मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
by महाकवि विशाखदत्त
Page 222 of 488
Read in contextद्वितीयोऽङ्कः १३१
कर दो । उस पर कारीगरों ने कहा—'आर्य ! पहले ही महाराज चन्द्रगुप्त के नन्द-भवन में प्रवेश को जानकर शिल्पी दारुवर्मा ने सोने के तोरण की रचना आदि सजावटों से राजभवन के प्रथम द्वार को सजा दिया । अब हमें भीतर की सजावट करनी है ।' तदनन्तर बिना कहे ही दारुवर्मा ने राजभवन के द्वार को सजा दिया—इससे मानों सन्तुष्ट होकर अल्पबुद्धि चाणक्य ने बड़ी देर तक दारूवर्मा के कौशल की प्रशंसा करके कहा—'दारुवर्मा ! इस कौशल के अनुरूप फल शीघ्र प्राप्त करोगे ।'
टिप्पणी—सांवत्सरिक—ज्योतीषी । संवत्सरं कथयन्ति बोधयन्ति वा इति संवत्सर + ठञ् शेषे, तस्य इकादेशः । अर्धरात्रसमये—अर्धं रात्रेः इति अर्धरात्रः एकदेशितत्०; समासान्त अच् प्रत्ययः 'अहः सर्वैकदेशसंख्यातपुण्याच्च रात्रेः' इत्यनेन, 'रात्राह्नाहाः पुंसि' इत्यनेन पुंस्त्वम् । अर्धरात्र एव समयः अर्धरात्रसमयः, तस्मिन् । कालाधिकरणे सप्तमी । प्रथमद्वारात्—अत्र प्रभृत्यर्थयोगे पञ्चमी । संस्कारविशेषैः—विशेष प्रकार की सजावटों से । इसका गूढार्थ है—चन्द्रगुप्त के ऊपर तोरण गिराने के प्रयत्नों से । अभ्यन्तरे संस्कारः—भीतर में सजावट । इसका गूढार्थ है—चन्द्रगुप्त को विष देना तथा शयन-कक्ष में मारना । विधेयः—वि √धा + यत् कर्मणि । चाणक्यवटुना—अल्पमति या क्षुद्रबुद्धि चाणक्य ने । चाणक्यश्चासौ वटुश्च इति चाणक्यवटुः, तेन । अनुरूपं फलम्—उचित फल । इसका गूढार्थ है— वधरूप फल ।
राक्षसः—[ सोद्वेगम् ] सखे ! कुतश्चाणक्यवटोः परितोषः ? अफलमनिष्टफलं वा दारुवर्मणः प्रयत्नमवगच्छामि । यदनेन बुद्धिमोहादथवा राजभक्तिप्रकर्षात्नियोगकालमप्रतीक्षमाणेन जनितश्चाणक्यवटोश्चेतसि बलवान् विकल्पः । ततस्ततः ?
विराधगुप्तः— ततश्चाणक्यहतकेनानुकूललग्नवशादद्यार्धरात्रसमये चन्द्रगुप्तस्य नन्दभवनप्रवेशो भविष्यतीति शिल्पिनः पौरांश्च गृहीतार्थान् कृत्वा तस्मिन्नेव क्षणे पर्वतेश्वरभ्रातरं वैरोचकमेकासने चन्द्रगुप्तेन सहोपवेश्य कृतः पृथ्वीराज्यार्धभागः ।
राक्षसः—किं वातिसृष्टं पर्वतेश्वरभ्रात्रे वैरोचकाय पूर्वप्रतिश्रुतं राज्यम् ?
विराधगुप्तः—अथ किम् ?