सामग्री पर जाएँ
सर्वकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 37, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 37

३० आयुर्वेदीयग्रन्थमाला । [उपदेशः
वर्षैकं धारयेद्वक्त्रे जीवेत्कल्पसहस्रकम् ।
तस्य मूत्रपुरीषाभ्यां सर्वलोहस्य लेपनात् ॥ १२८ ॥
जायते कनकं दिव्यं समावर्ते न संशयः ।
पलद्वयं भृङ्गराजद्रवं चानु पिबेत्सदा ॥ १२९ ॥
पूर्वोक्तं भस्मसूतं वा गुञ्जामात्रं सदा लिहेत् ।
वर्षैकं मधुनाऽऽज्येन लक्षायुर्जायते नरः ॥ १३० ॥
वलीपलितनिर्मुक्तो महाबलपराक्रमः ।
स्वर्णवैक्रान्तबद्धरसः ।
स्वर्णं वैक्रान्तसत्त्वं च द्वन्द्वितं जारयेद्रसे ॥ १३१ ॥
समांशं तु भवेद्यावत्तस्तेनैव सारयेत् ।
समेन जायते बद्धो धारयेत्तं मुखे सदा ॥ १३२ ॥
संवत्सरप्रयोगेण जराकालापमृत्युजित् ।
कुमार्या दलजं द्रावं सितायुक्तं पिबेदनु ॥ १३३ ॥
स्वर्णवैक्रान्तबद्धोऽयं ब्रह्मायुर्यच्छते नृणाम् ।
वैक्रान्तवटिका ।
वैक्रान्तसत्त्वतुल्यांशं शुद्धसूतं विमर्दयेत् ॥ १३४ ॥
दिनं दिव्यौषधद्रावैस्तद्गोलं निगडेन वै ।
लिप्त्वा लवणगर्भायां वज्रमूष्यां निरोधयेत् ॥ १३५ ॥
छायायां शोषयेत्सन्धिं त्रिदिनं तुषवह्निना ।
स्वेदयेद्वा करीषाग्नौ दिवारात्रमथोद्धरेत् ॥ १३६ ॥
तद्गोलं निगडेनैव लिप्त्वा तद्वन्निरुध्य च ।
छायाशुष्कं धमेद्गाढं बन्धमायाति निश्चितम् ॥१३७॥
वर्षैकं धारयेद्वक्त्रे जीवेद्ब्रह्मदिनत्रयम् ।
वैक्रान्तगुटिका ह्येषा सर्वकामफलप्रदा ॥ १३८ ॥
कर्षैकं त्रिफलाचूर्णं मध्वाज्याभ्यां लिहेदनु ।
१ 'जारयेत्' ख. ।