Skip to content
SarvaKosh
मुद्राराक्षसम् (सटीक संस्कृत नाटक)

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

by महाकवि विशाखदत्त

DevanagariSanskritpublished488 pages

Page 242 of 488

Read in context
Page 242

द्वितीयोऽङ्कः १५१

विराधगुप्तः—अमात्य ! स्यादेतदेवं यतो भव्यं रक्षति भवितव्यता ।

राक्षसः—प्रियंवदक ! यद्येवं, तत् किं चिरयसि ? क्षिप्र प्रवेशय तम् ।

प्रियंवदकः—जं अमच्चो आणवेदि त्ति । ( यदमात्य आज्ञापयति ।)

[ इति निष्क्रान्तः । ]

[ ततः प्रविशति सिद्धार्थकेनानुगम्यमानः शकटदासः । ]

शकटदासः—[ दृष्ट्वा स्वगतम् ]—

दृष्ट्वा मौर्यमिव प्रतिष्ठितपदं शूलं धरित्र्यास्तले
तल्लक्ष्मीमिव चेतसः प्रमथनीमुन्मुच्य वध्यस्रजम् ।
श्रुत्वा स्वाम्युपरोधरोद्रविषमानाध्माततूर्यस्वनान्
न ध्वस्तं प्रथमाभिघातकठिनं मन्ये मदीयं मनः ॥ २१ ॥

अन्वयः—मन्ये प्रथमाभिघातकठिनं मदीयं मनः मौर्यमिव धरित्र्यास्तले प्रतिष्ठितपदं शूलं दृष्ट्वा तल्लक्ष्मीमिव चेतसः प्रमथनी वध्यस्रजम् उन्मुच्य स्वाम्युपरोधरोद्रविषमान् आध्माततूर्यस्वनान् श्रुत्वा न ध्वस्तम् ॥ २१ ॥

व्याख्या—मन्ये—शङ्के, प्रथमाभिघातकठिनं—प्रथमाः पूर्वप्राप्ताः ये अभिघाताः प्रहाराः तैः कठिनं घनं, मदीयं—मम, मनः—चेतः, मौर्यमिव—चन्द्रगुप्तमिव, धरित्र्याः—पृथिव्याः, तले—पृष्ठे, प्रतिष्ठितपदं—बद्धमूलं, शूलं—मारणार्थलौहदण्डं, दृष्ट्वा—अवलोक्य, तल्लक्ष्मीमिव—चन्द्रगुप्तश्रिय-मिव, चेतसः—हृदयस्य, प्रमथनी—विदारणी, वध्यस्रजं—वध्यचिह्नभूतां रक्त-कुसुममालाम्, उन्मुच्य—परिधाय, स्वाम्युपरोधरोद्रविषमान्—स्वामिनः प्रभोः नन्दस्य यः उपरोधः हिंसा तदिव रौद्रान् घोरान् विषमान् कर्कशान्, आध्मात-तूर्यस्वनान्—ताडितडिण्डिमशब्दान्, श्रुत्वा—निशम्य, न ध्वस्तम्—न विदीर्णम् ॥ २१ ॥

हिन्दी अनुवाद—[ पर्दे को बिना हटाये एक पुरुष प्रवेश करके ] अमात्य की जय हो । आर्य ! ये शकटदास दरवाजे पर आये हुए हैं ।

राक्षस—प्रियंवदक ! क्या ( यह ) सत्य है ?

प्रियंवदक—क्या अमात्य के चरणों में मिथ्या निवेदन करूँगा ?

राक्षस—मित्र ! विराधगुप्त ! यह कैसे ?