मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
by महाकवि विशाखदत्त
Page 370 of 488
Read in contextपञ्चमोऽङ्कः २८७
करने वाले कुमार मलयकेतु को भी धोखा देना है—यह कठिन एवम् आश्चर्यजनक (विषय) है। अथवा—
क्षणिक धन की प्राप्ति के कारण लज्जा, सम्मान, अपने यश और कुल से भी विमुख होकर धनवान् के हाथ शरीर को बेचकर विवेक का अतिक्रमण करके पराधीन होकर इस समय उस (धनवान्) की आज्ञा का अनुसरण करता हुआ (मेरे जैसा व्यक्ति) यह हितकारी है और यह अहितकारी है, ऐसा क्यो सोचता है? ॥४॥
टिप्पणी—आस्थानमण्डपे—सभामण्डपे। आ√स्था + ल्युट् भावे = आस्थानम्। तस्य मण्डपः, तस्मिन्। 'मण्डपोऽस्त्री जनाश्रयः' इत्यमरः। अतिसन्धातव्यः—प्रतारणीयः। विचारातिक्रान्त—परित्यक्तसदसद्विवेकः। इस पद्य मे पदार्थहेतुक काव्यलिंग अलंकार है, प्रसाद गुण है, वैदर्भी रीति है और शिखरिणी छन्द है ॥४॥
[ ततः प्रविशति प्रतीहार्यनुगतो मलयकेतुः । ]
मलयकेतुः—[ स्वगतम् ] अहो ! राक्षसं प्रति मे विकल्पबाहुल्या-दाकुला बुद्धिर्न निश्चयमधिगच्छति । कुतः—
भक्त्या नन्दकुलानुरागदृढया नन्दान्वयालम्बिना
किं चाणक्यनिराकृतेन कृतिना मौर्येण सन्धास्यते ।
स्थैर्यं भक्तिगुणस्य वा विगणयन् किं सत्यसन्धो भवे-
दित्यारूढकुलालचक्रमिव मे चेतश्चिरं भ्राम्यति ॥५॥
अन्वयः—कृतिना चाणक्यनिराकृतेन नन्दान्वयालम्बिना मौर्य्येण नन्द-कुलानुरागदृढया भक्त्या सन्धास्यते किम्, वा भक्तिगुणस्य स्थैर्यम् विगणयन् सत्यसन्धो भवेत् किम् इति मे चेतः आरूढकुलालचक्रम् इव चिरं भ्राम्यति ॥५॥
व्याख्या—कृतिना—कुशलेन, चाणक्यनिराकृतेन—चाणक्येन कौटिल्येन निराकृतः परित्यक्तः तथाभूतेन, नन्दान्वयालम्बिना—नन्दान्वयं नन्दवंशम् अवलम्बते आश्रयते यः तादृशेन, मौर्येण—वृषलेन, नन्दकुलानुरागदृढया—नन्दकुले यः अनुरागः स्नेहः तेन दृढा स्थिरा तथाभूतया, भक्त्या—सेवया हेतुना,