सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 160, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 160

१४० नलचम्पूः ।
माद्यद्दन्तिकपोलपालिविगलद्दानाम्बुसिक्तद्रुमाः
क्रीडत्क्रोडकुलार्थचर्वितपतन्मुस्तारसामोदिताः ।
अन्तः सुस्थितपान्थसन्थरमरुल्लोलल्लतामण्डपाः
कस्यैता न हरन्ति हन्त हृदयं विन्ध्यस्थलीभूमयः ॥३४॥
इतश्च पश्यतु देवः ।
एषा सा विन्ध्यमध्यस्थलविपुलशिलोत्सङ्गरङ्गत्तरङ्गा
संभोगश्रान्ततीराश्रयशबरवधूशर्मदा नर्मदा च ।
यस्याः सान्द्रद्रुमालीगलिततलमिलत्सुन्दरीसंनिरुद्धैः
सिद्धैः सेव्यन्त एते मृगमृदितदलत्कन्दलाः कूलकच्छाः ३५
अपिच ।
अन्तरेऽप्यस्याः
मज्जत्कुञ्जरकुम्भमण्डलगलद्दानाम्बुनः सौरभा-
द्भ्राम्यद्भृङ्गकुलावलीः कुवलयश्रेणीः समाविभ्रतः ।
कल्लोलाः कलिकालकल्मषमुषः प्रोल्लोललीलाकृतः
खःसोपानपरंपरा इव वियद्वीथीमलंकुर्वते ॥ ३६ ॥
इतश्चास्यास्तीरे
अंससंसिजलार्द्रजर्जरजटाजूतैर्मनाङ्कन्थरा-
स्तिम्यत्तारवतन्तुनिर्मितकुथत्कौपीनमात्रच्छदाः ।
शीतोत्कण्टकितास्थिशेषतनवः स्नात्वोत्तरन्तः शनै-
रेते पश्य पतन्ति पिच्छिलशिलाजाले जरत्तापसाः ॥३७॥
इतोऽपि
पश्यैताः करिकुम्भसंनिभकुचद्वन्द्वोल्लसद्वीचयः
क्रीडन्त्यब्जविकाशभासि पयसि स्वैरं पुलिन्दस्त्रियः ।
माद्यदिति ॥ मुस्तायाः कन्दविशेषस्य रसेन निर्यासेनामोदिताः । अन्त-
र्मध्ये सुस्थिताः पान्था यासु । तथा मन्थरमरुता मन्दानिलेन लोलन्तश्चलन्तो लता
मण्डपा यासु । पश्चात्कर्मधारयः ॥ ३४ ॥
मज्जदिति ॥ भृङ्गकुलानां कुवलयान्युपमानम् । विभ्रत इति कल्लोलविशेषणं
जसन्तम् । ‘नाभ्यस्ताद्–’ इति नुमभावः ॥ ३६ ॥
अंसेति ॥ तरुषु जातास्तारवाः । ते च ते तन्तवश्च । पिच्छिलं मसृणं कर्द-
मिलम् ॥ ३७ ॥
१ ‘विन्ध्यशैलस्थल’। २ ‘यस्याः’। ३ ‘गण्ड’। ४ ‘मृत’। ५ ‘तीरेषु’। ६ ‘विकास’ ।