सामग्री पर जाएँ
सर्वकोश
शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

पृष्ठ 16, कुल 188 में से

संदर्भ में पढ़ें
पृष्ठ 16

२ शिवदृष्टिः [ आ०-१
विभ्रमाकरसंज्ञेन स्वपुत्रेणास्मि चोदितः ।
पद्मानन्दाभिधानेन तथा सब्रह्मचारिणा१ ॥ २ ॥
ईश्वरप्रत्यभिज्ञोक्तविस्तरे गुरुनिर्मिते ।
शिवदृष्टिप्रकरणे करोमि पदसंगतिम् ॥ ३ ॥
प्रकृतशास्त्रानुसारेणेष्टदेवतानमस्कारं२ करोति शास्त्रकारः--
अस्मद्रूपसमाविष्टः स्वात्मनात्मनिवारणे ।
शिवः करोतु निजया नमः शक्त्या ततात्मने ॥ १ ॥
योऽहं नमस्करोमि स शिवोऽस्मद्रूपेणैक्यं प्राप्तः । वस्तुस्थित्या हि
सर्वतत्त्वविग्रहो वक्ष्यमाणनीत्या शिवः । स३ संसारार्थं मायाशक्तिप्रकृतैक्या-
ख्यात्या भावानात्मस्थानाभासयति ईश्वरप्रत्यभिज्ञा प्रपञ्चितन्यायेन ।
ततस्तान्४ प्राणादीन् पुनः कांश्चिल्लोकयात्रासु५ अस्मद्रूपप्रमातृभेदेन
स्थापयिष्यन् भिन्नीकृतान्प्रमेयानपि घटपटादिवैलक्षण्येनात्मभेदेन पश्यन्
समाविशति इत्युच्यते । यावत्या च मात्रया समावेशस्तावन्मात्रसिद्धि-
संभवः । प्रथमस्तावत् कर्तृत्वानुसारी ज्ञानक्रियायोगः । यथोक्तं
स्पन्दशास्त्रे--
नहीच्छानोदनस्यायं प्रेरकत्वेन वर्तते ।
अपि त्वात्मबलस्पर्शात्पुरुषस्तत्समो भवेत् ॥ (१।८)
१ ‘एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः’ इति कोशः । २ प्रकृत-
शास्त्रं शैवाद्वयनयः । अयमत्र सूक्ष्मार्थः—शास्त्रादौ ‘श्रेयांसि बहुविघ्नानि’
इति नयेनावश्यं तदुत्पुंसनार्थं नमस्कारो विधेयः । येन प्रस्फुरत्तन्महौजसा
विघ्नाः कुण्ठशक्तयो न प्रभवन्ति । तत्र सर्वस्योर्पार्काशत्वेनासिद्धया
किं केन कस्य निरसनमित्याशयेनाह प्रकृतेत्यादि । तथा च विश्वात्मनो
विततरूपस्यानन्तशक्तेर्नमस्करणीयत्वम् । संकुचितसदाशिवादिज्ञानशक्ति-
स्वरूपपश्यन्तीधामासूत्रितस्वांतन्त्र्यहानिस्वातन्त्र्याबोधात्मकस्य पशोस्त-
त्कर्तृत्वं तस्यैव संकुचितस्यापि तद्गुणीकारस्वरूपेण विश्रमेण गृहीतस्पन्द-
स्वरूपशाक्तमहिम्नोऽपि करणत्वमिति । ३ स इति मायाशक्तिप्रकृतैक्याख्याति-
भाजनभूतास्मद्रूपप्रमातृभूमौ समाविष्टः । ४ ततं इति अनात्मस्थत्वे ।
५ प्रमेयभेदेनैव प्रमातृभेद इत्याशयं सूचयति लोकयात्रासु इत्यादिना ।
यात्रा—व्यवहारः ।