शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)
Shivadrishti of Somanandanatha with Utpaladeva Vritti
by सोमानन्दनाथ (वृत्ति: उत्पलदेव)
About this granth
Shivadrishti (शिवदृष्टि), by Somananda of roughly the ninth to tenth century, is regarded as the first systematic treatise of the Pratyabhijna ("recognition") school of Kashmir Shaivism. His disciple Utpaladeva built on it in the Ishvarapratyabhijna Karikas and wrote a commentary (vritti) on the Shivadrishti itself. Its central claim is that everything is Shiva, who appears as the world by his own will.
In seven chapters (ahnikas) it sets out Shiva's ultimate nature, his freedom and all-pervasiveness, and the reflective power of Shakti; it then rejects the grammarians' doctrine of the Word as Brahman and examines Vaisheshika, Sankhya, Buddhist and Vedanta positions, closing with the proof that all things are Shiva and a discussion of absorption (samavesha).
This edition, the eighth volume of the Shri Shivoham Sagar Granthamala, gives the text with Utpaladeva's vritti and notes by Madhusudan Kaul. It was edited with an introduction and published by Sarvadarshanacharya Krishnanand Sagar under the direction of Mahamandaleshwar Swami Akhandanand Sagar. The 188-page copy is from the Kendriya Sanskrit Vidyapeetha library, Jaipur.
ॐ सच्चिदानन्दाय नमः
अथ
शिवदृष्टिः
श्रीमत्सोमानन्दविरचिता
श्रीमहामाहेश्वरोत्पलदेवाचार्यविरचितवृत्त्योपेता
प्रथमाह्निकम्
चिदाकाशमये स्वाङ्गे विश्वालेख्यविधायिने ।
सर्वार्द्भुतोद्भवभुवे नमो विषमचक्षुषे ॥ १ ॥
१ विषमचक्षुषे इति—यद्धि प्रमाणप्रमेयलक्षणं विश्वं तद्भेदाभासेन
मिथ्यैवेति नेत्रद्वितयेन द्योत्यते भगवता । परमार्थतस्तद्गतायामपि स्वात्म-
स्फुरत्तामात्ररूपत्वादस्य विश्वस्य न कापि भेदकलङ्कदोषकल्पनेति तृतीय-
नेत्रेण द्योत्यत इति । तच्च भगवत एवान्यस्य तु न भेदाधिष्ठातृत्वादिति ।
ततश्च तत्रैव नमस्कारो युक्तः, अन्यत्र तु किं फलमिति वाक्यार्थसमन्वय-
दीपिकायां निर्णीतमिति । तदेव समर्थयति 'स्वाङ्गे विश्वालेख्यविधायिने'
इति । स्वाङ्ग इति न तु व्यतिरिक्ते क्वचन । यदुक्तं पूर्वगुरुणा—
'निरुपादानसंभारमभित्तावेव तन्वते ।
जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने ॥' ( स्त० चि० ५ )
इति । भगवता वीरेण व्यासेनापि—
'मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।
संभवः सर्वभूतानां ततो भवति भारत ॥' ( भ० गी० १४।३ )
इति । कालिकाकारविश्वचित्रेणापि नास्य स्वरूपान्यथाभाव इत्याकाश-
साम्यं व्यतिरेकध्वनिश्च । निमित्तावेव चित्रविधानमिति महदाश्चर्यम् ।
२ शिवदृष्टिः [ आ०-१
विभ्रमाकरसंज्ञेन स्वपुत्रेणास्मि चोदितः ।
पद्मानन्दाभिधानेन तथा सब्रह्मचारिणा१ ॥ २ ॥
ईश्वरप्रत्यभिज्ञोक्तविस्तरे गुरुनिर्मिते ।
शिवदृष्टिप्रकरणे करोमि पदसंगतिम् ॥ ३ ॥
प्रकृतशास्त्रानुसारेणेष्टदेवतानमस्कारं२ करोति शास्त्रकारः--
अस्मद्रूपसमाविष्टः स्वात्मनात्मनिवारणे ।
शिवः करोतु निजया नमः शक्त्या ततात्मने ॥ १ ॥
योऽहं नमस्करोमि स शिवोऽस्मद्रूपेणैक्यं प्राप्तः । वस्तुस्थित्या हि
सर्वतत्त्वविग्रहो वक्ष्यमाणनीत्या शिवः । स३ संसारार्थं मायाशक्तिप्रकृतैक्या-
ख्यात्या भावानात्मस्थानाभासयति ईश्वरप्रत्यभिज्ञा प्रपञ्चितन्यायेन ।
ततस्तान्४ प्राणादीन् पुनः कांश्चिल्लोकयात्रासु५ अस्मद्रूपप्रमातृभेदेन
स्थापयिष्यन् भिन्नीकृतान्प्रमेयानपि घटपटादिवैलक्षण्येनात्मभेदेन पश्यन्
समाविशति इत्युच्यते । यावत्या च मात्रया समावेशस्तावन्मात्रसिद्धि-
संभवः । प्रथमस्तावत् कर्तृत्वानुसारी ज्ञानक्रियायोगः । यथोक्तं
स्पन्दशास्त्रे--
नहीच्छानोदनस्यायं प्रेरकत्वेन वर्तते ।
अपि त्वात्मबलस्पर्शात्पुरुषस्तत्समो भवेत् ॥ (१।८)
१ ‘एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः’ इति कोशः । २ प्रकृत-
शास्त्रं शैवाद्वयनयः । अयमत्र सूक्ष्मार्थः—शास्त्रादौ ‘श्रेयांसि बहुविघ्नानि’
इति नयेनावश्यं तदुत्पुंसनार्थं नमस्कारो विधेयः । येन प्रस्फुरत्तन्महौजसा
विघ्नाः कुण्ठशक्तयो न प्रभवन्ति । तत्र सर्वस्योर्पार्काशत्वेनासिद्धया
किं केन कस्य निरसनमित्याशयेनाह प्रकृतेत्यादि । तथा च विश्वात्मनो
विततरूपस्यानन्तशक्तेर्नमस्करणीयत्वम् । संकुचितसदाशिवादिज्ञानशक्ति-
स्वरूपपश्यन्तीधामासूत्रितस्वांतन्त्र्यहानिस्वातन्त्र्याबोधात्मकस्य पशोस्त-
त्कर्तृत्वं तस्यैव संकुचितस्यापि तद्गुणीकारस्वरूपेण विश्रमेण गृहीतस्पन्द-
स्वरूपशाक्तमहिम्नोऽपि करणत्वमिति । ३ स इति मायाशक्तिप्रकृतैक्याख्याति-
भाजनभूतास्मद्रूपप्रमातृभूमौ समाविष्टः । ४ ततं इति अनात्मस्थत्वे ।
५ प्रमेयभेदेनैव प्रमातृभेद इत्याशयं सूचयति लोकयात्रासु इत्यादिना ।
यात्रा—व्यवहारः ।
आ०-१ ] उत्पलदेवकृतवृत्त्योपेता ३
इति। तथाप्यत्रोक्तम् 'ऐश्वरी प्रवृत्तिः' इति। अनयैव¹ दृष्ट्या तत्तद्दृढचर्य-
मधिकतरः समावेशोऽभ्यसनीयः स्वप्रयत्नेनापीत्येतदपि सूचितम्। समा-
विष्टश्च शिवोऽपीत्युच्यते देवदत्तादिरपि च उभयोरैक्यगमनाविशेषात्।
स तथाविधः शिवस्ततात्मने परापररूपभगवत्सदाशिवादिप्रसरणमुखेना-
नन्तविस्ताराय निजस्वरूपाय परमशिवसंज्ञाय नमस्करोतु। लोट् निमन्त्र-
णादौ² नमस्तेऽस्तु इतिवत्। वयं शिवात्मानः परमेश्वराय नमस्करवामे-
त्यर्थः। परत्वेन प्रथमपुरुषप्रयोगोऽकिंचिद्रूपत्वेन कृत्रिमाहंभावस्य कर्तृता-
मात्रं तत्त्वमिति दर्शनार्थः। सर्वं च शिवमियमिति नमस्कारे वाङ्मनसादि
करणमपि शिव एव। तदाह स्वात्मना इति। विघ्ना अपि तदात्मान एव
निवार्याः। तदाह आत्मनिवारणे इति। नमस्कारे चास्मदीयेच्छादिशक्तिः
शैव्येवेत्याह निजया शक्त्या इति। एतेन³ सर्वा एव क्रियाः सकारकाः
सफलाश्च गमनभोजनादिका एवमेवानुगन्तव्या इति दर्शितम्॥ १॥
इदानीं समस्तशास्त्रार्थं संक्षेपेण सयुक्तिकं⁴ प्रतिजानीते--
आत्मैव सर्वभावेषु स्फुरन्निवृत्तचिद्विभुः⁵।
अनिरुद्धेच्छाप्रसरः⁶ प्रसरद्दृक्क्रियः⁷ शिवः⁸॥ २॥
१ यथा भिन्नीकृतानपि प्राणादीन्प्रमेयानात्माभेदेन पश्यति तथैव
सर्वमपि व्याप्यमित्यर्थः।
२ नियोगकरणं निमन्त्रणमावश्यके प्रेरणेत्यर्थः। ततश्चाप्रवृत्तप्रैष
इति फलितोऽर्थः, तेन प्रेषणानवकाश एवेत्यर्थः। तदुक्तं हरिणा--
'अप्रवृत्तस्य हि प्रैषे पृच्छादेर्लोङ्विधीयते।
प्रवृत्तस्य यदा प्रैषस्तदा स विषयो णिचः॥'
इति। तेन करोत्वित्यत्रान्यप्रेरकत्वमिति न भ्रमितव्यम्।
३ एतेनेति--अयं श्लोको नमस्कारैकपरमार्थोऽपि प्रयुक्त इहो-
दाहरणीकृत एव मन्तव्य इत्याह गमनभोजनादिका इति। तेन अभ्यव-
हारगमनजल्पसंवेशनादिकं कारकभेदप्रथाभासकं फलेन च कार्यकारण-
भावाभासकं तत्सर्वं तस्यैव ततात्मनः स्फुरणमात्रमेव मन्तव्यमिति भावः।
४ अनुभवानुसारी तर्को युक्तिः।
५ स्वप्रकाश एव। ६ अहंप्रथात्मत्वेन स्वातन्त्र्यात्। ७ घटादीनां
यत्पार्यन्तिकं पारमार्थिकं रूपं, स एव।
८ अयमर्थः--सर्वभावानां य आत्मा वेद्यतारूपः स एव शिव इति
तं विना 'प्रागिवार्थोऽप्रकाशः स्यात्' इति नीत्या सर्वान्ध्यप्रसंगः। अत
४ शिवदृष्टिः [ आ०-१
सर्वभावेषु स्वात्मैव शिव इति व्यवहर्तव्यमिति प्रतिज्ञा¹। निर्वृत-
चिदित्यादिविशेषणकलापो हेतुः²। स्फुरन्निति धर्मिणो³ हेतोश्च⁴ स्वसंवे-
दनप्रत्यक्षं प्रमाणम्⁵। अत एव स्फुरन्निति पृथक्पदम्। निर्वृतचित्त्वाच्चैव⁶
च शिवत्वमित्यर्थाच्चिद्वलक्षणमपि दर्शितम्। तस्मिंश्च सिद्धे विषये, शिव-
त्वव्यवहारमात्रं तद्विषयं साध्यत ईश्वरप्रत्यभिज्ञोक्तक्रमेण। यथा च
चिन्निर्वृतीच्छाज्ञानक्रिया घटपटपर्यन्तसर्वभावेषु भासमानेषु स्फुरन्ति,
एव च न बाह्यं नाम किंचन परमार्थतो विद्यते। एवं चार्थस्य प्रकाशत्वे
प्रकाशोऽप्यर्थः अर्थोऽपि प्रकाश इति भावगर्भीकारेण व्यासमुनिना
गीतासूक्तं—
'यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति।' (६।३०)
इति। तथा—
'सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि।' (६।२९)
इति च। वृत्तिकृता चान्यत्रोक्तम् 'अर्थानां प्रकाशात्मतया परमात्मत्वेन
विश्वरूपत्वात्'। अन्यत्रोक्तम् 'एकैकत्र च तत्त्वे षट्त्रिंशत्तत्त्वरूपता विद्यते'
इति। तथा वेदान्तिनोऽपि प्राहुः—
'प्रदेशोऽपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तोऽविकल्प्यश्च।'
इति। अत एव च शरीरमेव च ये षट्त्रिंशत्तत्त्वमयं शिवरूपतया पश्यन्ति
अर्चयन्ति, तेऽपि च सिद्ध्यन्ति घटादिकमपि वा तथाभिनिविश्य पश्यन्तीति
नास्त्यत्र विवादः।
१ परप्रतीतौ पञ्चावयवं वाक्यमुदाहरणीकरोति प्रतिज्ञेति, ससाध्यं
पक्षकथनं प्रतिज्ञा। २ लिङ्गवाचको हेतुः। ३ स्वात्मैव शिव इत्यस्य।
४ निर्वृतचिदित्यस्य। ५ अनुमानं हि प्रत्यक्षमूलम्। ६ निर्वृतिः
स्वप्रकाशस्वरूपविश्रान्तिरानन्दलक्षणा, तत्र नित्ययोगे मत्वर्थेऽच् प्रत्ययः।
तेन चितः समासकरणं वृत्तौ पदानामेकार्थीभावादत्यन्ता वियोगमेकार्थी-
भूततां च प्रकाशानन्दयोर्दर्शयद्विज्ञानानन्दरूपस्य भगवतो धर्मित्वं कथयति।
उक्तं चेश्वरप्रत्यभिज्ञायां—
'किंतु मोहवशात्तस्मिन्दृष्टेऽप्यनुपलक्षिते।
शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते॥' (१।१।३)
इति।
आ० - १ ] उत्पलदेवकृतवृत्त्योपेता ५
तथाग्रतो¹ वक्ष्यते । शक्ति²शक्तिमतोर्भेदाच्छक्तिमतश्चैक्यात्³ शक्तिपञ्चकं
परापरावस्था⁴ व्यवहर्तृप्रमात्रपेक्षयेतीश्वरप्रत्यभिज्ञोक्तनीत्या⁵ पुरस्ता-
द्द्रक्ष्यते । निर्वृता वेद्यनिराकांक्षा पूर्णा चिद्यस्य सः, तथा विभुरात्मसात्कृत-
समस्तवेद्यार्थः, अनिरुद्ध⁶ इच्छाप्रसरो यस्य, प्रसरन्त्यौ दृग्ज्ञानं⁷ क्रिया च
यस्य स तथालक्षणः शिवः सर्वेष्वात्मैव ॥ २ ॥
एवं सर्वं शिवरूपमिति स्वसंवेदनसिद्धे व्यवहारमात्रं साध्यमिति
स्थिते वाद्यन्तरविमतिं⁸ निराकरिष्यन् परदशातः प्रभृति घटपटादिस्थिति-
पर्यन्तमेवंरूपशिवतावस्थितिसादृश्यप्रतिपादनं प्रस्तौति—
स यदास्ते चिदाह्लादमात्रानुभवतल्लयः ।
तदिच्छा तावती तावज्ज्ञानं तावत्क्रिया हि सा ॥ ३ ॥
सुसूक्ष्मशक्तित्रितयसामरस्येन वर्तते ।
चिद्रूपाह्लादपरमो निर्विभागः परस्तदा ॥ ४ ॥
शिवैक्याख्यातिरूपभ्रान्तिमयसंसारावस्था यावन्नोन्मिषति, तावदपि
तावत्येवोक्तरूपशिवता९ । तथाच शक्तिपञ्चकमपि तदानीमेकरूपमपि व्यव-
हारापेक्षया कार्यसंभवादस्त्येव१० । तथा¹¹ हि परापरावस्थायां योऽहमिति
सहजप्रत्यवमर्शात्मा प्रकाशः, स एव परानपेक्षः पूर्णत्वादानन्दरूपो निर्वृत-
चिन्मयः स्थित एव । सैव स्वतन्त्रा मुख्या शिवता । तदुक्तं चिदाह्लादेति ।
पूर्णचिदानन्दमात्रेऽनुभवः प्रकाशनं नतु बाह्ये, तत¹² एव तत्रैव लयो यस्य
१ 'घटादिग्रह' इत्यादौ । २ अत्र शक्तिपञ्चकेनैव भेदमाशङ्क्याह ।
३ तस्य स्वात्मन्यपि भेदमाशङ्क्याह । ४ सदाशिवत्वमुद्रेकादित्यादौ ।
५ ऐक्ये सिद्धे पूर्णत्वस्य बलादेव लाभ इति व्यतिरिक्ताकांक्षावैकल्यात्—
प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः ।
उक्ता च सैव विश्रान्तिः सर्वापेक्षानिरोधतः ॥
स्वातन्त्र्यमथ कर्तृत्वं मुख्यमीश्वरतापि च ।' (अ. प्र. सि. २३ का.)
इति परमानन्दस्वभाव इत्यर्थः ।
६ यतः सर्वभावेषु आत्मा अहमिति स्वतन्त्रस्तत एव । ७ प्रकाशो
विमर्शश्च ।
८ वेदान्तानां भिन्नवेद्यवादिनां च । ९ कथितव्याप्तिका । १०
कार्येण कारणानुमानम् । ११ तत्रादौ परापरावस्थायाः चिदानन्दतां समर्थ-
यति । १२ चिदानन्दमात्रव्यतिरिक्तस्य भिन्नज्ञानवदभावात्तत एव प्रकाश-
स्तत्रैव लयश्च ।
६ शिवदृष्टिः [ आ०-१
स तथा। अनेन निवृत्तचित्कथिता। इच्छाज्ञानक्रियास्तु भिन्नविषयाद्य-
पेक्षया¹ स्फुटीभवन्ति। परावस्थायां पुनः पूर्णोऽहमित्येव स्वस्वभावः
प्रकाशते, तावत्प्रकाशत्वात् तदेव ज्ञानं, संरम्भरूपत्वात्² सैव क्रिया, तत्स्व-
भावत्वेन तदभ्युपगमादिच्छापि स्थितैवेत्याह तदिच्छा तावतीति। तावच्च
स्वरूपं क्रियेति योज्यम्। अथवा तावज्ज्ञानमिति तावच्छब्दः³ क्रियायां
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१. प्रथम-द्वितीय आह्निक: शिव-पारमार्थिक स्वरूप, स्वातन्त्र्य एवं सर्वमयता
आ०-१ ] उत्पलदेवकृतवृत्त्योपेता ७
न केवलं परापराद्यनाविर्भाव एवैवं नियमो¹, यावदपरावस्था-
यामपि । सर्वविकल्पादिज्ञानानामग्रत उत्पित्सावस्थायां² ज्ञानज्ञेयानाबिल-
ज्ञातृस्वरूपसंस्पर्शोऽवश्यंभावीति तदवस्थास्वपि परव्यवस्था । यद्यपि³ तदा
पुर्यष्टकलक्षणज्ञातृवस्थानात् सौषुप्तवत् न परावस्था, तथापि यदा ज्ञानाग्र-
भागेषु विश्राम्यति क्वचित्, तदा परता । न च प्रमाणभूमौ विश्रान्तिस्तत्रापि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in८ शिवदृष्टिः [ आ०-१
विभागे यथा शक्तिपञ्चकस्थितिस्तथा वक्तव्यं, तत्क्रमेणाह--
यदा$^१$ तु तस्य चिद्धर्मविभवामोदजृम्भया ॥ ७ ॥
विचित्ररचनानानाकार्यसृष्टिप्रवर्तने$^२$ ।
भवत्युन्मुखिता चित्ता सेच्छायाः प्रथमा त्रुटिः ॥ ८ ॥
चिद्रूपस्य शिवभट्टारकस्य धर्मः स्वभावो यो विभवः पञ्चविधकृत्य-
निर्वृत्तियोग्यता,
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inआ०-१ ] उत्पलदेवकृतवृत्त्योपेता ६
रुक्षतां संभाव्यत इत्येवं निर्दिश्यते, न तु मायातत्त्वादूर्ध्वं कालविभाग-
संस्पर्शः । अथवा मायोर्ध्वेऽपि परापररूपत्वादवस्थाविशेषस्य कालविभागो-
ऽपि¹ स्यादित्यत एव त्रुटिरित्युक्तम् । सर्वं चैतत्प्रत्यभिज्ञायामुक्तम् ॥७-८॥
सा च दृश्या² हृद्देशे कार्यस्मरणकालतः ।
प्रहर्षवेदसमये³ दरसंदर्शनक्षणे⁴ ॥ ९ ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१० शिवदृष्टिः [ आ०-१
विसर्जनीयभाषणप्रसङ्गे, त्वरितग्रन्थवाचने, धावनविधौ चेति¹ । एतेष्वेवाव-
सरेषु सा पूर्वोक्तक्रमेण सर्वशक्तीनां विलोलता मिश्रीभावः ॥ ६-१० ॥
सुखदुःखात्मकत्वेनाशुद्धत्वाद्धेयेऽस्मिन्कार्ये कथमोन्मुख्यमित्याशङ्कां
निवारयन्नाह—
कुत्सितेऽकुत्सितस्य² स्यात्कथमुन्मुखतेति चेत् ॥ ११ ॥
रूपप्रसाररसतो³
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inआ०-१ ] उत्पलदेवकृतवृत्त्योपेता ११
'मायाशक्तिकृतपूर्णस्वरूपाख्यातिमयचित्रकार्यतापन्नस्वरूपप्रसरण-
रसात्२ प्रभोरस्य तद्रूपस्य३ कार्यभेदस्य कुत्सितत्वमयुक्तम् । तथाहि परा-
परावस्थायां४ सदाशिवेश्वररूपत्वे विश्वमहमिति विश्वरूपत्वमेव संविदि
स्फुरति५ । अपरावस्थायामपि६ अहं घटमिमं वेद्मि घटोऽयमिति वा
द्वैतदृष्टौ चिदात्मकतां७ विना प्रकाशमानतैव नोपपद्यते इति तद्रूपतैव८,
किंतु९
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१२ शिवदृष्टिः [ आ०-१
किञ्चित् अख्यातिरूपमात्रत्वात् । न तत्पूर्वस्य कस्यचित्प्रथा१ । विश्वा-
त्मत्वं च चिन्मयस्य प्रतिबिम्बानामिव२ दर्पणपरमार्थत्वेन भावानां
स्वच्छचिन्मात्रसतत्त्वतयावस्थानात् । एतच्च सर्वमीश्वरप्रत्यभिज्ञाटीकायां
निपुणमालोचितम् । सर्गस्थितिप्रलयानु३ग्रहतिरोधानलक्षणपञ्चप्रकारं
कृत्यं यस्य तस्योक्तिः पञ्चविधकृत्यो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inआ०-१ ] उत्पलदेवकृतवृत्त्योपेता १३
बोधस्य स्वात्मनिष्ठस्य रचनां प्रति निर्वृतिः ।
तदास्थाप्रविकासो यस्तदौन्मुख्यं प्रचक्षते ॥ १५ ॥
किंचिदुच्छूनता सैव महद्भिः कैश्चिदुच्यते ।
तस्येच्छा कार्यतां यातः यया सेच्छः स जायते ॥ १६ ॥
औन्मुख्यस्य य आभोगः स्थूलः सेच्छा व्यवस्थिता ।
न चौन्मुख्यप्रसङ्गेन शिवः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१४ शिवदृष्टिः [ आ०-१
एवमौन्मुख्यमिच्छायां उक्तमिदानीमुपपादयन्नाह--
यत इच्छति तज्ज्ञातुं कर्तुं वाहेच्छया क्रियाम् ।
तस्याः पूर्वापरौ भागौ कल्पनीयौ पुरा हि या ॥ १९ ॥
तत्कर्मनिवृत्तिप्राप्तिरौन्मुख्यं तद्विकासिता ।
यस्मादिच्छति ईश्वरो ज्ञातुं वा कर्तुं वा इति यदुच्यते, तदाख्यात-
पदमिच्छया इच्छालक्षणां क्रियामाह
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inआ०-१ ] उत्पलदेवकृतवृत्त्योपेता १५
इच्छाज्ञानक्रियात्मता तावत्सिद्धा१ घटादिकरणकाले । औन्मुख्य-
मपि इच्छापूर्वभागोऽस्ति कर्मावच्छिन्नविशिष्टनिर्वृत्तिरूपः । अन्याप्य-
नवच्छिन्नानन्दरूपा निर्वृत्तिरनिवृत्ता, तदभावे विशेषनिर्वृत्तेरभावात्२
तथा बोधाभावे विशिष्टघटादिबोधस्य३ । अत एव
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१६ शिवदृष्टिः [ आ०-१
लक्षणा क्रिया पूर्वापरीभूतावयवा, न तु जानामीति¹ वचनप्रवृत्तिकाल
एव । जानातिरूपत्वाज्ज्ञानमत्रैव क्रियात्मनि स्थितम् । निरिच्छोर-
वधानरहितस्य वेदनं न भवेत् मनसानधिष्ठानात् । अवधानवद्दर्शनमेव
इच्छा । तत्र च इच्छाक्रियापूर्वभाग औन्मुख्यं तत्कर्मनिवृत्तिः । तदौ-
न्मुख्याभावतस्तस्य प्रमातुर्वेदनस्य वा निवृत्तिः नहि औन्मुख्यरूपां
तत्कर्मनिवृत्तिं विना
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inआ०-१ ] शिवदृष्टिः १७
न्यायादिभिर्न १ तुल्यत्वं तैर्हि या प्राकृती मतिः ।
तस्या एवात्मधर्मत्वमिष्टं न परबोधके ॥ २८ ॥
एष २ एव हि विज्ञेयो न्याय इच्छां प्रति स्फुटम् ।
ननु जानातीति ज्ञानं बोधो बुद्धिवृत्तिः ३ कथं वृत्तिमर्तो ४ बुद्धिं
विना स्यात् । बुद्धिश्च प्रकृतेः प्रजाता जडा । न च ५ तया तस्य सर्वशक्तेः
शिवतत्त्वस्य निर्मलस्य संबन्ध इत्येवं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in१८ उत्पलदेवकृतवृत्त्योपेता [ आ०-१ः
न्यायादिभिरिति१, तैर्न तुल्यत्वं प्राकृत्यां भेददशायां बुद्धियोगात्मनो
ज्ञानस्य तथाभिधानात्, न त्वीश्वरे पररूपे ज्ञातरि, तदुक्तम् एष एव
न्याय इच्छां प्रति स्फुटं ज्ञेयः । इच्छा चितेः प्रत्यगात्माश्रिता भेदमय्येव
उक्ता
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inआ०-१ ] शिवदृष्टिः १६
आत्मप्रच्छादनक्रीडां१ कुर्वतो वा कथंचन२ ।
मायारूपमितीत्यादि षट्त्रिंशत्तत्त्वरूपताम् ॥ ३२ ॥
बिभ्रद्विभर्ति३ रूपाणि तावता व्यवहारतः ।
यावत्स्थूलं जडाभासं संहृतं पार्थिवं घनम् ॥ ३३ ॥
तस्मादेवमुक्तेन क्रमेण स्वरूपानुप्रविष्टचिन्निर्वृतिरूपशक्तिद्वयः
प्रकाशानन्दमयः पूर्णः परमेश्वरः शिवः प्रसृतः कदाचित् प्रथमतः४ ।
शक्तिमात्रक
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in२० उत्पलदेवकृतवृत्त्योपेता [ आ०-१
प्रमातृणां च बोधात्मत्वेऽपि शिवेच्छातो१ भेदापत्तेः स्थूलत्वम्। अतो२
वेदनस्यापि स्थूलत्वम्३, इदं तु विद्यात्वम्। अन्ये चैनां विद्यां भेदो-
ल्लासात् महामायामिच्छन्ति४ । कदाचिदात्म५प्रच्छादनात्मकाभेदा६-
ख्यातिमयीं संसाररूपां भ्रान्तिं७ क्रीडामेव कथंचन तथास्वभावत्वात्
कुर्वतो मायाशक्तिपरावस्था बीजभूता रूपमिति८ चोक्तानि तत्त्वानि
आदिभूतानि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in