नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 161, कुल 258 में से
संदर्भ में पढ़ेंपञ्चम उच्छ्वासः । १४१
उन्मीलन्नवनीलनीरजधिया पक्ष्मान्तरे नेत्रयोर्यासां
हस्तलैताहता अपि परिभ्राम्यन्ति भृङ्गाङ्गनाः ॥ ३८ ॥
इतोऽप्यवलोकयतु देवः ।
बालोन्मीलत्कुवलयवनं विस्तरद्गन्धरुद्ध-
भ्राम्यद्भृङ्गैरनुकृतपयःपूर्णमेघान्धकारम् ।
हर्षात्पश्यत्ययमतितरां तीरचारी मयूरो
मुग्धः पार्श्वे भ्रमति च॑ भयाच्चक्रवच्चक्रवाकः ॥ ३९ ॥
इदं च
कुररभरसहं सहंसमालं
मुदितमयूरचकोरचक्रवाकम् ।
क इह सुरुचिरं चिरं विलोक्य
प्रवरमते रमते नरो न रोधः ॥ ४० ॥
इतश्च ।
बककृतनिनदं नदं न दम्भा-
त्कृतसवनं सवनं भजन्त एते ।
निरुपमविभवं भवं स्मरन्तः
प्रशमधना मुनयो नयोपपन्नाः ॥ ४१ ॥
विधूतपाप्मानः खल्वमी महानुभावाः ॥ क ॥
तथाहि ।
बालेति ॥ विस्तरता प्रसरता गन्धेन रुद्धाः । अतएव भ्राम्यन्तो भृङ्गास्तैर-
नुकृतः पयःपूर्णमेघोऽन्धकारश्च येनेति वनविशेषणम् । मेघाद्धि मयूरस्य हर्षः ।
अन्धकाराच्च रात्रिशङ्कया चक्रवाकस्य भयम् ॥ ३९ ॥
कुररेति ॥ प्रवरा मतिर्यस्य तत्संबोधनम् । इह रोधस्तटं विलोक्य को नरो
न रमते क्रीडत्येव सर्वः । कथंभूतम् । कुरराणां भरमतिशयं सहते । तथा सह
हंसमालया तथा मुदिता मयूराश्चकोराश्चक्रवाकाश्च यत्र । यतः सुष्ठु रुचिरम्॥४०॥
बकेति ॥ प्रशम एव धनं येषां ते मुनयो नययुक्ताः । अनुपमसामर्थ्यं भव-
मीश्वरं स्मरन्तो बकैः कृतशब्दम् । तथा न दम्भात्कपटादपि तु धर्मवासनया कृतं
सवनं स्नानं यत्र तम् । तया सह वनैः सवनं वनयुक्तम् । नदं जलाधारविशेषम् ।
एते भजन्ते ॥ ४१ ॥
१ 'तलाहता'. २ 'तु'.