षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 17, कुल 408 में से
संदर्भ में पढ़ेंश्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। ३
श्रीहरिरायप्रणीतं टिप्पणम् ।
तद्भावभावनेन च तद्रूपत्वमिति भावः । वस्तुतो भावात्मा भगवान्, 'रसो वै सः' इति
श्रुतेः। तदास्रूपत्वादेतेऽपि तथा। तथा श्रीममुनाऽपि द्रवीभूतरसात्मकतत्स्वरूपत्वेन ।
तत्र यथा भगवतीव श्रीममुनायामपि स्वामिनीभावेन स्त्रीरूपत्वं, तेन च तत्र सर्वाऽपि
भगवल्लीला, भगवद्भावेन च भगवत्त्वं, विरहे भगवत्स्वरूपतद्दर्शनेन स्वामिनीसुखाय,
तथाऽत्राऽपि प्राकट्यदशायां स्वामिनीभावेन सेवादिकृतौ तद्रूपत्वं, भगवद्भावेन भग-
वद्रूपत्वं, विरहे तासामन्तरास्थ्यप्राकट्येन स्वरूपसम्बन्धिसुखदानायेति बोध्यम्। अत
एवोक्तं श्रीवल्लभाष्टके—” यत्सादानन्ददं श्रीव्रजजननिचय' इति । यद्वा । आवि-
र्भूतं स्वस्वहृदयेभ्यो बहिःप्रकटीभूतं यद्वृन्दावनं तत्प्रियं यासाम् । अन्तःस्थितावपि
बहिःप्राकट्यस्यैवाऽभिलषितत्वात् । अत एव 'वृन्दावनं सखि भुवो वितनोति कीर्तिम्'
(१०-२१-१०) इति ताभिर्गीतं।तथाच तादृक्तद्रूपत्वादस्मत्प्रभवोऽपि लीलाविष्करणा-
भिलाषिण इति ज्ञेयम् । तातचरणा इति सम्बन्धिनिरूपणं तु पुष्टिमार्गीयाचार्य-
करुणासिद्धिर्यथाकथञ्चित्सम्बन्धसिद्ध्यैव भवति न त्वन्यसाधनैरिति बोधनाय ।
देहेन भावतो वाऽपि सम्बन्धः फलसाधकः ।
पुष्टिमार्गे नाऽतिरिक्तं साधनं साधकं ततः ॥ १ ॥
नायमात्मेत्युपनिषन्निषेधति यतोऽखिलम् ।
नन्दादयो देहजेन प्रादुर्भावेन गोपिकाः ॥ २ ॥
मयीति तत्कृपायोग्यत्वबोधनाय । सर्वसाधनराहित्येन केवलं तदीयत्वाद्
अत एवैकवचनम्, अत एव सप्तश्लोक्यां 'तनोतु निजदासस्य सौभाग्यम्'इति
श्रीपुरुषोत्तम प्रणीता विवृतिः।
'पररूपं तकारो लचटवर्गेषु'—तकारः पदान्तो लचटवर्गेषु परे पररूपमापद्यते—
इति कौमारसूत्रात् । आवश्यकत्वमपि विवृतेरेतेनैव ध्वनितम् । आविर्भूतवृन्दा-
वनप्रिया इति । अत्र वृन्दावनस्य प्रियः, वृन्दावनं प्रियं यस्येति वा वृन्दावनप्रियः,
आविर्भूतश्चाऽसौ स च आविर्भूतवृन्दावनप्रिय इति तत्पुरुषबहुव्रीह्यन्यतरगर्भः कर्म-
धारयः । तथाच तदभिन्ना इत्यर्थः । अत्र भगवत्पक्षे अभेदो वास्तवः । 'वस्तुतः
कृष्ण एवे'त्याद्युक्तेः । व्रजभक्तपक्षे तद्भाववत्त्वकृतसारूप्यनिबन्धनः । 'तत्सार-
भूते'ति नामनिर्देशात् । तातचरणा इत्यत्र चरणपदं बहुवचनं च पूजार्थम् ।
'जीवत्सु तातपादेषु', 'मुद्रे ब्रूहि सलक्ष्मणाः कुशलिनः श्रीरामपादा' इत्यादि-
प्रयोगदर्शनात्, 'एकत्वं न प्रयुञ्जीत गुरावात्मनि चेश्वरे' इति वाक्याच्च 'जात्या-
१ तासामन्तरा स्वप्राकट्येनेति ग. २ तादृग्रूपत्वादिति ग.घ. ३ तन्मयत्वादिति ग-घ.