सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 17, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 17

आ०-१ ] उत्पलदेवकृतवृत्त्योपेता ३
इति। तथाप्यत्रोक्तम् 'ऐश्वरी प्रवृत्तिः' इति। अनयैव¹ दृष्ट्या तत्तद्दृढचर्य-
मधिकतरः समावेशोऽभ्यसनीयः स्वप्रयत्नेनापीत्येतदपि सूचितम्। समा-
विष्टश्च शिवोऽपीत्युच्यते देवदत्तादिरपि च उभयोरैक्यगमनाविशेषात्।
स तथाविधः शिवस्ततात्मने परापररूपभगवत्सदाशिवादिप्रसरणमुखेना-
नन्तविस्ताराय निजस्वरूपाय परमशिवसंज्ञाय नमस्करोतु। लोट् निमन्त्र-
णादौ² नमस्तेऽस्तु इतिवत्। वयं शिवात्मानः परमेश्वराय नमस्करवामे-
त्यर्थः। परत्वेन प्रथमपुरुषप्रयोगोऽकिंचिद्रूपत्वेन कृत्रिमाहंभावस्य कर्तृता-
मात्रं तत्त्वमिति दर्शनार्थः। सर्वं च शिवमियमिति नमस्कारे वाङ्मनसादि
करणमपि शिव एव। तदाह स्वात्मना इति। विघ्ना अपि तदात्मान एव
निवार्याः। तदाह आत्मनिवारणे इति। नमस्कारे चास्मदीयेच्छादिशक्तिः
शैव्येवेत्याह निजया शक्त्या इति। एतेन³ सर्वा एव क्रियाः सकारकाः
सफलाश्च गमनभोजनादिका एवमेवानुगन्तव्या इति दर्शितम्॥ १॥
इदानीं समस्तशास्त्रार्थं संक्षेपेण सयुक्तिकं⁴ प्रतिजानीते--
आत्मैव सर्वभावेषु स्फुरन्निवृत्तचिद्विभुः⁵।
अनिरुद्धेच्छाप्रसरः⁶ प्रसरद्दृक्क्रियः⁷ शिवः⁸॥ २॥
१ यथा भिन्नीकृतानपि प्राणादीन्प्रमेयानात्माभेदेन पश्यति तथैव
सर्वमपि व्याप्यमित्यर्थः।
२ नियोगकरणं निमन्त्रणमावश्यके प्रेरणेत्यर्थः। ततश्चाप्रवृत्तप्रैष
इति फलितोऽर्थः, तेन प्रेषणानवकाश एवेत्यर्थः। तदुक्तं हरिणा--
'अप्रवृत्तस्य हि प्रैषे पृच्छादेर्लोङ्विधीयते।
प्रवृत्तस्य यदा प्रैषस्तदा स विषयो णिचः॥'
इति। तेन करोत्वित्यत्रान्यप्रेरकत्वमिति न भ्रमितव्यम्।
३ एतेनेति--अयं श्लोको नमस्कारैकपरमार्थोऽपि प्रयुक्त इहो-
दाहरणीकृत एव मन्तव्य इत्याह गमनभोजनादिका इति। तेन अभ्यव-
हारगमनजल्पसंवेशनादिकं कारकभेदप्रथाभासकं फलेन च कार्यकारण-
भावाभासकं तत्सर्वं तस्यैव ततात्मनः स्फुरणमात्रमेव मन्तव्यमिति भावः।
४ अनुभवानुसारी तर्को युक्तिः।
५ स्वप्रकाश एव। ६ अहंप्रथात्मत्वेन स्वातन्त्र्यात्। ७ घटादीनां
यत्पार्यन्तिकं पारमार्थिकं रूपं, स एव।
८ अयमर्थः--सर्वभावानां य आत्मा वेद्यतारूपः स एव शिव इति
तं विना 'प्रागिवार्थोऽप्रकाशः स्यात्' इति नीत्या सर्वान्ध्यप्रसंगः। अत