत्कृपाबलमाश्रित्य तद्ग्रन्थान्विवृणोम्यहम् ॥ २ ॥
५॥

३८ श्रीयमुनाष्टकम् ।
तत्र ग्रन्थक्रमः पूर्वमुच्यते—
यमुनाष्टकमादौ तु श्रीकृष्णास्यं हि निर्ममे ।
मुकुन्दरतिसिद्ध्यर्थं दुरितक्षयपूर्वतः ॥ ३ ॥
स्वभावविजयार्थं च सुरस्योरेश्च तुष्टये ।
(जीवैस्तु नमनाधिक्यं नैव कर्तुं हि शक्यते ।)
नमनादतिरिक्तं तु कर्तुं जीवैर्न शक्यते ॥ ४ ॥
कृष्णस्य निरपेक्षत्वादिति स्वान्ते विचार्य हि ।
अधिकारस्य सिद्ध्यर्थं यमुनाष्टकमुज्जगौ ॥ ५ ॥
अग्रेऽधिकारसिद्धेस्तु कर्तव्यज्ञापनाय वै ।
सुपुरुषार्थसङ्क्षेपं बालबोधे न्यरूपयत् ॥ ६ ॥
पुरुषार्थपरिज्ञाने साध्यसाधनभावतः ।
सिद्धान्तमुक्तावल्यां तु सेवारूपं न्यदर्शयत् ॥ ७ ॥
तत्र— सेवा च द्विविधा प्रोक्ता बाह्याभ्यन्तरभेदतः ।
तन्निर्वाहाय सिद्धान्तरहस्यं प्रभुरुक्तवान् ॥ ८ ॥
तत्र बाह्यपदार्थानी शुद्धिम्क्ता समर्पणे ।
आन्तराणां तु शुद्ध्यर्थं नवरत्नं तथा पुनः ॥ ९ ॥
अन्तःकरणसम्बोधं प्रकटीकृतवान्स्वयम् ।
बाह्याभ्यन्तरयोः शुद्धिमेवमुत्पाद्य मत्प्रभुः ॥ १० ॥
तन्निर्वाहार्थं विवेकधैर्याश्रयमरीरचत् ।
तत्राश्रयश्चित्तदोषान्न स्थिरो भवतीति हि ॥ ११ ॥
विचार्य कृष्णाश्रयाख्यं ग्रन्थं सूक्ष्मं न्यरूपयत् ।
आश्रये तु स्थिरे सिद्धे स्वकीयार्थप्रसिद्धये ॥ १२ ॥
चतुःश्लोकीं चकाराग्निरुद्दिश्य स्वमनः प्रति ।
ततो मार्गत्रयस्यापि बोधनार्थं कृपानिधिः ॥ १३ ॥
पुष्टिप्रवाहमर्यादाग्रन्थं गूढमचीकरत् ।
एवं भक्तिप्रकरणं महाकारुणिकस्ततः ॥ १४ ॥
दृढीकृत्य प्रवृद्ध्यर्थमकरोद्भक्तिवर्द्धिनीम् ।
एवं भक्तिं वर्धयित्वा जलभेदमिषेण तु ॥ १५ ॥
भक्तानां लक्षणं प्राह सर्ववादिनिरासकृत् ।
पद्यानि च तदर्थे हि प्रोवाच निखिलेष्टदः ॥ १६ ॥

गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम् । ३९
उक्तश्च भक्तिवर्द्धिन्यां त्यागो भक्तिविवर्द्धनः ।
अतस्तस्य विवेकार्थे संन्यासे निर्णयं जगौ ॥ १७ ॥
भावसिद्धौ भावनैव साधनं त्वपरं न हि ।
निरोधलक्षणे भावं व्रजस्थानामतश्चकौ ॥ १८ ॥
इत्थं पञ्चदशग्रन्थैर्भावं संसाध्य कारणम् ।
उद्वेगप्रतिबन्धानां साधनैर्वारणैः सह ॥ १९ ॥
फलं स कथयाँश्चक्रे सेवाफलनिरूपणम् ।
तस्याप्यतिदुरुहत्वाद्विवृतिं चाकरोद्विभुः ॥ २० ॥
एवं षोडशभिर्ग्रन्थैः पुरुषोत्तमसेवनम् ।
प्रतिपाद्य फलत्वेन चक्रे जीवोद्धृतिं विभुः ॥ २१ ॥
अवतारदशायां तु उद्धृती रूपदर्शनात् ।
इह नामात्मकैर्ग्रन्थैः स्वदासानां सदोद्धृतिः ॥ २२ ॥
तस्मात्सर्वप्रयत्नेन दैवैः कर्त्तव्यमेव हि ।
सेवनं श्रीव्रजेशस्य तद्ग्रन्थानां च पाठनम् ॥ २३ ॥
इति सिद्धं तथापीह लोके जीवा बहिर्मुखाः ।
कृता भगवदाज्ञप्तै रुद्रांशैर्ब्राह्मणैस्ततः ॥ २४ ॥
तेषां साम्मुख्यसिद्ध्यर्थमर्थज्ञानमपेक्षितम् ।
तदर्थं ग्रन्थटीकास्तु प्रभुप्रभृतिभिः कृताः ॥ २५ ॥
तासां मतं समालोक्य सर्वकर्तृकृपावलात् ।
मयापि क्रियते ह्येषा सुगमान्वयबोधिनी ॥ २६ ॥
श्रीमदाचार्यचरणान्नमस्कृत्य पुनःपुनः ।
गोपीनाथांश्च सुखदान् सत्सूनुयुतान्प्रभून् ॥ २७ ॥
श्रीदामोदरसञ्ज्ञं तत्पुत्रं विठ्ठलरायकम् ।
श्रीवल्लभं गिरिधरं तत्सूनुं विठ्ठलेश्वरम् ॥ २८ ॥
द्वारिकेशं गिरिधरं मथुरानाथसञ्ज्ञकम् ।
हरिरायनरश्रेष्ठौ स्मृत्वा तट्टिप्पणीकृतौ ॥ २९ ॥
यमुनाष्टकटीकायाष्टिप्पणं विलिखाम्यहम् ।
तत्र बुद्धिं प्रयच्छन्तु श्रीमदाचार्यवंशजाः ॥ ३० ॥

४० श्रीयमुनाष्टकम् ।
मुरारिपदपङ्कजस्फुरदमन्दरेणूत्कटाम् ।
श्रीमत्प्रभुचरणविरचितविवरणम् ।
विश्वोद्धारार्थमेवाऽऽविर्भूतवृन्दावनप्रियाः ।
कृपयन्तु सदा तातचरणा मयि विठ्ठले ॥ १ ॥
विविधलीलोपयोगिनीं कालिंदीं स्तोतुकामाः अग्रेगोकुलेशे यथा जीवै-
र्नमनातिरिक्तं न कर्तुं शक्यं, तथा कालिन्द्यामपीत्याशयेनाऽऽदौ नम-
नमेवाऽऽहुर्नमामीति । भगवताऽष्टविधैश्वर्यं कालिन्द्यै दत्तमितिज्ञाप-
गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम् ।
अथ श्रीमदाचार्यनन्दनाः श्रीयमुनाष्टकं व्याचिख्यासवः श्रीमदाचार्य-
श्रीयमुनाश्रीगोवर्द्धनधराणां स्वरूपैक्यस्य बोधं कुर्वन्तस्तत्कृपां प्रार्थयन्ति विश्वेति ।
विशन्ति लयसमये भगवतीति विश्वे, दैवजीवास्तेषामुद्धारो ब्रह्मसम्बन्धकारणात्,
संसारान्विमुच्य स्वस्वरूपानन्ददानम् ( इति ) । तदर्थमेव एवकारोत्रान्यो-
गव्यवच्छेदकः । वृन्दावनं प्रियं येषां ते च ते आविर्भूताश्च तथोक्ताः । यद्वा ।
लीलार्थमाविर्भूतं यद्वृन्दावनं तत्प्रियं येषां ते पितृचरणा मयि विठ्ठले ज्ञानशून्या-
नुग्राहके सदा कृपां कुर्वन्तु । एतेन निजाचार्यस्वरूपनिरूपणस्वस्वरूपनिरूपण-
श्रीयमुनास्वरूपनिरूपणश्रीगोवर्द्धनधरस्वरूपनिरूपणपूर्वकं कृपाबलं सम्प्रार्थ्य प्रथम-
श्लोकमवतारयन्ति विविधेति । अहं सर्वभवनसमर्थः ।
(यमु उपरमे । यमयति जीवान्भगवत्समीपे रमयति) अनेका या लीलास्तासां
उपयोगिनीं समीपसम्बन्धसम्पादनकर्त्रीम्। अत एव कालिन्दीम्, कलेर्दोषस्य खण्डनक-
र्त्रीम्, श्रीयमुनां स्तोतुकामा इति स्तुतेरपि ग्रहत्वे शब्दे च ग्रहत्वं कायिकी नतिः जयज-
यशब्दोच्चारपूर्विका । इच्छाविषयत्वं तत्कृपाधीनत्वात् श्रीभिर्युक्तस्य गोकुलस्य स्वामिनि
जीवैस्तदंशत्वात्तदधीनः गमनाभावान्नमनाधिकार इतिन्यायेन नमनमेवादौ, अग्रे तु
नमनेन दैन्याविष्कृतौ प्रभुकृपया विशेषाधिकारे सम्पन्ने स्तुतिप्रार्थने अपि कर्तुं शक्ये
भविष्यतः । एवकारेणाग्रे करणीयायाः 'मम मनः सुखं भावये'ति 'तनुमवत्वमस्त्व'-
त्यादिरूपप्रार्थनाया अस्फूर्तिः सूचिता। श्लोकसङ्गट्याकारणमाहुः भगवतेति । 'रसो वै
स' इतिश्रुत्या स्वयं रसोत्मा रमणार्थमाविर्भूतः । स्वस्य रसात्मत्वसिद्धयै सर्वात्मभाव-
वद्भक्ताधीनो जातः । तथा सन् सर्वलीलोपयुक्तस्वामिन्यां श्रीयमुनायां स्वस्याष्ट-
विधं पुष्टिमार्गीयमैश्वर्यं स्थापितवान् । तत्स्वरूपं श्रीहरिराया आहुः, सकलसिद्धि-
हेतुत्वम् १, भगवद्भाववर्द्धकत्वम् २, भगवत्सम्बन्धप्रतिबन्धकनिराकरणेन तदतु-

गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम् । ४१
तटस्थनवकाननप्रकटमोदपुष्पाम्बुना
सुरासुरसुपूजितस्मरपितुः श्रियं बिभ्रतीम् ॥ १ ॥
नायाष्टभिः श्लोकैः स्तुवन्ति । साक्षाद्भगवत्सेवोपयोगिदेहासितल्लीला-
वलोकनतद्रसानुभवसर्वात्मभावादयः सकलसिद्धयो ज्ञेयाः । अत एव
नमनं मुदेति । जलदोषात्मकसुरस्याऽरेः पदपङ्कजयोः स्फुरन्तः सेवोपयोगि-
देहादिसम्पादनोन्मुखा ये रेणवोऽमन्दा व्रजसुन्दरीवृन्दचरणरेणुसाहि-
गो०श्रीद्वारिकेशचरणविरचितं टिप्पणम् ।
भवयोग्यताहेतुशुद्धिसम्पादकरूपं भुवनपावनीत्वम् ३, भगवत्समानधर्मवत्त्वेऽप्यना-
यासेन तत्सम्बन्धसम्पादकत्वम् ४, भगवत्प्रियकलिनिवारकत्वम् ५, भगवदीयो-
त्कर्षाधायकत्वम् ६, भगवत्प्रियत्वसम्पादकत्वम् ७, तनुनवत्वसम्पादकत्वम् ८,
सकलः कलासहितः पुरुषोत्तमः तस्य सिद्धिः वश्यत्वेनावाप्तिः । इदं च लीला सृष्टि-
स्थेष्वेव ज्ञेयमिति सकलेति । विवृण्वन्ति साक्षादिति । आवरणानवच्छिन्नावरोकम्,
तद्रसानुभवसर्वात्मभावादयः सकलसिद्धयो ज्ञेयाः । अत एव नमनं, आवरणान-
वच्छिन्नभगवत्सेवनयोग्यदेहप्राप्तिरूपा १, तादृशस्य लीलादर्शनरूपा २, तस्यैव
रसस्य स्वेन्द्रियविषयीभूतकरणरूपा ३, सर्वत्र भगवद्भावरूपा ४, आदिपदेन भग-
वदाविष्टदेहाप्तिः ५, परावृत्तचक्षुषान्तराविर्भूतलीलावलोकनसिद्धिः ६, भावात्मक-
स्वरूपेण तदात्मकतद्रसानुभवः ७, विरहसामयिकसर्वात्मभावसिद्धिः ८, इति.श्रीहरि-
रायाः । अत इति, यतोऽष्टविधैश्वर्यवत्सकलसिद्धिहेतुभूतश्रीयमुनायाः प्राकट्यमलभ्य-
लाभः । अतो नमनं मुदा हर्षेण । सुरारिपदपङ्कजेति विवृण्वन्ति जलेति ।
जले दोषो मुर एव । मुरदैत्यसम्बन्धादेव षोडशसहस्रनायिकानां भगवत्प्राप्तौ प्रति-
बन्धकम् । मुरनाशे तु भगवत्प्राप्तिरनायासेन । तत्सम्बन्धादेव जलं भगवत्प्राप्तौ
प्रतिबन्धकं भवति । अत्र तु तन्नाशकस्य भगवतः पदपङ्कजसम्बन्धिनः सेवायोग्य-
देहकरणतत्पराः श्रीरेणवोऽधिकाः सन्ति । तेन मूलेऽपि लीलोपयोगिनीत्वं सूचि-
तम् । जलाधिक्ये तु क्रीडायां निमज्जनभयं मकरादिभयमपि भवेत् । अत एव
दशमस्कन्धीयपञ्चदशाध्याये अगाधतोयह्रदिनीत्युक्तिः । तटस्थेति मूले तीरस्थानां
नवानां वनानां प्रकटो यो मोदः गन्धः पुष्पाणि च तत्सहितेन जलेन । स्मारकत्वं
जलस्य अमरगीते 'सरिच्छैलवनाद्देशो गावो वेणुरवा इमे । पुनः पुनः स्मारयन्ति
नन्दगोपसुतं बत' । मोदः सत्वरूपः, पुष्पाणि रजोरूपाणि, काननानि तमोरूपाणि ।

प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः ।
तरङ्गभुजकङ्कणप्रकटमुक्तिकावालुका-
नितम्बतटसुन्दरीं नमत कृष्णतुर्यप्रियाम् ॥ ३ ॥
अनन्तगुणभूषिते शिवविरञ्चिदेवस्तुते
अनेकस्वनैरिति शुकादिविशेषणम् । एतेन विभावादिसामग्र्युक्ता । यत्र
यथोचितं तत्र तथा कुर्वन्तीति प्रियापदम् । तीरस्य चाकचक्यवत्सिकता-
कृतशोभां तत्स्वरूपमप्याहुस्तरङ्गेति । यदा तरङ्गास्तीरमागत्य प्रसृता
भवन्ति तदा तीरसिकता मुक्तावद्भासन्ते । ता न सिकताः। लोकप्रतीतिः
परं तथा । किन्तु तरङ्गा एव भुजास्तत्र यानि कङ्कणानि तत्र प्रकटा या
मुक्तिका मुक्ताफलानि तान्येव वालुकावत्प्रतीयमानानि तद्युक्तो यो नितम्ब
एवोच्चदेशात्मकनतटस्तेन तादृशीम् । भगवति स्नेहातिशयो विशेषणेनोक्तः॥३॥
भगवत्समानधर्मत्वं ज्ञापयितुं तथा विशेषणैराहुरनन्तेति । प्रभौ
गो० श्रीद्वारकेशचरणविरचितं टिप्पणम् ।
रस्य दुरितक्षयपूर्वकं भगवद्भावदानेन पावनकर्त्रीत्वं स्नेहातिशय इति । (श्रीपुरुषो-
त्तमास्तु पाविनीमिति पेठुः) । * अप्राकृताखिलभूषणभूषितकथनेनाप्राकृताखिलभूषण-
भूषितेन भगवता स्नेहातिशयो युक्त एव । समानशीलव्यसनेषु सख्यमिति निय-
मात् । भगवतोऽप्राकृतभूषणभूषितत्वम् । 'उदामकाञ्ची'त्यत्र स्फुटतरमस्ति । मूले
कृष्णतुर्य्यप्रियामिति । व्रजे भगवद्भोग्याश्चतस्रः स्वामिन्यो मुख्याः। श्रीराधिकायूथ-
स्थास्तामस्यः । श्रीचन्द्रावलीयूथस्था राजस्यः । कुमारिकायूथस्थाः सात्त्विक्याः ।
श्रीयमुनायूथस्था गुणातीताः तुर्याः । तासु इयं तुर्य्यात्तस्तथाकथनमिति । “कालि-
न्दीतिसमाख्याता वसामि यमुनाजले” इति वाक्येनास्याः कालिन्दीभिन्नत्वेपि
प्रियात्वमुपपन्नम् । शुको वाचिकीसेवा करोति । मयूरः कायिकीं, हंसो मानसीं,
आदिपदेन पारावतकोकिलसारसचक्रवाकेदात्यूहादयो गृहीताः । अन्वयस्तु, भुवन-
पाविनीं, ध्रुवमधिगतां, प्रियाभिरिव स्थितैः अनेकस्वनैः शुकमयूरहंसादिभिः सेवितां,
तरङ्गभुजकङ्कणप्रकटमुक्तिकावालुकानितम्बतटसुन्दरीम्, कृष्णतुर्यप्रियाम्, यूयं नमत,
इति दैवीजीवान्प्रति विधिः । अत्र भगवत्सम्बन्धप्रतिबन्धकनिराकरणेन तदनुभव-
योग्यताहेतुशुद्धिसम्पादकरूपं भुवनपावनीत्वं तृतीयमैश्वर्यं दर्शितम् ॥ ३ ॥
अग्रिममवतारयन्ति भगवत्समानधर्मत्वमिति । यथा भगवानेश्वर्यादिभिः

  • तरङ्गादीनां भुजादित्वं हरिवंशे सूपपादितम् ।

गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम्। ४५
घनाघननिभे सदा ध्रुवपराशराभीष्टदे ।
सप्तम्यन्तानि विशेषणानि । तत्प्रियायां सम्बुद्धिरूपाणि । घनाघनशब्दो
निपातरूपो घनसमुदायं वदति । श्यामे । तादृशीति वा । ध्रुवादेस्तत्तीर
गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम् ।
षड्भिर्गुणैः सहितः स्वयं धर्मी, तथेयमपीति सप्तभिर्विशेषणैः स्तुवन्ति । मूले अनन्तेति ।
अत्र पक्षद्वयमाहुः प्रभौ सप्तम्यन्तानि विशेषणानि श्रीयमुनायां सम्बुद्ध्यन्तानि ।
सम्बुद्धिरूपाणीति । आद्ये पक्षे अनन्ता अपारा येऽलौकिका गुणास्तैर्भूषितेऽलङ्कृते ।
द्वितीये अनन्तस्य भगवतो भक्तमनोरथपूरकादयो गुणास्तैर्भूषिते । एतेन विशेषणेन
'गुणाः सर्वत्र पूज्यन्ते' इति वाक्याद्गुणानां पूज्यत्वात्, 'ईश्वरः पूज्यते लोकैर्मूढैरपि
यदा कदा । निरुपाधिकमैश्वर्यं वर्णयन्ति मनीषिण' इति वाक्योक्तमैश्वर्यं निरूपितम् ।
शिवविरञ्चिदेवस्तुते इतिविशेषणेन 'वीर्यं देवेषु तत्रापि स्त्रीषु तत्रापि कामतः।सान्निध्ये
पुरुषाणां च मूर्छा तेन ततो महत्' इत्यत्रोक्तं वीर्यमुभयत्र निरूपितम् । घनाघनेति
विशेषणेन उभयत्रापि स्वरूपसौन्दर्यं सर्वाविसारकं विश्वजीवनत्वादिकं च निरूपि-
तम् । तेन 'यशो यदि विमूढानां प्रत्यक्षासक्तिवारणात् । स्वधर्मं योजयेत्तेषु तदा भवति
नान्यथा' इत्यत्रोक्तं यशो निरूपितम् । ध्रुवपराशराभीष्टदे अनेन स्वसेवकानासभी-
ष्टदानेन 'श्रीयो हि परमाकाष्ठासेवकास्तादृशा यदी'तिपद्योक्ता श्रीर्निरूपितोभयत्र ।
विशुद्धा मथुरेति मथुराया विशुद्धत्वं तु 'मथुरा भगवान् यत्र नित्यं सन्निहितो
हरिः' इति भगवत्सान्निध्यात् । तत्रापि श्रीयमुनातटसत्त्वेन लीलास्थानत्वम् ।
तेन 'ज्ञानोत्कर्षस्तदैव स्यात्स्वभावविजयो यदी'त्यत्रोक्तं ज्ञानं निरूपितम् ।
सकलेतीतिविशेषणेन गोपाश्च गोप्यश्च सततं गृहादिकं त्यक्त्वा एतत्तट
एव तिष्ठन्ति, पूर्वं तत्रैवानन्दस्यानुभूतत्वात् । यद्वा, सकलगोपगोपीभिरन्त-
स्थैर्वृता—आवृता । यद्वा, सकलगोपगोपीभिर्वृता भगवतो याचिता सम्भक्ता
वा । सा च भक्तानां सर्वात्मभावदानेन मानादिदोषनिवारकत्वेन च प्रभोः प्रीति-
वर्द्धिनी, तेन 'हरेश्चरणयोः प्रीतिः स्वसर्वस्वनिवेदनात्' । 'उत्कर्षश्चापि वैराग्ये हरे-
रपि हरैर्यदि' इत्यत्रोक्तं वैराग्यं निरूपितम् । एवं षड्भिर्विशेषणैर्धर्मान्निरूप्य धर्मि-
स्वरूपं निरूपयन्ति कृपाजलधिसंश्रितेति । यद्यपि भगवतः सर्वे धर्मा नित्याः,
तथापि कार्ये प्रकटा भवन्ति । करुणा तु नित्यमेव प्रकटा । तेन तज्जलधिरूपो भग-
वान् । अस्मिन् सम्यङ्मुख्यस्वामिनीवत् श्रिता मिलिता तेन, षड्गुणैश्वर्ययुक्तभगवति
६

४६ श्रीयमुनाष्टकम् ।
विशुद्धमथुरातटे सकलगोपगोपीवृते
कृपाजलधिसंश्रिते मम मनस्सुखं भावय ॥ ४ ॥
यया चरणपद्मजा मुररिपोः प्रियम्भावुका
एव प्रभुप्राकट्यात्तथा । विशुद्धा मधुरा तटे यस्याः । सा निकटे वा यस्य ।
निरवधिकृपायुक्तो हरिस्तस्मिन् । अन्या नदी लौकिकं जलधिं सङ्गता
भवति । इयं तु तादृशं श्रीव्रजेशं संश्रिता । एतेन त्वत्सङ्गतो भगवत्सङ्गतो
भवतीतिभावः सूचितः ॥ ४ ॥
अथ भगवदीयानामप्युत्कर्षाधायिका या तदुत्कर्षं को वक्तुं शक्त
इति भावेनाऽऽहुर्ययेति । चरणपद्मजा गङ्गा । तेन भक्तिमार्गीया ।
गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम्।
मिलिता यास्ते सर्वेपि गुणा द्योतिताः। एतेन धर्मिरूपत्वमस्या निरूपितम् । प्रभुपक्षे
चत्वारि तु स्फुटानि एव। विशुद्धा मथुरा तटे निकटे यस्य, तत्र निरन्तरं सान्निध्यात् ।
सकलेति स्फुटम् । कृपेति कृपा एव जलधिः, तेन संश्रितो मिलितः, अपारकृपा-
युक्त इति भावः । यथा समुद्रगामिन्यां नद्यां पतितं तृणादिकं स्वत एव समुद्रे प्रप-
तति, तथा अपारकरुणायुते कृष्णे मिलितायां यमुनायामाश्रिता अपि एतद्वेगेनैव तत्र
गमिष्यन्तीति भावः । ममेति । प्रभुपक्षे सम्बोधनान्तं श्रीयमुने इत्यध्याहृत्य योज-
नीयम् । एतादृग्धर्मवति हरौ मम मनः सुखं यथा स्यात्तथोपायं कुरु। श्रीयमुनापक्षे
भो एतादृग्धर्मवति ! मम मनसि यत्सुखं तत्त्वं भावय स्वमनस्यानय । त्वया मन-
स्यानीते मम सुखानुभवो भविष्यति नत्वन्यथा । भगवताष्टविधैश्वर्यस्य त्वयि
स्थापितत्वात् । अस्मिन् पद्ये भगवत्समानधर्मवत्वेपि अनायासेन भगवत्सम्बन्धस-
म्पादकत्वं चतुर्थमैश्वर्यं प्रदर्शितम् । अन्वयस्तु पक्षद्वयेप्युक्त एव ॥ ४ ॥
अथेत्यर्थान्तरारम्भे । चतुर्भिः पदैरुत्कर्षवर्णनद्वारा संस्तुत्य चतुर्भिरुत्कर्षवर्ण-
नस्याशक्यत्वं निरूपयन्तः संस्तुवन्ति यथेति ।
भगवदीयानामिति बहुवचनेन लक्ष्मीगङ्गासरस्वतीतुलस्यो ज्ञेयाः । तत्र
लक्ष्मीः पद्मजा, गङ्गाचरणपद्मजा, तथा तुलस्यपि, सरस्वती मुखपद्मजा । भगवदीयाः
सर्वत उत्कृष्टाः, महाराजसेवकवत्, तेष्वप्युत्कर्ष एतयाऽऽधीयते, 'स्वलक्षणा प्रादुरभूत्कि-
लाक्षतः इति वाक्यतः सर्वांसामुत्कर्षः श्रीयमुनाकृतः। अत एतदुत्कर्षवर्णनस्याशक्यत्वं

गो० श्रीद्वारकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम्। ४७
समागमनतोऽभवत्सकलसिद्धिदा सेवताम् ।
तया सदृशतामियात्कमलजा सपत्नीव य-
निर्दोषपूर्णगुणाऽपि यया त्वया सह समागमनतो मिलनतो हरेस्तथाऽभवत् ।
सेवतां च तथा । पूर्वं गङ्गाया अन्यसङ्गतिजनितमुत्कर्षमुक्त्वा भगव-
त्सङ्गतिजनित उत्कर्षः पठितः । “सा राजन् दर्शनादेव ब्रह्महत्यापहा-
रिणी”त्यादिरूपः । एतादृश्या त्वया सह सदृशतां किं काऽपीयादिति
गो० श्रीद्वारकेशचरणविरचितं टिप्पणम्।
युक्तमेव । तेनेति चरणपद्मजात्वेन, 'कारणगुणाः कार्यगुणानां समारम्भका' इति
न्यायाद्भगवच्चरणतुल्यगुणवत्यपि । तथाभवदिति, प्रियत्वं भावयन्त्यभवत् । सेव-
तामिति त्वया मिलितायाः सेवनं कुर्वताम् । तथेति । पूर्वोक्तसकलसिद्धिदा अभ-
वत् । सह कलाभिर्वर्तते सकलः पुरुषोत्तमस्तस्य सिद्धिः प्राप्तिस्तस्या दात्री ।
मूले सेवेतामित्यत्र चक्षिङोङित्करणादनुदात्तत्वप्रयुक्तस्यात्मनेपदस्यानित्यत्वाच्छतृ-
प्रत्ययो बोध्यः । पूर्वमिति पुराणेषु । अन्येति सरस्वतीसमागमनज उत्कर्षः । अत्र
केचित्कमलजासपत्नीव यदिति प्रिये इति वा पठन्ति, तत्र मूलं मृग्यम्, एतादृश्येति ।
स्वसम्बन्धेन स्वसमानगुणसम्पादनकर्त्या । तत्रापीति पत्नीत्वेपि । त्वं तु प्रिया
इति तथा सम्बोधनम् । इव यदिति पाठे, लक्ष्मीर्भवत्याः सपत्नी इव । त्वद्वत्पुष्टि-
मार्गीयालीलास्थभक्तानुगुणत्वसम्पादिकात्वाभावात । त्वं तु सर्वदुःखहर्तृर्भगवतः
प्रियाणां कलेः खण्डनकर्त्रीति महद्वैलक्षण्यम् । तेन न कापि त्वत्सदृशीति भावः
सूचितः । यतस्त्वं भक्तानुगुणा अतः प्रार्थ्यते । मम मनसि सदा स्थितिं कुरु,
मनसि म इति मूले । मनसि त्वयि स्थितौ मनसः शुद्धत्वं सेत्स्यति । तस्मिन्सति
सकलेन्द्रियाणां निर्दुष्टत्वमेव । अतश्चैकादशे भिक्षुगीतायां 'मनः परं कारणमामन-
न्ती'ति । 'मनोवशेन्ये ह्यभवं स्म देवा मनश्च नान्यस्य वशं समेति । भीष्मो हि देवः
सहसः सहीयान्युञ्ज्याद्वशे तं स हि देवदेवः' । श्रुतिरपि तृतीयाष्टकब्राह्मणेऽन्तिमे प्रश्ने
नवमानुवाके 'मनसो वशे सर्वमिदं बभूव । नान्यस्य मनो वशमन्वियाय, भीष्मो
हि देवः सहसः सहीयान् स नो जुषाण उपयज्ञमागात् ' आकृतीनामोधेपर्ति
चेतसां च सङ्कल्पजूतिं देवं, विपश्चितम्, मनो राजानमिह वर्द्धयन्तः ।
उपहवेस्य सुमतौ स्याम । स्मृतिश्च, 'मन एव मनुष्यस्य पूर्वरूपाणि शंसति'
'असंशयं महाबाहो मनो दुर्निग्रहं चलमि'ति एतादृशि मनसि निर्दोषपूर्ण-
१ भवतीत्सङ्गति० पाठः ।

४८ श्रीयमुनाष्टकम् ।
हरिप्रेयकलिन्दया मनसि मे सदा स्थीयताम् ॥ ५ ॥
नमोऽस्तु यमुने सदा तव चरित्रमत्यद्भुतं
न जातु यमयातना भवति ते पयःपानतः ।
काकूक्तिः । यदीयात् कमलजेयात् । तत्र हेतुमाहुर्यद्यस्मात्सा भगवत्पत्नी-
त्वात्सपत्नी भवति । तत्रापि भवती प्रियेति—इवेति । भक्तानुगुणत्वमाहु-
र्हरिप्रियाणां कलिं (दोषं) द्यति खण्डयति ॥ ५ ॥
एतादृश्यां त्वयि नमनातिरिक्तं न वक्तुं शक्यमित्याशयेनाऽऽहुर्न-
गो० श्रीद्वारकेशचरणविरचितं टिप्पणम् ।
गुणवत्यास्तवानवरतस्थितौ मनसो भावाधिष्ठानत्वाद्भावस्यापि तथात्वं भविष्यति ।
तस्मिंस्तथा सति चैकादशस्कन्धीयद्वादशाध्यायोक्तरीत्या गोपिकावल्लीलाप्रवेशः
सुकरः । मूलान्वयस्तु, हे प्रिये ! यथा समागमनतश्चरणपद्मजा मुररिपोः प्रियं
भावुका अभवत्, सेवतां सकलसिद्धिदा च अभवत्, तया सदृशतामियात् कमलजा
यत्सपत्नी, अस्तीति शेषः । एतादृश्या हरिप्रेयकलिन्दया मे मनसि सदा स्थीय-
ताम् । अस्मिन्पद्ये भगवत्प्रियकलिनिवारकत्वं पञ्चमं ऐश्वर्यमुक्तम् ॥ ५ ॥
एवमुत्कर्षवर्णनस्य सर्वेश्वरप्रियाज्ञाननिरूपणद्वारा अशक्यत्वं निरूप्य भगवदी-
योत्कर्षसम्पादनकर्य्याः स्तुतेरशक्यत्वं निरूपयन्तोऽग्रिममवतारयंति एतादृश्यामिति।
भगवत्प्रियकलिनिवारणकर्त्या नमनातिरिक्तं सेवनादिकं कर्तुं सुतराम-
शक्यम् । परं नमनमपि दुर्लभमतः प्रार्थनमित्यत आहुः त्वयीति। मूले अत्यद्भुत-
मिति । अत्रैवं ज्ञेयम्, भगवांस्त्वद्भुतकर्मा, प्रमेयबलेन असाधनं यत्कामादिकं तत्सा-
धनमिव कृत्वा स्वीयानुद्धरति । तदुक्तं सप्तमस्कन्धे, 'गोप्यः कामादि'त्यादिना । त्वं तु
अत्यद्भुतचरित्रवती। अद्भुतत्वमेवाग्रे उपपादितम्। यत्सर्वान्जीवान् भावरहितान् साधनैः
कामादिरहितान् जिह्वोपस्थपरायणान् अनंतिमजन्मसंभूतान् त्वद्रूपज्ञानेन सुतरां शून्या-
नपि पिपासाहेतुकपयःपानेनैव भगवत्प्रियान्करोषि । न भावमप्यपेक्षसे । एतदेवाहुः न
जात्विति । जातु कदाचिदपि यमयातना न भवति । यद्यपि भगवन्नामतो यमया-
तनाऽभावो भवति, तथापि गुरुषु मन्तुषु सत्सु भवत्यपि । प्रकृते तु मन्तुषु सत्स्वपि
नेति महद्वैलक्षण्यम् । अत्र लौकिकीमुपपत्तिमाहुः यमोऽपीति । अत्रैवं ज्ञेयम्, यम-
१ तन्नापि प्रियेति वेतीति पाठः ।