सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)

Ribhu Gita of Shiva Rahasya Hindi

महर्षि ऋभु / महर्षि निदाघ द्वारा

स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)

DevanagariHindipublished249 पृष्ठ

प्रारंभिक पृष्ठ व विषय-सूची

श्री ऋभुगीत

(శ్రీ ఋభుగీత)

శ్రీ ఋభుగీత

(इस पृष्ठ पर कोई पाठ (Text) उपलब्ध नहीं है, केवल शीर्ष पर एक सजावटी बॉर्डर (Design) है।)

శ్రీ ఋభుగీత

(देवनागरी लिप्यान्तरण: श्री ऋभुगीता)

श्रीशिवरहस्यान्तर्गत ऋभुगीत

॥ प्रथमोऽध्यायः ॥

हेमाद्रिं किल मातुलुङ्गफलमित्यादाय मोदाधिको
मौढ्यान्नाकनिवासिनां भयपरैर्वाक्यैरिव प्रार्थितः ।
नीलीशाम्बरनीलमम्बरतलं जम्बूफलं भावयन्
तं मुञ्चन् गिरिमम्बरं परिमृशन् लम्बोदरः पातु मां ॥ १.१ ॥

वामं यस्य वपुः समस्तजगतां माता पिता चेतरत्
यत्पादाम्बुजनूपुरोद्ध्ववरवः शब्दार्थवाक्यास्पदं ।
यन्नेत्रत्रितयं समस्तजगतामालोकहेतुः सदा
पायाद्दैवतसार्वभौमगिरिजालङ्कारमूर्तिः शिवः ॥ १.२ ॥

सूतः –

जैगीषव्यः पुनर्नत्वा षण्मुखं शिवसंभवं ।
पप्रच्छ हृष्टस्तं तत्र मुनिभिर्गणपुंगवैः ॥ १.३ ॥

जैगीषव्यः –

करुणाकर सर्वज्ञ शरणागतपालक ।
अरुणाधिपनेत्राब्ज चरणस्मरणोन्मुख ॥ १.४ ॥

करुणावरुणाम्भोधे तरणिद्युतिभास्कर ।
दिव्यद्वादशलिङ्गानां महिमा संश्रुतो मया ॥ १.५ ॥

त्वत्तोऽन्यत् श्रोतुमिच्छामि शिवाख्यानमनुत्तमं ।
त्वद्वाक्यकञ्जपीयूषधाराभिः पावयाशु मां ॥ १.६ ॥

सूतः –

इति तस्य गिरा तुष्टः षण्मुखः प्राह तं मुनिं ॥ १.७ ॥

श्रीषण्मुखः –

शृणु त्वमगजाकान्तेनोक्तं ज्ञानमहार्णवं ।
ऋभुवे यत्पुरा प्राह कैलासे शंकरः स्वयं ॥ १.८ ॥

ब्रह्मसूनुः पुरा विप्रो गत्वा नत्वा महेश्वरं ।
ऋभुर्भिंखं तदा शंभुं तुष्टाव प्रणतो मुदा ॥ १.९ ॥

ऋभुः –

दिवामणिनिशापतिस्फुटकपीटयोनिस्फुर-
ल्ललाटभसितोल्लसद्वरत्रिपुण्ड्रभागोज्ज्वलं ।
भजामि भुजगाङ्गदं विध्यतसामिसोमप्रभा-
विराजितकपर्दकं करटीकृत्तिभूष्यात्मतीं ॥ १.१०॥

फालाक्षाध्वरदक्षशिक्षकवलक्षोक्षेशवाहोत्तम-
त्र्यक्षाक्षय्यफलप्रदावभसितालङ्काररुद्राक्षधृक् ।
चक्षुःश्रोत्रवराङ्गहारसुमहावक्षःस्थलाध्यक्ष मां
भक्षीभूतगरप्रभक्ष भगवन् भैक्ष्यर्च्यपादाम्बुज ॥ १.११॥

गङ्गाचन्द्रकलालाम भगवन् भूभृत्कुमारीसख
स्वामिंस्ते पदपद्मभावमतुलं कष्टापहं देहि मे ।
तुष्टोऽहं शिपिविष्टहृष्टमनसा भ्रष्टान्न मन्ये हरि-
ब्रह्मेन्द्रानुमरान् त्रिविष्टपगतान् निष्ठा हि मे तादृशी ॥ १.१२॥

नृत्ताडम्बरसज्जटापटलिकाभ्राम्यन्महाहोडुच्छटा
त्रुत्यत्सीमकलालामकलिका शम्याकमौलीनतं ।
उग्रानुग्रहवोग्रदुर्गजगदुद्धाराग्रपादाम्बुजं
रक्षोवक्षकुठारभूतमुमया वीक्षे सुकामप्रदं ॥ १.१३॥

फालं मे भसितत्रिपुण्ड्ररचितं त्वत्पादपद्मानतं ??
पाहीशान दयानिधान भगवन् फालानलाक्ष प्रभो ।
कण्ठो मे शितिकण्ठनाम भवतो रुद्राक्षधृक् पाहि मां
कर्णौ मे भुजगाधिपोरुसुमहाकर्ण प्रभो पाहि मां ॥ १.१४॥

नित्यं शङ्करनामबोधितकथासारादरं शङ्करं
वाचं रुद्रजपाधरां सुमहतीं पञ्चाक्षरीमिन्दुधृक् ।
बाहू मे शशिभूषणोत्तम महालिङ्गार्चनायोद्यतौ
पाहि प्रेमरसार्द्रयाऽद्य सुदृशा शम्भो हिरण्यप्रभ ॥ १.१५॥

भास्वद्वाहुचतुष्टयोज्ज्वल सदा नेत्रे त्रिनेत्रे प्रभो
त्वल्लिङ्गोत्तमदर्शनेन सुतरां तृप्त्यै सदा पाहि मे ।
पादौ मे हरिनेत्रपूजितपदद्वन्द्वाव नित्यं प्रभो
त्वल्लिङ्गालयप्रक्रमणितभर्यान्यौ च धन्यौ विभो ॥ १.१६॥

धन्यस्त्वल्लिङ्गसङ्गेप्यनुदिनगलितानङ्गसङ्गान्तरङ्गः
पुंसामर्धैकशक्त्या यमनियमवरैरीश्यवन्द्य प्रभो यः ।
दत्वा बिल्वदलं सदम्बुजवरं किञ्चिज्जलं वा मुहुः
प्राप्नोतीश्वरपादपङ्कजमुमानाथाद्य मुक्तिप्रदं ॥ १.१७॥

उमारमण शंकर त्रिदशवन्द्य वेदेद्य हृत्
त्वदीयपरभावतो मम सदैव निर्वाणकृत् ।
भवार्णवनिवासिनां किमु भवत्पदाम्भोरुह-
प्रभावभजनादरं भवति मानसं मुक्तिदम् ॥ १.१८॥

संसारार्गलपादबद्धजनतासंमोचनं भर्ग ते
पादद्वन्द्वमुपासनाथ भजतां संसारसंभर्जकम् ।
त्वन्नामोत्तमगर्जनादघकुलं संतर्जितं वै भवेद्
दुःखानां परिमार्जकं तवकृपावीक्षावतां जायते ॥ १.१९॥

विधिमुण्डकरोत्तमोरुमेरुकोदण्डखण्डितपुराण्डजवाहबाण
पाहि क्षमारधविकर्षणवेदवाजिहेशान्तहर्षितपदाम्बुज विश्वनाथ ॥ १.२०॥

विभूतीनामन्तो न हि खलु भवानीरमण ते
भवे भावं कश्चित् त्वयि भवह भाग्येन लभते ।
अभावं चाज्ञानं भवति जननाद्यैश्च रहितः
उमाकान्त स्वान्ते भवदभयपादं कलयतः ॥ १.२१॥

वरं शम्भो भावैर्भवभजनभावेन नितरां
भवाम्भोधिर्नित्यं भवति विततः पांसुबहुलः ।
विमुक्तिं भुक्तिं च श्रुतिकथितभास्याक्षवरद्यक्
भवे भर्तुः सर्व्यो भवति च सदानन्दमधुरः ॥ १.२२॥

सोमसामजसुकुत्तिमौलिधृक् सामसीमशिरसि स्तुतपाद ।
सौमिकायगिरिजेश्वर शम्भो पाहि मामखिलदुःखसमूहात् ॥ १.२३॥

भस्माङ्गराग भुजगाङ्ग महोक्षसङ्ग
गङ्गाम्बुसङ्ग सुजटा निटिल स्फुलिङ्ग ।
लिङ्गाङ्ग भङ्गितमनङ्ग विहङ्गवाह-
सम्पूज्यपाद सदसङ्ग जनान्तरङ्ग ॥ १.२४॥

वात्सल्यं मयि तादृशं तवनचेच्चन्द्रार्ध चूडामणे
धिक्कृत्यार्पि विमुच्य वा त्वयि यतो धन्यो धरण्यामहम् ।
सक्षारं लवणार्णवस्य सलिलं धारा धरेण क्षणात्
आदायोज्जितमुक्तितो हि जगतां आस्वादनीयं दृशां ॥ १.२५॥

त्वत् कैलासवरे विशोकहृदयाः क्रोधोज्झिताश्चाण्डजाः
तस्मान्नानुपि भेदबुद्धिरहितं कुर्वीश तेऽनुग्रहात् ।
त्वद्भक्तामल निर्जरोज्झित महोसंसार संतापहं
विज्ञानं करुणाऽदिशाद्य भगवन् लोकावनाय प्रभो ॥ १.२६॥

सारंगी सिंहशाबं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतं
मार्जारी हंसबालं प्रणयपरवशा केकिकान्ता भुजंगं ।
वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजन्ति
भक्तास्त्वत्पादपद्मे किमु भजनवतः सर्वसिद्धिं लभन्ते ॥ १.२७ ॥

स्कन्दः –

इत्थं ऋभुस्तुतिमुमावरजानिरीशः
श्रुत्वा तमाह गणनाथवरो महेशः ।
ज्ञानं भवामयविनाशकरं तदेव
तस्मै तदेव कथये शृणु पाशमुख्यै ॥ १.२८ ॥

॥ इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुस्तुतिर्नाम प्रथमोऽध्यायः ॥

॥ द्वितीयोऽध्यायः ॥

ईश्वरः -

शृणु पद्मजसम्भूत मत्तः सूत्रविधिक्रमम् ।
ज्ञानोत्पादकहेतूनि श्रुतिसाराणि तत्त्वतः ॥ २.१॥

व्यासा मन्वन्तरेषु प्रतियुगजनिताः शाम्भवज्ञानसिद्धयै
भस्माभ्यक्तसमस्तगात्रनिवहा रुद्राक्षमालाधराः ।
कैलासं समवाप्य शंकरपदध्यानेन सूत्राण्युमा-
कान्तात् प्राप्य वितन्वते स्वकधिया प्रामाण्यवादानहो ॥ २.२॥

जिज्ञास्यं ब्रह्म एवेत्यथपदविदितैः साधनप्राप्युपायै-
र्योगैर्भोग़ाद्युपायैर्यमनियममहोसांख्यवेदान्तवाक्यैः ।
श्रोतव्यो भगवान् न रूपगुणतो मन्तव्य इत्याह हि
वेदोऽधीथदवाक्यहेतुकरणैर्ध्येयः स साक्षात्ततः ॥ २.३॥

जन्माद्यस्य यतोऽस्य चित्रजगतो मिथ्यैव तत्कारणं
ब्रह्म ब्रह्मोत्थनैव प्रकृतिपरमदो वर्तमानं विवर्तेत् ।
श्रुत्या युक्त्या यतो वा इतिपदघटितो बोधतो वक्ति शम्भुं
नाणुः कालविपाककर्मजनितेत्याचोदना वै मृषा ॥ २.४॥

योनिः शास्त्रस्य वेदस्तदुभयमननाद्ब्रह्मणः प्रत्यभिज्ञा
निःश्वासाद्वेदजालं शिववरवदनाद्येनसा प्राप्तमेतत् ।
तस्मात् तर्कवितर्ककर्कशधिया नातिक्रमेत् तां धियं
स्याम्नायक्रियया तदप्रकरणे योनिर्महेशो ध्रुवं ॥ २.५॥

तत्त्वस्यापि समन्वयात् श्रुतिगिरां विश्वेश्वरे चोदना
सा चानिर्वचनीयतामुपगता वाचो निवृत्ता इति ।
आत्मैवॆश इतीव वाक्यसुवृतिर्वृत्तिं विधत्ते धिया
वेदान्तादिषु एक एव भगवानुक्तो महेशो ध्रुवं ॥ २.६॥

नासद्वा वीक्षते यज्जडमिति करणैर्गन्धरूपादिहीनं
शब्दस्पर्शादिहीनं जगदनुगतमपि तद्ध्या किंरूपमीष्टे ।
गौणं चेदपि शब्दतो जगदिदं यन्नामरूपात्मकं
तच्चात्राविशदीश्वरोर्ध्ववचसा मोक्षस्य निष्ठाक्रमः ॥ २.७॥

हेयत्वाद्वचनाच्च तच्छ्रुतिगिरां स्थूलं प्रदृष्टं भवे-
द्रूपं नारूपतोऽपि प्रकरणवचनं वा विकारः किलेदं ।