रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)
Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary
सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
प्रारंभिक पृष्ठ एवं मंगलाचरण
आयुर्वेदीयग्रन्थमाला
दशमं पुष्पम् ।
श्रीनित्यनाथसिद्धविरचितो
रसरत्नाकरान्तर्गतश्चतुर्थो
रसायनखण्डः ।
आचार्योपाह्वेन त्रिविक्रमात्मजेन यादवशर्मणा
संशोधितः प्रकाशितश्च ।
ÂYURVEDÎYA-GRANTHAMÂLÂ.
No. 10.
RASÂYANAKHANDA
FOURTH PART OF
RASARATNÂKARA.
BY
SHRI NITYANÂTHASIDDHA.
EDITED BY
JADAVJÎ TRICUMJÎ ÂCHÂRYA.
372, 'BORA BAZÂR STREET, FORT, BOMBAY.
1913 A. D.
Price 8 annas.
Printed by R. Y. Shedge, at the ‘Nirnaya-sagar’ Press,
23, Kolbhat Lane, Bombay and published by
Vaidya Jadavji Tricumji Acharya,
372, Bora Bazar Street,
Fort, Bombay.
निवेदनम्
श्रीनित्यनाथसिद्धविरचितो रसरत्नाकरः रसखण्ड-रसेन्द्रखण्ड-वादि-
खण्ड-रसायनखण्ड-मन्त्रखण्डाख्यैः पञ्चभिः खण्डैर्विभक्तः । यदुक्तं स्वेनैव ग्रन्था-
रम्भे,-“पञ्चखण्डमिदं शास्त्रं साधकानां हितं प्रियम् । रसखण्डे तु वैद्यानां व्या-
धितानां रसेन्द्रके ॥ वादिनां वादखण्डे च वृद्धानां च रसायने । मन्त्रिणां मन्त्र-
खण्डे च रससिद्धिः प्रजायते”-इति । तेष्वेतावत्पर्यन्तं रसखण्डो रसेन्द्रखण्डश्चेति
खण्डद्वयं कलकत्तानगरे मुम्बय्यां च मुद्रितं वर्तते । वादिखण्डः, रसायनखण्डो
मन्त्रखण्डश्चेति खण्डत्रयं त्वमुद्रितमेवास्ते । अमुद्रितेषु खण्डेष्वयं रसायन-
खण्डो वैद्यानां चिकित्सायामुपयुक्त इति ज्ञात्वा स एव प्रथमं प्रकाश्यते । अव-
शिष्टं खण्डद्वयमपि यथावसरं प्रसेत्स्यत्येवास्यां ग्रन्थमालायाम् । अस्मिन् खण्डे
रसायनतन्त्रं वाजीकरणतन्त्रं चेति तन्त्रद्वयं प्रतिपादितं दृश्यते। दृश्यन्ते चात्र बहवो
नूतनयोगा अपि। यथा-अत्रोक्तो वालुकार्मानप्रयोगः ‘समक उल सेन्दा-रेंगमाही'
इति नाम्ना यवन(युनानी)वैद्येषु चिरकालात् प्रसिद्धोऽपि भारतीयवैद्यकग्रन्थे
नवीन^१ एवै । यद्यप्यस्मिन् ग्रन्थे रसायनवाजीकरणयोगानां गुणकथनावसरे
‘आयुः स्याद्ब्रह्मणो दिनं' 'रमयेत्कामिनीशतं' इत्यादिरूपा अतिशयोक्तिर्वर्तते,
सा चार्थवादरूपैव; तथाऽप्येषां प्रयोगाणामायुष्यत्वं वाजीकरत्वं च मन्तव्यमेव ।
श्रीनित्यनाथसिद्धः कं देशं जन्मनाऽलञ्चकारेति निर्णेतुं न किञ्चिदपि साधन-
मुपलभ्यते । स चायं श्रीनित्यनाथसिद्धः ख्रिस्तीयद्वादशशताब्दयां बभूवेत्य-
नुमीयते, रसवाग्भटकृतरसरत्नसमुच्चये तन्नामोल्लेखात् । रसरत्नसमुच्चयकर्ता
वाग्भटस्तु ख्रिस्तीयत्रयोदशशताव्दयां बभूवेतीतिहासविदां मतम्^२ । ग्रन्थस्यास्य
शुद्ध्यर्थे आदर्शपुस्तकद्वयमुपलब्धं, एकं मुम्बईनिवासिनां मदीयसुहृदां 'वैद्य
दामोदर विठ्ठल दमणकर' इत्येतेषां, द्वितीयं च वटोदरनिवासिनां मदीय-
सुहृदां 'अमृत विनायक जाम्बेकर' इत्येतेषाम् । संशोवनावसरे तयोराद्यस्य
क.इति द्वितीयस्य च ख. इति संज्ञा स्थापिताऽस्ति । ग्रन्थस्यास्य संशोधने
यथामति कृतेऽपि यत्ने भ्रमप्रमादिवशाञ्जातं स्खलनं क्वाप्युपलभ्येत चेत्सुधीभिः
संशोधनीयं संवेदनीयञ्चाहमिति
आश्विन शुक्ल १० सं १९६९. }
नं. ३७२, बोरावझारस्ट्रीट फोर्ट, मुंबई. } यादवशर्मणः ।
१ अत एवानुमीयते यन्नित्यनाथसिद्धो भारतवर्षे यवनराज्यस्थापनानन्तरं बभूवेति। भारतवर्षे यवनराज्यस्थापनाकालस्तु खीस्तीय १११४ वर्षे ।
2 See History of Hindoo Chemistry Vol. I. Introduction page 89. &
Vol. II. pages 222-23.
रसायनखण्डान्तर्गतविषयानुक्रमणिका ।
विषयः पृ. पं. विषयः पृ. पं.
प्रथमोपदेशः । क्षेत्रीकरणार्थमभ्रभक्षण-
मङ्गलाचरणम् ... १ ७ विधिः ... ... ७ ७
देहसिद्धिप्रशंसा ... ,, १२ वज्रपञ्जररसः ... ... ,, १३
रसायनसेवनात्पूर्वं देह- वज्रेश्वररसः... ... ,, २४
शुद्धिकरणम् ... ,, १७ वज्रधारारसः ... ८ ९
रससेवने पथ्यानि ... २ ६ भैरवरसः ... ... ,, १९
,, वर्ज्यानि ... ,, १९ शिलावीररसः ... ... ,, २७
रसायनव्यापदः, तच्चि- अमृतार्णवरसः ... ९ ७
कित्सा च ... ३ ४ उदयादित्यरसः ... ,, १६
रससंक्रामणम् ... ,, १७ गगनेश्वररसः ... १० ३
पारदमारणस्य प्रथमः प्रकारः,, २० वटेश्वररसः ... ... ,, ११
,, द्वितीयः ,, ४ ५ अचलेश्वररसः ... ,, २२
,, तृतीयः ,, ,, १४ परमेश्वररसः ... ११ २
,, चतुर्थः ,, ,, २१ गन्धामृतरसः ... ,, ११
गर्भयन्त्रलक्षणम् ... ५ २ कालकण्टकरसः ... ,, १९
पारदमारणस्य पञ्चमः प्रकारः,, ८ अमृतेशरसः ... ,, २६
,, षष्ठः ,, ,, १३ रसवीरमहारसः ... १२ ८
,, सप्तमः ,, ,, १८ कात्यायनरसः ... ,, १८
,, अष्टमः ,, ,, २३ परानन्दरसः ... १३ ३
,, नवमः ,, ,, २७ महाकालरसः ... ,, ११
,, दशमः ,, ६ ४ हेमपर्पटकरसः ... ,, २१
,, एकादशः ,, ,, १० श्रीकण्ठरसः ... १४ ४
वज्रादिमारणविधेरतिदेशेन खेचरबद्धरसः ... ,, १७
कथनं ... ,, १८ स्वयमग्निरसः ... १५ २१
मृतरसगुणाः ... ,, २१ कक्षपुटरसः ... १६ १२
महाशक्तिरसः ... ,, २६
द्वितीयोपदेशः । नाटकेश्वररसः ... १७ १०
देहरक्षणोपदेशः ... ७ २ बालसुन्दररसः ... ,, २५
ब्रह्मपञ्जररसः ... १८ ६
२
विषयः पृ. पं. विषयः पृ. पं.
शिवामृतरसः । ... १८ १७ कालान्तरससिद्धिकरण-
तृतीयोपदेशः । प्रकारः ... ... ३५ २०
मृतसंजीवनी गुटिका १९ ११ चतुर्थोपदेशः ।
वज्रेश्वरी ,, २० ५ देहसिद्धौ मूलिकाप्रशंसा ३७ २३
वज्रसुन्दरी ,, ,, २६ कान्तादिमहारसायनम् ३८ २
हेमसुन्दरी ,, २१ १५ रसायना अभ्रकयोगाः ,, १४
वज्रखेचरी ,, ,, २२ रसायनाः कान्तयोगाः ३९ २०
व्योमसुन्दरी ,, २२ ७ ब्रह्मवृक्षकल्पः ... ४१ १९
हाटकेश्वरी ,, ,, १९ श्वेतपलाशकल्पः ... ४३ २
अर्कप्रभावती ,, २३ २ मुण्डीकल्पः... ... ,, १३
सुरसुन्दरी ,, ,, १० देवदालीकल्पः ... ,, २२
वज्रतुण्डा ,, ,, १८ श्वेतार्ककल्पः ... ४४ १२
कामसुन्दरी ,, २४ ३ हस्तिकर्णकल्पः ... ,, २१
गान्धारी ,, ,, १२ रुदन्तीकल्पः ... ४५ १०
मार्तण्डी ,, ,, २६ निर्गुण्डीकल्पः ... ,, २०
तारकेश्वरी गुटिका ... २५ १८ रसायनं भल्लातकादितैलं ४६ १५
विद्यावागीश्वरी,, ... २६ २ ,, कृष्णजीरकादितैलं ,, २१
वज्रतुण्डा ,, ... ,, ११ ,, अङ्कोलतैलनस्यं ,, २५
गगनेश्वरी ,, ... ,, २६ रसायनः काकमाचीयोगः ४७ ४
आनन्दगुटिका ... २७ १४ रसायनं गुडूच्यादिचूर्णं ,, ३
वज्रखेचरी वटिका ... २८ ६ शुनकशाल्मिकाकल्पः ,, ८
रनेश्वरी गुटिका ... ,, १९ रसायनं काकमाच्यादिचूर्णं ,, २१
दिव्यखेचरी वटिका २९ १५ त्रिफलादिरसायनयोगः ४८ ७
स्वर्णवैक्रान्तबद्धरसः ३० ९ मूलिकाकल्पेषु पारदयोगः ,, १२
वैक्रान्तवटिका ... ,, १६ रसायनकल्पेषु मन्त्रयोगः ,, १६
दिव्यखेचरीगुटिका ... ३१ २ रसायनसेवनविधिः ... ,, २२
प्रचण्डखेचरी ,, ३२ ६ पञ्चमोपदेशः ।
कङ्कालखेचरी ,, ,, २४ पारदायुरुद्वर्तनम् ... ४९ ७
कालविध्वंसिकावटिका ३३ १४ वज्रकापालिनीमूलायुद्वर्तनं ,, १५
पञ्चाननगुटिका ... ३४ ३ उत्पलायुद्वर्तनं ... ,, १८
शतवेधिकादिकागुटिकाः ,, १५ द्वितीयं पारदायुरुद्वर्तनं ,, २३
विषयः पृ. पं.
वलीपलितनाशार्थं गन्ध-
कयोगः ... ... ५० २
रसायनार्थं कुष्ठयोगः ,, ६
पलितनाशार्थे कान्तादियोगः ,, ९
,, सीसकादियोगः ,, १७
केशरञ्जनार्थे नीलिका-
दियोगः ... ,, २२
,, गुञ्जादियोगः ,, २६
,, हस्तिदन्तादियोगः ५१ ४
,, त्रिफलादियोगः ,, ७
,, लोहकिट्टादियोगः ,, ११
,, सिन्दूरादियोगः ,, १७
,, शतपुष्पादियोगः ,, २०
,,* चूर्णादियोगः ,, २४
,, नील्यादियोगः ,, २७
,, द्वितीयशृङ्गादियोगः ५२ ३
,, कुरण्टपत्रादियोगः ,, ७
,, आम्रास्थ्यादियोगः ,, १०
,, काकमाच्यादियोगः ,, १५
केशरञ्जनं घृतं ... ,, १८
केशरञ्जनार्थे जपापुष्प-
रसनस्यं ... ... ,, २१
,, त्रिफलादितैलं ,, २४
,, काकतुण्डीबीजा-
दियोगः... ... ५३ ६
,, भृङ्गराजादियोगः ,, १४
,, त्रिफलादियोगः ,, १९
,, कृष्णजीरकयोगः ,, २३
,, नील्यादितैलं... ५४ ४
,, सीसकादियोगः ,, १६
कतिपयकेशशुक्लीकरणयोगाः ५५ २
षष्ठोपदेशः
वाजीकरः मकरध्वजरसः ५६ ७
,, मदनोदयरसः ,, १९
,, मदनेश्वररसः ५७ ६
,, कामकलाह्यरसः ,, १६
,, कामदेवरसः ५८ २
,, रतिकामरसः ,, १२
,, मदनवर्धनरसः ,, २१
वाजीकरी अनङ्गसुन्दरी-
वटिका ... ... ५९ २
वाजीकरः कामनायकरसः ,, ११
,, पूर्णेन्दुरसः ... ,, २३
,, मदनकामरसः ६० १७
,, अभ्रकयोगः ६१ १५
,, वानरीबीजाद्य-
भ्रकयोगः ... ... ,, १८
,, अश्वगन्धाद्यभ्रक-
योगः ... ... ,, २४
,, धात्रीलोहः ... ६२ ६
,, पुनर्नवादियोगः ,, १२
,, वटकयोगः ... ,, १९
,, वालुकामत्स्ययोगः ,, २५
,, नाभिलेपः ... ६३ ३
,, माषयोगः ... ,, ६
,, कामेश्वरमोदकः ,, १०
सप्तमोपदेशः।
वीर्यस्तम्भकरी ब्रह्माण्ड-
गुटिका ... ... ६४ १३
वीर्यस्तम्भकरः लिङ्गलेपः ६५ ६
,, दीपयोगः ... ,, ११
,, इन्द्रवारुणीमूलादि-
योगः ... ... ,, १४
४
विषयः पृ. पं. | विषयः पृ.
वीर्यस्तम्भकरः रक्तापामार्ग- | वीर्यस्तम्भकरःस्थलमीनयो. ६८
,, मूलयोगः ... ६५ १९ | वनिताद्रावणार्थं जलौका-
,, पादलेपः ... ,, २२ | योगाः ... ... ,,
,, सर्पास्थिधारणयोगः ,, २५ | लिङ्गवर्धनार्थं पारदादियोगः ६९
,, नाभिलेपः ... ६६ ३ | ,, वराहवसादिलेपः ,,
,, कोकिलाक्षादियोगः ,, ६ | ,, अश्वगन्धादितैलं ,,
,, द्वितीयो नाभिलेपः ,, १० | ,, जम्बूतैलादियोगः ७०
,, दीपयोगः ,, १३ | ,, मुशलीचूर्णादिलेपः ,,
,, शिवलिङ्गीबीजा- | ,, पिप्पल्यादियोगः ,,
दियोगः... ... ,, १६ | ,, माहिषघृतादिलेपः ,,
,, श्लेष्मातकादियोगः ,, २० | ,, अश्वगन्धादियोगः ,,
,, सूरणादियोगः ,, २३ | ,, मांस्यादियोगः ,,
,, मार्जारनखादियोगः ,, २६ | ,, रोहितमत्स्यादियोगः ,,
,, द्वितीयः पादलेपः ६७ ४ | ,, हरिद्रादियोगः ,,
,, ,, लिङ्गलेपः ,, १० | ,, जम्बूकपित्तादियोगः ,,
,, पारदादियोगः ,, १७ | ,, गृहगोधादियोगः ७१
,, हस्ते मुद्रिका- | अष्टमोपदेशः ।
धारणयोगः ... ,, २५ | श्रीशैलपर्वतसाधनम् ,,
आयुर्वेदीयग्रन्थमाला ।
श्रीनित्यनाथसिद्धविरचितरसरत्नाकरस्य
चतुर्थो
रसायनखण्डः ।
प्रथमोपदेशः ।
मङ्गलाचरणम् ।
जयति स रसराजो मृत्युशङ्कापहारी
सकलगुणनिधानं कायकल्पाधिकारी ।
वलिपलितविनाशं सेवितो वीर्यवृद्धिं
स्थिरमपि कुरुते यः कामिनीनां प्रसङ्गम् ॥ १ ॥
देहसिद्धेः प्रशंसा ।
अथातः संप्रवक्ष्यामि देहसिद्धिं सुशोभनाम् ।
यस्याः सिद्धौ मनुष्याणां जायन्ते सर्वसिद्धयः ॥ २ ॥
न देहेन विना किंचिदिष्टमस्ति जगत्त्रये ।
तस्मात्सर्वप्रयत्नेन तस्मिन् यत्नो विधीयताम् ॥ ३ ॥
रसायनसेवनस्य पूर्वकर्म ।
शुभनक्षत्रदिवसे वमने रेचने कृते ।
ततो विशेषशुद्ध्यर्थं केतकीस्तनजं द्रवम् ॥ ४ ॥
त्रिदिनं कुडवैकैकं लोणदोषहरं पिबेत् ।
विडङ्गं च वचा कुष्ठं केतकीस्तनसंयुतम् ॥ ५ ॥
क्वथितं त्रिदिनं पीतमम्लदोषहरं परम् ।
श्यामावह्निविडङ्गानि त्र्यूषणं त्रिफला वृषः ॥ ६ ॥
१ 'तस्याः' ख. । २ लवणभक्षणजनितदोषहरमित्यर्थः ।
२ आयुर्वेदौयग्रन्थमाला । [उपदेशः
सैन्धवं देवदारुश्च मुस्ता चैतत्समं समम् ।
घृतैर्लेहं तु कर्षैकं सप्ताहात्सर्वदोषजित् ॥ ७ ॥
एवं विशुद्धदेहस्तु पूजयेद्देवतां गुरुम् ।
कुमारीं योगिनीचक्रं ततः कुर्याद्रसायनम् ॥ ८ ॥
रससेवने पथ्यानि ।
निर्वाते भूगृहे वाऽथ बाह्यचिन्ताविवर्जितः ।
जितेन्द्रियो जितक्रोधः क्षीरशाल्यन्नयुग्भवेत् ॥ ९ ॥
षष्ठ्योदनं यवान्नं च गोधूमं मुद्गयूषकम् ।
जाङ्गलं भक्षयेन्मांसं केवलं क्षीरमेव वा ॥ १० ॥
वलान्नं वाऽथ भुञ्जीत शाकलोणविवर्जितम् ।
अभ्यङ्गं मस्तुना कुर्यात् स्नानं चैव सुखाम्बुना ॥ ११॥
काकिनीं स्त्रीं भजेन्नित्यं स्वानुकूलां सुयौवनाम् ।
रसेन्द्रे भक्ष्यमाणे तु कामान्धो जायते नरः ॥ १२ ॥
मैथुनेन विना तस्य ह्यजीर्णो जायते रसः ।
अजीर्णे कम्पदाहार्ती हिक्का मूर्च्छा ज्वरोऽरतिः ॥१३॥
कासश्वासारुचिच्छर्दिभ्रममोहा भवन्ति हि ।
सेवेत सुभगां तस्माद्दुर्भागां परिवर्जयेत् ॥ १४ ॥
रसायने वर्ज्यानि ।
अभ्यङ्गं कटुतैलेन काञ्जिकं मदिरां दधि ।
कलिङ्गकारवल्ल्यम्लतैलकूष्माण्डराजिकाः ॥ १५ ॥
बिल्वच्छत्राकवार्ताकविदलं काकमाचिकाम् ।
मूलकं लशुनं तीक्ष्णं शीतमुष्णं च वर्जयेत् ॥ १६ ॥
१ 'देवताचक्रं' ख. । २ 'यस्यास्तु कुञ्चिताः केशाः श्यामा या पद्मलो-
चना । सुरूपा तरुणी भिन्नविस्तीर्णजघनस्थला ॥ सङ्कीर्णहृदया पीनस्तनभारेण
नामिता । चुम्बनालिङ्गनस्पर्शकोमल्या मृदुभाषिणी ॥ अश्वत्थपत्रसदृशयोनि-
देशसुशोभिता । कृष्णपक्षे पुष्पवती सा नारी काकिनी स्मृता ॥ रसबन्धे प्रयोगे
च उत्तमा सा रसायने' र. र. स. अ. ६ ॥ ३ -'दाहादि' ख. ।
१.] रसरत्नाकरस्य रसायनखण्डः । ३
रात्रौ जागरणं त्याज्यं दिवास्वापं च मैथुनम् ।
कलहोद्वेगचिन्ताश्च शोकं चैव विवर्जयेत् ॥ १७ ॥
रसायनव्यापच्चिकित्सा ।
अवर्जनाद्भवेच्छूलं निद्राऽऽलस्यं ज्वरोऽरतिः ।
त्र्यहं पिबेत्तत्प्रशान्त्यै वारिणा कर्कटीफलम् ॥ १८ ॥
शुण्ठीसैन्धवचूर्णं वा मातुलुङ्गाम्लकैर्लिहेत् ।
सौवर्चलं गवां मूत्रैः पिबेद्वा तत्प्रशान्तये ॥ १९ ॥
वन्ध्याकर्कोटकीं पुङ्खां पातालगरुडीं जलैः ।
क्वाथयेदष्टगुणितैस्तदष्टांशं ससैन्धवम् ॥ २० ॥
पिबेत्सर्वविकारघ्नं त्रिदिनं शिवभाषितम् ।
मूलं वा कारवल्याुत्थं सैन्धवं वा गवां जलैः ॥ २१ ॥
त्रिदिनं कर्षमात्रं तु पिबेत्सर्वविकारजित् ।
अपथ्यशीलिनामेतत् कथितं रससेविनाम् ॥ २२ ॥
अमुमेव विधिं कुर्याद्रसायनविधौ किल ।
अमृतं विधिसंयुक्तं विधिहीनं तु तद्विषम् ॥ २३ ॥
रससंक्रामणम् ।
चातुर्जातककर्पूरकङ्कोलं कटुकीफलम् ।
खादेत्ताम्बूलसंयुक्तं रससंक्रामणे हितम् ॥ २४ ॥
पारदमारणविधिः ।
अथात्र वक्ष्यते सम्यगादौ पारदमारणम् ।
समुखस्य रसेन्द्रस्य वासनामुक्तितस्य वा ॥ २५ ॥
क्रमेण जारयेत्स्वर्णं समांशं पूर्ववत्ततः ।
तत्तुल्यं गन्धकं तस्मिन् दत्त्वा दिव्यौषधिद्रवैः ॥ २६ ॥
मर्दयेत्रिदिनं खल्वे मूषायां चान्धितं ततः ।
करीषाग्नौ दिवारात्रं त्रिरात्रं वा तुषाग्निना ॥ २७ ॥
१ 'मातुलुङ्गाद्रकैर्लिहेत' ख. । २ पुङ्खामिति शरपुङ्खामित्यर्थः । ३ 'स्तत्पा-
दांशेन सैन्धवम्' ख. ।