षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 16, कुल 408 में से
संदर्भ में पढ़ें२ श्रीयमुनाष्टकम् ।
श्रीहरिरायप्रणीतं टिप्पणम् ।
तथा च, पुष्टिमार्गाङ्गीकृतानामेव जीवानामत्रोद्धार इति ज्ञेयम् । अयं च पुष्टिप्रभोः
श्रीयमुनायाः श्रीमदाचार्यचरणानां च समानो धर्मः । भगवता व्रजस्थानां श्रीयमु-
नया अपि प्रभुसम्बन्धसम्पादनेन प्रभुप्राकट्यकरणेन च तासामेवाऽस्मत्स्वामिभि-
रपि तथाविधानामिदानीन्तनानामुद्धारात् । विशेषस्त्वेतावानेव । भगवता श्रीयमु-
नया च लीलास्सृष्टिस्थानामेव तथाकरणम् । इदानीन्तनानां प्रभुपारोक्ष्येऽस्मत्प्रभु-
भिरिति । एवं च सति त्रयाणां सजातीयधर्मवत्त्वे च सिद्धम् ।
भगवान् विरहं दत्वा भाववृद्धिं करोति हि ।
तथैव यमुना स्वामिस्मरणात्स्वीयदर्शनात् ॥ १ ॥
अस्मदाचार्यवर्यास्तु ब्रह्मसम्बन्धकारणात् ।
तापक्लेशप्रदानेन निजानां भाववर्द्धकाः ॥ २ ॥
उद्धारोऽत्र भगवदासक्तिसम्पादनेन प्रपञ्चात्पृथक्करणम् । तेन सर्वात्मभावदानमेव
स इति बोध्यम् । एवकारोऽत्र प्रयोजनान्तराभावाय । एतेन मायावादखण्डनब्रह्मवा-
दस्थापनकर्ममार्गप्रवर्त्तनादिकमानुषङ्गिकमिति सूचितम् । स्वरूपमाहुः—आविर्भू-
तेति । आविर्भूतो व्रजजनहृदयेभ्यो लीलाकरणार्थं यो वृन्दावनप्रियः सदानन्दस्त-
द्रूपास्त इत्यर्थः । यथा भगवान् लीलाप्राकट्यायैव रसात्माऽऽविर्भूतस्तथैतेऽपि श्रीभाग-
वतविवृतिप्रकटीकरणेन तत्प्राकट्यार्थमेवाऽऽविर्भूता इति भावः । अथवा, वृन्दावनमेव
प्रियं यासाम्, भगवद्विरहे तदर्थमपि तदपरित्यागात् । ताः स्वामिन्यः । आविर्भूताश्च
तास्तथाभूताः, ता एवैत इत्यर्थः । स्वामिनीभावेन प्राकट्यदशायां सेवादिकरणा-
श्रीपुरुषोत्तमप्रणीता विवृत्तिः।
सदैव, सदैव तदर्थं वा, सदा तदर्थमेव वा, कृपयन्विति सम्बन्धः । एतेन स्वस्य
तदुद्योगस्तदावश्यकत्वं कृपालुत्वं च बोधितम् । तथाच कृपयाऽष्टकविवृतिभ्यां तं
कुर्वन्तु कारयन्तु चेति भावः । श्रीमदाचार्यावतारप्रयोजनं तु—'अर्थ तस्ये'ति
श्लोकेन 'सर्वोद्धारप्रयत्नात्मे'त्यादिसन्दर्भेण च स्वयमेव ज्ञापितम् । तदत्र 'विश्वोद्धारा-
र्थमेवाऽऽविर्भूते'ति पदसमभिव्याहारेण बोधितम् । स्वावतारप्रयोजनं तु स्वनाम्ना,
विदा ज्ञानेन ठाः शून्यास्तान् लात्यनुगृह्णातीति तदर्थात् । पदनिरुक्तिस्तु—विदा
इत्यत्र विभक्तिलोपे चर्त्वे ष्टुत्वे च कृते 'चयो द्वितीयाः शरि पौष्करसादेरि'ति वार्त्ति-
कात्ष्टस्य ठत्वम् । 'पौष्करसादेर्मते शर्येव अन्येषां मते त्वन्यत्राऽपी'ति कृष्णपण्डितै-
र्विस्तरेण व्याख्यानात् । यदि च नवीनमतमालम्ब्येदं नाऽऽद्रियेत तदा तु—
१ भगवदास्यरूपस्य आचार्यरूपेण इति विशेषः । अ.