रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
by महाकवि कालिदास
Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)
Page 391 of 735
Read in context| ३३२ | रघुवंशमहाकाव्ये |
|---|
जान इति। हे देवाः वो युष्माकमनुभावपराक्रमौ महिमपुरुषकारौ रक्षसा रावणेन अङ्गिनां शरीरिणां प्रथममध्यमावुभौ गुणौ सत्त्वरजसी तमसेव तमोगुणेनेव। 'राहो ध्वान्ते गुणे तमः' इत्यमरः। आक्रान्तौ इति जाने। वाक्यार्थः कर्म।
**भावार्थ—**हे देवताओ ! यह मैं जानता हूँ कि आप लोगों के तेज और बल को राक्षसराज रावण ने उसी प्रकार दबा दिया है जिस प्रकार संसारी जीवों के सतोगुण और रजोगुण को उनका तमोगुण दबा देता है ॥ ३८ ॥
विदितं तप्यमानञ्च तेन मे भुवनत्रयम्।
अकामोपनतेनेव साधोर्हृदयमेनसा ॥ ३९ ॥
**अन्वयः—**अकामोपहतेन एनसा साधोः हृदयम् इव तेन तप्यमानं भुवनत्रयम् च मे विदितम् (अस्ति)।
विदितमिति। किंच अकामेनानिच्छयोपनतेन प्रमादादागतेनैनसा पापेन साधोः सज्जनस्य हृदयमिव तेन रक्षसा तप्यमानं सन्तप्यमानं। तपेर्भौवादिकात्कर्मणि शानच्। भुवनत्रयं च मे विदितं मया ज्ञायत इत्यर्थः। "मतिबुद्धिपूजार्थेभ्यश्च" इत्यनेन वर्तमाने क्तः। "क्तस्य च वर्तमाने" इति षष्ठी।
**भावार्थ—**और मैं यह भी जानता हूँ कि जिस प्रकार अनजान में किये हुए पाप से सज्जन का मन घबरा जाता है उसी प्रकार सारा संसार रावण के अत्याचार से घबरा उठा है ॥ ३९ ॥
कार्येषु चैककार्यत्वादभ्यर्थ्योऽस्मि न वज्रिणा।
स्वयमेव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते ॥ ४० ॥
**अन्वयः—**एककार्यत्वात् कार्येषु वज्रिणा अभ्यर्थ्यः न अस्मि। हि वातः स्वयमेव अग्नेः सारथ्यं प्रतिपद्यते।
कार्येष्विति। किंच एककार्यत्वात् एकं कार्यं ययोस्तौ तयोर्भावः एकाकार्यत्वं तस्मादावयौरेककार्यकत्वाद्धेतोः कार्येषु कर्त्तव्यार्थेषु विषयेषु वज्रिणेन्द्रेणाभ्यर्थ्यं एवं कुर्विति प्रार्थनीयो नास्मि। तथाहि वातः स्वयमेवाग्नेः सारथ्यं साहाय्यं प्रतिपद्यते प्राप्नोति। न तु वह्निप्रार्थनया इत्येवकारार्थः प्रेक्षावतां हि स्वार्थेषु स्वत एवं प्रवृत्तिः न तु परप्रार्थनया। स्वार्थश्चायं ममापीत्यर्थः।
**भावार्थ—**मेरा और इन्द्र का एकमात्र कार्य असुर संहार एवं शिष्टों की रक्षा करना है। अतः इस कार्य के लिए इन्द्र को मुझसे प्रार्थना करने की कोई आवश्यकता नहीं है, क्योंकि आग की सहायता करने के लिए वायु से कहने की आवश्यकता नहीं पड़ती है, वह तो स्वयं उसका सहायक बन जाता है ॥४०॥