ऋभु गीता (शिव रहस्य - निदिध्यासन व अद्वैत बोध)
Ribhu Gita of Shiva Rahasya Hindi
महर्षि ऋभु / महर्षि निदाघ द्वारा
स्रोत: Ribhu Gita Sanskrit Shlokas with Commentary (उद्गम)
पृष्ठ 7, कुल 249 में से
संदर्भ में पढ़ेंदिवामणिनिशापतिस्फुटकपीटयोनिस्फुर-
ल्ललाटभसितोल्लसद्वरत्रिपुण्ड्रभागोज्ज्वलं ।
भजामि भुजगाङ्गदं विध्यतसामिसोमप्रभा-
विराजितकपर्दकं करटीकृत्तिभूष्यात्मतीं ॥ १.१०॥
फालाक्षाध्वरदक्षशिक्षकवलक्षोक्षेशवाहोत्तम-
त्र्यक्षाक्षय्यफलप्रदावभसितालङ्काररुद्राक्षधृक् ।
चक्षुःश्रोत्रवराङ्गहारसुमहावक्षःस्थलाध्यक्ष मां
भक्षीभूतगरप्रभक्ष भगवन् भैक्ष्यर्च्यपादाम्बुज ॥ १.११॥
गङ्गाचन्द्रकलालाम भगवन् भूभृत्कुमारीसख
स्वामिंस्ते पदपद्मभावमतुलं कष्टापहं देहि मे ।
तुष्टोऽहं शिपिविष्टहृष्टमनसा भ्रष्टान्न मन्ये हरि-
ब्रह्मेन्द्रानुमरान् त्रिविष्टपगतान् निष्ठा हि मे तादृशी ॥ १.१२॥
नृत्ताडम्बरसज्जटापटलिकाभ्राम्यन्महाहोडुच्छटा
त्रुत्यत्सीमकलालामकलिका शम्याकमौलीनतं ।
उग्रानुग्रहवोग्रदुर्गजगदुद्धाराग्रपादाम्बुजं
रक्षोवक्षकुठारभूतमुमया वीक्षे सुकामप्रदं ॥ १.१३॥
फालं मे भसितत्रिपुण्ड्ररचितं त्वत्पादपद्मानतं ??
पाहीशान दयानिधान भगवन् फालानलाक्ष प्रभो ।
कण्ठो मे शितिकण्ठनाम भवतो रुद्राक्षधृक् पाहि मां
कर्णौ मे भुजगाधिपोरुसुमहाकर्ण प्रभो पाहि मां ॥ १.१४॥
नित्यं शङ्करनामबोधितकथासारादरं शङ्करं
वाचं रुद्रजपाधरां सुमहतीं पञ्चाक्षरीमिन्दुधृक् ।
बाहू मे शशिभूषणोत्तम महालिङ्गार्चनायोद्यतौ
पाहि प्रेमरसार्द्रयाऽद्य सुदृशा शम्भो हिरण्यप्रभ ॥ १.१५॥
भास्वद्वाहुचतुष्टयोज्ज्वल सदा नेत्रे त्रिनेत्रे प्रभो
त्वल्लिङ्गोत्तमदर्शनेन सुतरां तृप्त्यै सदा पाहि मे ।
पादौ मे हरिनेत्रपूजितपदद्वन्द्वाव नित्यं प्रभो
त्वल्लिङ्गालयप्रक्रमणितभर्यान्यौ च धन्यौ विभो ॥ १.१६॥
धन्यस्त्वल्लिङ्गसङ्गेप्यनुदिनगलितानङ्गसङ्गान्तरङ्गः
पुंसामर्धैकशक्त्या यमनियमवरैरीश्यवन्द्य प्रभो यः ।
दत्वा बिल्वदलं सदम्बुजवरं किञ्चिज्जलं वा मुहुः
प्राप्नोतीश्वरपादपङ्कजमुमानाथाद्य मुक्तिप्रदं ॥ १.१७॥