षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 53, कुल 408 में से
संदर्भ में पढ़ेंगो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम् । ३९
उक्तश्च भक्तिवर्द्धिन्यां त्यागो भक्तिविवर्द्धनः ।
अतस्तस्य विवेकार्थे संन्यासे निर्णयं जगौ ॥ १७ ॥
भावसिद्धौ भावनैव साधनं त्वपरं न हि ।
निरोधलक्षणे भावं व्रजस्थानामतश्चकौ ॥ १८ ॥
इत्थं पञ्चदशग्रन्थैर्भावं संसाध्य कारणम् ।
उद्वेगप्रतिबन्धानां साधनैर्वारणैः सह ॥ १९ ॥
फलं स कथयाँश्चक्रे सेवाफलनिरूपणम् ।
तस्याप्यतिदुरुहत्वाद्विवृतिं चाकरोद्विभुः ॥ २० ॥
एवं षोडशभिर्ग्रन्थैः पुरुषोत्तमसेवनम् ।
प्रतिपाद्य फलत्वेन चक्रे जीवोद्धृतिं विभुः ॥ २१ ॥
अवतारदशायां तु उद्धृती रूपदर्शनात् ।
इह नामात्मकैर्ग्रन्थैः स्वदासानां सदोद्धृतिः ॥ २२ ॥
तस्मात्सर्वप्रयत्नेन दैवैः कर्त्तव्यमेव हि ।
सेवनं श्रीव्रजेशस्य तद्ग्रन्थानां च पाठनम् ॥ २३ ॥
इति सिद्धं तथापीह लोके जीवा बहिर्मुखाः ।
कृता भगवदाज्ञप्तै रुद्रांशैर्ब्राह्मणैस्ततः ॥ २४ ॥
तेषां साम्मुख्यसिद्ध्यर्थमर्थज्ञानमपेक्षितम् ।
तदर्थं ग्रन्थटीकास्तु प्रभुप्रभृतिभिः कृताः ॥ २५ ॥
तासां मतं समालोक्य सर्वकर्तृकृपावलात् ।
मयापि क्रियते ह्येषा सुगमान्वयबोधिनी ॥ २६ ॥
श्रीमदाचार्यचरणान्नमस्कृत्य पुनःपुनः ।
गोपीनाथांश्च सुखदान् सत्सूनुयुतान्प्रभून् ॥ २७ ॥
श्रीदामोदरसञ्ज्ञं तत्पुत्रं विठ्ठलरायकम् ।
श्रीवल्लभं गिरिधरं तत्सूनुं विठ्ठलेश्वरम् ॥ २८ ॥
द्वारिकेशं गिरिधरं मथुरानाथसञ्ज्ञकम् ।
हरिरायनरश्रेष्ठौ स्मृत्वा तट्टिप्पणीकृतौ ॥ २९ ॥
यमुनाष्टकटीकायाष्टिप्पणं विलिखाम्यहम् ।
तत्र बुद्धिं प्रयच्छन्तु श्रीमदाचार्यवंशजाः ॥ ३० ॥