रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
by महाकवि कालिदास
Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)
Page 400 of 735
Read in contextदशमः सर्गः ३४१
भाषार्थं—उन तीनों रानियों ने रात में स्वप्न देखा कि शंख, खड्ग, गदा, शार्ङ्ग नामक धनुष और चक्र लिये हुए कोई बौना पुरुष हमारी रक्षा कर रहा है ॥ ६० ॥
हेमपक्षप्रभाजालां गगने च वितन्वता ।
उह्यन्ते स्म सुपर्णेन वेगाकृष्टपयोमुचा ॥ ६१ ॥
अन्वयः—हेमपक्षप्रभाजालां वितन्वता वेगाकृष्टपयोमुचा सुपर्णेन गगने 'ताः' उह्यन्ते स्म ।
हेमेति । किञ्चेति चार्थः । हेम्नः सुवर्णस्य पक्षाणां प्रभाजालं कान्तिपुञ्जं वितन्वता विस्तारयता वेगेनाकृष्टाः पयोमुचा मेघा येन तेन । सुपर्णेन गरुत्मता गरुडेन गगने ता उह्यन्ते स्मोढाः ।
भाषार्थं—और यह भी देखा कि आकाश में सुनहले पंखों के प्रभाजाल को फैलाते हुए और अपने वेग से बादलों को भी खींचकर ले जाते हुए गरुड़ हमें आकाश में उड़ाकर ले जा रहे हैं ॥ ६१ ॥
विभ्रत्या कौस्तुभन्यासं स्तनान्तरविलम्बिनम् ।
पर्युपास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया ॥ ६२ ॥
अन्वयः—स्तनान्तरविलम्बिनं कौस्तुभन्यासं बिभ्रत्या पद्मव्यजनहस्तया लक्ष्म्या च 'ताः' पर्युपास्यन्त ।
बिभ्रत्येति । किंच स्तनयोरन्तरे मध्ये विलम्बिनं लम्बमानम् । न्यस्यत इति न्यासः । कौस्तुभ एव न्यासस्तम् । पत्या कौतुकान्यस्तम् । कौस्तुभमित्यर्थः । बिभ्रत्या पद्ममेव व्यजनं हस्ते यस्यास्तया लक्ष्म्या पर्युपास्यन्तोपासिताः ।
भाषार्थं—भगवान् ने धरोहर के रूप में प्राप्त स्तनों के बीच में लटकते हुए कौस्तुभमणि को धारण करती हुई लक्ष्मी हाथ में कमल रूप पंखा लेकर हमारी सेवा कर रही हैं, यह भी देखा ॥ ६२ ॥
कृताभिषेकैर्दिव्यायां त्रिस्रोतसि च सप्तभिः ।
ब्रह्मर्षिभिः परं ब्रह्म गृणद्भिरुपतस्थिरे ॥ ६३ ॥
अन्वयः—दिव्यायां त्रिस्रोतसि कृताभिषेकैः परं ब्रह्म गृणद्भिः सप्तभिः ब्रह्मर्षिभिः 'ता' उपतस्थिरे ।
कृतेति । किंच । दिवि भवायां दिव्यायां त्रिस्रोतस्याकाशगङ्गायां कृताभिषेकैः कृतावगाहैः परं ब्रह्म वेदरहस्यं गृणद्भिः पठद्भिः सप्तभिर्ब्रह्मर्षिभिः कश्यपप्रभृ-तिभिरुपतस्थिरे उपासाञ्चक्रिरे ।