सामग्री पर जाएँ
सर्वकोश
रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

रसरत्नाकर: रसायन खण्ड (सिद्ध नित्यनाथ - पारद भस्म एवं रसायन कल्प सटीक)

Rasaratnakara Rasayana Khanda of Siddha Nityanatha with Commentary

सिद्ध नित्यनाथ (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished94 पृष्ठ

पृष्ठ 20, कुल 94 में से

संदर्भ में पढ़ें
पृष्ठ 20

२.] रसरत्नाकरस्य रसायनखण्डः । १३
मधुना भक्षयेत्कर्षमनु स्यात्कामकं परम् ।
परानन्दरसः ।
मृतसूताभ्रकं गन्धं तुल्यं सप्तदिनावधि ॥ ६८ ॥
शिग्रुमूलद्रवैर्मर्द्यं तद्गोलं भाण्डमध्यगम् ।
रुद्ध्वा पच्याल्लघुत्वेन शाककाष्ठैर्दिनावधि ॥ ६९ ॥
परानन्दो रसो नाम घृतैर्निष्कं सदा लिहेत् ।
दिनैकं त्रिफलाक्वाथैः कुष्ठं सम्यग्विपाचयेत् ॥ ७० ॥
तच्छुष्कं चूर्णितं कर्षं मध्वाज्याभ्यां लिहेदनु ।
संवत्सरप्रयोगेण जीवेदाचन्द्रतारकम् ॥ ७१ ॥
महाकालरसः ।
मृतसूताभ्रकं तुल्यं मृतलोहं तयोः समम् ।
लोहांशं शोधितं गन्धं भावयेद्दिनसप्तकम् ॥ ७२ ॥
तत्सर्वं त्रिफलाक्वाथैर्भृङ्गशिग्रुकचित्रकैः ।
द्रवैः पृथक्पृथग्भाव्यं सप्तधा सप्तधा क्रमात् ॥ ७३ ॥
सप्तधा कटुकीक्वाथैर्भावितं चूर्णयेत्पुनः ।
चूर्णतुल्यं कणाचूर्णं पुरातनगुडैः समैः ॥ ७४ ॥
सर्वमेकीकृतं खादेन्निष्कैकं वत्सरावधि ।
महाकालो रसो नाम जराकालभयङ्करः ॥ ७५ ॥
तिलकोरण्टपत्राणि गुडेन भक्षयेदनु ।
हेमपर्पटरसः ।
मृतपारदसंतुल्यं लोहपर्पटकं भवेत् ॥ ७६ ॥
त्रिगुणं गन्धकं सूतात्सर्वं दिव्यौषधद्रवैः ।
मर्दितं तद्दिनं रुद्ध्वा ध्मातो बद्धो भवेद्रसः ॥ ७७ ॥
तस्मिन् पादं मृतं स्वर्णं क्षिप्त्वा वह्न्यार्द्रकद्रवैः ।
मर्द्यं यामं विचूर्ण्याथ व्योषजीरकसैन्धवैः ॥ ७८ ॥
तुल्यं पूर्वरसं तुल्यं निष्कैकैकं च भक्षयेत् ।
जरामृत्युं निहन्त्याशु हेमपर्पटको रसः ॥ ७९ ॥
२