मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
इस ग्रन्थ के बारे में
मुद्गल पुराण गणपति-उपासना (गाणपत्य सम्प्रदाय) का प्रमुख उपपुराण है, जिसकी कथा परम्परा महर्षि मुद्गल से जोड़ती है। गणेश पुराण के साथ यह भगवान् गणेश के स्वरूप और लीलाओं का सबसे विस्तृत स्रोत माना जाता है। इसकी विशेषता गणेश के आठ अवतारों (वक्रतुण्ड, एकदन्त, महोदर, गजानन, लम्बोदर, विकट, विघ्नराज और धूम्रवर्ण) की कथाएँ हैं, जिनमें प्रत्येक अवतार मत्सर, मद, मोह, लोभ, क्रोध, काम, ममता और अभिमान जैसे विकारों के प्रतीक असुरों को जीतता है। इसीलिए इसे 'अष्टावतार चरित' भी कहा जाता है।
यह संस्कृत मूल पाठ का पोथी-शैली में छपा संस्करण है, जिसके हर पृष्ठ पर खण्ड और अध्याय की संख्या अंकित है। ग्रन्थ गणेश-वन्दना से आरम्भ होता है और नैमिषारण्य में शौनक आदि ऋषियों के पास सूत लोमहर्षण के आगमन से कथा का सूत्रपात होता है। पुराण नौ खण्डों में बँटा है और प्रत्येक खण्ड के अन्त में उसका माहात्म्य दिया गया है।
लगभग 1023 पृष्ठों का यह ग्रन्थ गाणपत्य दर्शन, स्वानन्देश गणेश की उपासना और महाराष्ट्र की गणेश-भक्ति परम्परा के अध्ययन में उपयोगी है।
पान ११०
गणेशरूपाश्च कृतास्त्वया तं गजाननं भक्तियुता भजामः ॥२१॥ गजाख्यबीजं प्रवदंति वेदास्तदेव चिह्नेन च योगिनस्त्वाम् ।
गच्छंति तेनैव गजाननस्त्वं गजाननं भक्तियुता भजामः ॥२२॥ पुराणवेदाः शिवविष्णुकाद्याऽमराः शुकाद्या गणपस्तवे
वै । विकुंठिताः किं च वयं स्तवाम गजाननं भक्तियुता भजामः ॥२३॥ मुद्गल उवाच । एवं स्तुत्वा गणेशानं नेमुः सर्वे पुनः
पुनः । तानुत्थाप्य वचो रम्यं गजानन उवाच ह ॥२४॥ गजानन उवाच । वरं ब्रूत महाभागा देवाः सर्षिगणाः परम् ।
स्तोत्रेण प्रीतिसंयुक्तः परं दास्यामि वाञ्छितम् ॥२५॥ गजाननवचः श्रुत्वा हर्षयुक्ताः सुरर्षयः । जगुस्तं भक्तिभावेन
साश्रुनेत्राः प्रजापते ॥२६॥ देवर्षय ऊचुः । गजानन यदि स्वामिन् प्रसन्नो वरदोऽसि भोः । तदा भक्तिं दृढां देहि लोभहीनां
त्वदीयकाम् ॥२७॥ लोभासुरस्य देवेश कृता शांतिः सुखप्रदा । तदा जगदिदं सर्वं वरयुक्तं कृतं त्वया ॥२८॥ अधुना
देवदेवेश कर्मयुक्ता द्विजादयः । भविष्यंति धरायां वै वयं स्वस्थानगास्तथा ॥२९॥ स्वस्वधर्मरताः सर्वे गजानन कृतास्त्वया ।
अतःपरं वरं याचामहे ढुंढे कमप्यहो ॥३०॥ यदा ते स्मरणं नाथ करिष्यामो वयं प्रभो । तदा संकटहीनान् वै कुरु त्वं नो
गजानन ॥३१॥ एवमुक्त्वा प्रणेमुस्तं गजाननमनामयम् । स तानुवाच प्रीतात्मा भक्त्यधीनस्वभावतः ॥३२॥ गजानन उवाच ।
यच्च प्रार्थितं देवा मुनयः सर्वमंजसा । भविष्यति न संदेहो मत्स्मृत्या सर्वदा हि वः ॥३३॥ भवत्कृतमदीयं वै
स्तोत्रं सर्वत्र सिद्धिदम् । भविष्यति विशेषेण मम भक्तिप्रदायकम् ॥३४॥ पुत्रपौत्रप्रदं पूर्णं धनधान्यविवर्धनम् । सर्व-
संपत्करं देवाः पठनाच्छ्रवणा न्नृणाम् ॥३५॥ मारणोच्चाटनादीनि नश्यंति स्तोत्रपाठतः । परकृत्यं च विप्रेन्द्रा अशुभं नैव
बाधते ॥३६॥ संग्रामे जयदं चैव यात्राकाले फलप्रदम् । शत्रूच्चाटनकार्येषु प्रशस्तं तद्भविष्यति ॥३७॥ कारागृहगतस्यैव
बंधनाशकरं भवेत् । असाध्यं साधयेत् सर्वमनेनैव सुरर्षयः ॥३८॥ एकविंशतिवारं चैकविंशति दिनावधिम् । प्रयोगं यः
करोत्येव स भवेत् सर्वसिद्धिभाक् ॥३९॥ धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य दायकम् । भविष्यति न संदेहः स्तोत्रं मद्भक्ति-
वर्धनम् ॥४०॥ एवमुक्त्वा गणाधीशस्तत्रैवांतरधीयत । देवाः सर्षिगणाः सर्वेऽभवन् खिन्ना इव प्रभो ॥४१॥ गजाननस्य
मूर्तिस्तैः स्थापिता सिद्धिदा ततः । नैर्ऋते कोणभागे स्म दर्शनेन सुखप्रदा ॥४२॥ तत्रैव संस्थिता देवा मुनयो भक्ति-
संयुताः । अंशेन स्वाधिकारेषु स्वाश्रमेषु गता बभुः ॥४३॥ ततः स्वधर्मसंयुक्ता बभूवुर्मानवा भुवि । यथायोग्यं जगत् सर्वं
बभूवे हर्षितं विधे ॥४४॥ एतद्गजाननस्यैव चरितं पापनाशनम् । भुक्तिमुक्तिप्रदं दक्ष कथितं ब्रह्मदं परम् ॥४५॥ यः पठेत्
पाठयेद्वापि शृणुते श्रद्धयान्वितः । स ईप्सितफलं भुक्त्वा ब्रह्मभूतो भविष्यति ॥४६॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते देवमुनिकृतस्तुतिवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । धन्योऽहं मुद्गल स्वामिंस्त्वत्संङ्गान्नात्र संशयः । लोभशांतिकरं चित्रं श्रुतं भक्त्या
चरित्रकम् ॥१॥ न तृप्तोऽहं गजास्यस्य सुधापान इव प्रभो । वद क्षेत्रस्य माहात्म्यमधुना तस्य सर्वदम् ॥२॥ गजाननस्य
भक्त्यर्थमवतारान् धृतान् वद । संक्षेपेण महाभाग सर्वज्ञोऽसि च ते नमः ॥३॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा मुद्गलो
हर्षसंयुतः । जगाद तं महाभागं महाभागो दयान्वितः ॥४॥ मुद्गल उवाच । अवतारा अनंताश्च गजाननस्य मानद । भक्तानां
कार्यसिद्ध्यर्थं कथनं नैव शक्यते ॥५॥ तथापि शृणु दक्ष त्वमवतारचरित्रकम् । गजाननस्य कथयामि समासेन सर्वदम्
॥६॥ पार्वत्या शंकरेणैवाऽऽराधितो गणनायकः । दिव्यवर्षसहस्रेण प्रसन्नो वरदोऽभवत् ॥७॥ ताभ्यां संपूजितो देवः स्तुतः
संयाचितोऽभवत् । त्वं पुत्रो भव नौ स्वामिन् संसारोत्तारणाय वै ॥८॥ तथेति प्रतिपाद्याऽसौ गणेशोऽन्तर्दधे स्वयम् ।
पुत्रः सिंधुवधायाभून् मयूरेश इति स्मृतः ॥९॥ हत्वा सिंधुं महावीर्यं गतः स्वानंदके पुरे । एवं नानाऽवतारान् स दधार
शिवयोर्गृहे ॥१०॥ अष्टकोट्यवताराश्च गणेशस्य प्रकीर्तिताः । शिवपुत्राश्च ते ख्याताः कार्यार्थं त्वंशभावतः ॥११॥
केचिच्छिवात् समुद्भूताः केचिच्छक्तेर्महात्मनः । उभयोर्योगतः केचित् कलांशा अभवन् पराः ॥१२॥ यादृशं संकटं प्राप्तं
तदर्थं संस्मृतो विभुः । तावत् कलांशयोगेन पुत्रोऽभूत् सुखदायकः ॥१३॥ कृत्वा कार्यस्य संसिद्धिं पुनः स्वानंदगोऽभवत् ।
तद्वियोगेन संतप्तौ शिवौ किल बभूवतुः ॥१४॥ अन्ये नानाऽवताराश्च कश्यपादिगृहेऽशतः । धृता गजाननेनैव वक्तुं नैव
प्रशक्यते ॥१५॥ इतिहास प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् । गजाननावतारेण युक्तं शृणु प्रजापते ॥१६॥ एकदा निद्रितं
शंभुं ब्रह्माणं प्रययौ प्रभुः । किंचित् कार्यार्थमेवं तमुत्थाप्य स्वगृहेऽगमत् ॥१७॥ स उत्थितो महाजृंभां चकार क्रोधसंयुतः ।
तस्माज्जातः पुमानेको रक्तवर्णः सुशोभनः ॥१८॥ सुवासबहुलेनैव युक्तः काम इवापरः । तं दृष्ट्वा विस्मितो ब्रह्मा जगाद
यहाँ दिए गए पृष्ठ का देवनागरी में लिप्यंतरण प्रस्तुत है:
खं. ४ अ. ४४ | पान ११२
स महाबलम् ॥१९॥ ब्रह्मोवाच । कोऽसि त्वं पुरुषश्रेष्ठ किमर्थं ह्यागतो वद । एवं पृष्टः स तं देवं जगाद मेघनिःस्वनः ॥२०॥
पुमानुवाच । जृंभायास्ते समुत्पन्नः पुत्रोऽहं देवनायक । स्थानं नामादिकं देहि भक्षणं विविधं पितः ॥२१॥ ततोऽतिहर्षितो
ब्रह्मा पुत्रं दृष्ट्वा महाद्भुतम् । ददौ तस्मै विशेषेण वरांस्ताञ् शृणु मानद ॥२२॥ सुवासबहुलं रक्तं वपुस्ते तेन सिंदुर ।
नाम नानाविधान् भोगान् भुंक्ष्व
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें[Header]
खं. ४ अ. ४५ | पान १६३
तपोयुक्तं किमर्थं हन्मि मूर्खवत् ॥४४॥ वामांगे संस्थितां नारीं रूपेणाप्रतिमां पराम् । तां गृहीत्वा गमिष्यामि स्वेच्छया
क्रीडानोत्सुकः ॥४५॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते सिंदूरशिवसमागमो नाम चतुश्चत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एवं निश्चितसंकल्पः सिंदूरो गिरिजां ततः ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें[खं. ४ अ. ४५]
[पान ११४]
शूलकादीनि शस्त्राण्याकुंठितानि वै ॥१६॥ तद् दृष्ट्वा परमाश्चर्यं भयभीतो महेश्वरः। सस्मार गणपं सोऽपि निर्विघ्नार्थं
प्रजापते ॥१७॥ पार्वत्याः स्तवनं श्रुत्वा स गजानन आययौ। ब्राह्मणस्य स्वरूपेण तयोर्मध्ये प्रयुद्ध्यतोः ॥१८॥ गणेशेन
कृतं तत्र कौतुकं परमाद्भुतम्। पपात गुप्तस्वरूपश्च परशुर्दैत्यवक्षसि ॥१९॥ तेनाहतं महादैत्यं व्याकुलं वीक्ष्य विघ्रपः।
ततस्तं ब्राह्मणः प्राह शृणु दैत्य वचो हितम् ॥२०॥ जगज्जनिमिमां शक्तिं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ४ अ. ४६ पान ११९
निष्ठामश्लेच्छिवात्मकाः ॥४१॥ अतः कं च महादेवि स्वकीयं वशगं गणम् । कुरु त्वं सा ततः शक्तिस्तथेति प्रत्युवाच ते
॥४२॥ स्वांगान् मलं समाकृष्य कृत्वा तं पुरुषाकृतिम् । पुनः संजीवयामास पार्वती तं जगाद ह ॥४३॥ द्वारे तिष्ठ महाबाहो
मदाज्ञावशगः सदा । मदाज्ञया विना पुत्र मा प्रवेश्यस्त्वया नरः ॥४४॥ अहं स्नानार्थमत्रैव संस्थिता कालपर्यये । पतिर्मे
तत्र रे वत्स त्वागतोऽपि भवेत् स्वयम् ॥४५॥ केनापि कथितं तत्राऽन्तो मा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंसोऽपि चाददे ॥५॥ आगत्यैव न्यहञ्छंभुं हृदये यमसंनिभः । शूलं पपात तद्धस्ताच्छिवश्च व्याकुलोऽभवत् ॥६॥ ततस्तं
गदया विष्णुर्योधयामास दारुणम् । ततस्त्रिशूलघातेन शिरश्चिच्छेद शंकरः ॥७॥ ममार पुरुषस्तत्र श्रुत्वा सा पार्वती
पुनः । कोपयुक्ता च कोटीः सा शक्तीस्ता नव निर्ममे ॥८॥ तयाऽऽज्ञप्ता महादेव्यः संहर्तुं सकलं जगत् । प्राप्ता आलोक्य
देवास्ते भयभीता बभूविरे ॥९॥ शंकरेण द्विजास्तत्र प्रेषिता नारदायः । अंतरिक्षचराः सर्वे प्रणेमुः पार्वतीं ततः ॥१०॥
रक्ष
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ४ अ. ४७ पान ११७
निरता तां निरीक्ष्यैव शंभुः सस्मार पूर्वगाम् ॥३१॥ ममाज्ञावशगा देवी नेयं दक्षगृहे गता । अतोऽहं न वृणोम्येतां
पुनः शैलसुतां कदा ॥३२॥ तारकासुरभीतैर्देवैः कामः प्रार्थितस्ततः । स ययौ शंकरस्थानं मोहितुं मदसंयुक्तः ॥३३॥
तं प्रज्वाल्य महेशानस्त्यक्त्वा हिमगिरिं ययौ । अन्यत्र सा ततो देवी खेदयुक्ता बभूव ह ॥३४॥ मनसि ज्ञानमार्गेण
ज्ञात्वा शंभुविचेष्टितम् । तपसा संयुता भूत्वा वनगा
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं ४ अ. ४७ पान ११८
अतोऽसुरस्य योनौ त्वं पतिष्यसि न संशयः ॥५॥ काले सोऽपि ममराऽथ गजयोनौ बभूव ह । गजासुर इति ख्यातो
नरकुंजरवेषभृत् ॥६॥ गजासुरेण शंभोस्तपः कृतं च विशेषतः । मंत्रं जजाप शैवेनातोषयन्नियमे रतः ॥७॥ सहस्रेषु
गतेष्वेव वर्षेषु वरदः शिवः । जगाद वृणु दैत्येश यत्ते मनसि वर्तते ॥८॥ स वव्रे राज्यमुग्रं मे देहि लोकत्रयस्य च । बलं
सर्वातिगं शंभो आरोग्यं सर्वपूज्यताम् ॥९॥ अंते मोक्षं च मे देहि तथेति शंकरोऽब्रवीत् । मस्तकः सर्वपूज्यस्ते
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंयहाँ दिए गए पृष्ठ का सटीक देवनागरी लिप्यंतरण प्रस्तुत है:
खं. ४ अ. ४७ पान ११९
लक्ष्मीर्गजस्तेजोयुतोऽभवत् ॥३०॥ तिरस्कृत्य महेंद्रं तं गजो हत्वा सुरान् परान् । ययौ वने प्रजानाथ स्वच्छंदश्च बभूव सः
॥३१॥ ततोऽतितापसंयुक्त इन्द्रो हीनः श्रियाऽभवत् । दैत्यराजा बुभुजिरे संगृह्य स्वर्गमागताः ॥३२॥ ततो बहौ गते
काले गुरुणा बोधितः सुरः । देवैः सह गणेशानं तोषयामास नित्यदा ॥३३॥ गते वर्षसहस्रे तु गणेशस्तं ययौ तदा ।
पूजितः संस्तुतस्तेन प्रसन्नो वरदोऽभवत् ॥३४॥ श्रीगणेश
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ४ अ. ४८ पान १२०
शंभुः स्तुतो ज्ञात्वा मनेप्सितम् । तस्या जले शिवाः सर्वे दृषदश्च कृतास्तदा ॥५६॥ ततो गंगासमं तेजो बभूव
सरितः प्रभोः । नर्मदायास्तथा सापि न संतोषयुताऽभवत् ॥५७॥ पुनस्तताप तीव्रं सा तपो विघ्नेश्वरे रता । गतेषु वै सहस्त्रेषु
वर्षेषु वरदोऽभवत् ॥५८॥ स्तुतः संपूजितः सोऽपि हृदीप्सितवरं ददौ । रक्तवर्णा गणेशाना दृषदो जलगाः कृताः ॥५९॥
ततः साऽतीव माहात्म्ययुता जाता सरिद्वरा । दर्शनेन
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंHeader:
खं. ४ अ. ४८ | पान १२१
Text:
दैत्यस्तत्र समागतः । ततो विष्णुः शिवं देवैर्ययौ सत्वर एव च ॥८॥ तत्राऽपि स ययौ दैत्यः शंभुर्देवैर्गणेश्वरम् । तुष्टाव
दैत्यनाशार्थं ततः स वरदोऽभवत् ॥९॥ सिंदूरमाययौ तत्र प्रभुः परशुधारकः । गजाननो मूषकारूढको भूत्वा प्रतापवान्
॥१०॥ तं दृष्ट्वा योद्धुमायातं सिंदूरः क्रोधसंयुतः । जगाद स्वमदेनैव युक्तः परमदुर्जयः ॥११॥ सिंदूर उवाच । किमर्थं रणभूमौ
त्वमागतोऽसि गजानन । बालभावेन मां मूर्ख न जानासि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ४ अ. ४९ पान १२२
श्रीगजानन उवाच। भवत्कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत्। पठते शृण्वते देवा ब्रह्मभूयप्रदायकम् ॥३४॥ वरं वृणुत
देवेशास्तुष्टिं स्तोत्रेण चागतः। दास्यामि सकलाभीष्टं भवतां यच्चिकीर्षितम् ॥३५॥ शिवादय ऊचुः। यदि प्रसन्नभावेन वरदोऽसि
गजानन। तदा तिष्ठ गृहे शंभोः सर्वदा विघ्ननाशनः ॥३६॥ त्वां दृष्ट्वा विघ्नहीनाश्च भविष्यामो निरंतरम्। प्रत्यक्षं योगरूपं
च
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ४ अ. ४९ पान १२३
ततो देवेंद्रमुख्याश्च रात्रौ देवाः समाययुः । तद् दृष्ट्वा गुप्तरूपेण पुपूजुस्तं गजाननम् ॥११॥ पूजयित्वा गताः सर्वे राजा तत्र
समागतः । पूजां दृष्ट्वा महाभागो विस्मितोऽभूत् पुनः पुनः ॥१२॥ ततः स्वगुरवे गत्वा पप्रच्छ विनयान्वितः । देवदर्शन-
कांक्षी कृतांजलिः स विशेषतः ॥१३॥ वीरभद्र उवाच । स्वामिन् देवगणाः पूजयितुं चात्र गजाननम् । नित्यमायांति तान्
द्रष्टुमिच्छामि वद कारणम् ॥१४॥ शिवशर्मोवाच ।
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंपान १२४
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । पार्श्वेण मुनिना पूर्वं दीपवत्सलया सह । पत्न्या परमसत्या वै तपसाऽऽराधितो
विभुः ॥१॥ दशवर्षसहस्रेषु गणेशो वरदोऽभवत् । स्तुतः संपूजितस्तेन नानास्तोत्रैः प्रजापते ॥२॥ ताभ्यां पुत्रो भव
स्वामिन् वृतस्तवन्नौ वरो महान् । तथेति गणराजस्तौ कथयित्वा ययौ पुरम् ॥३॥ ततः कदाचिद्देवर्षिर्नारदस्त्विन्द्रमाययौ ।
पूजितः सुरनाथेन जगाद वचनं हितम् ॥४॥ नारद उवाच । हिमवत्यां हिमप्रांते राजा मदसमन्वितः । अभिनन्दन
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंशरणं ययुः । तेन सार्धं च वैकुंठं जग्मुः कालभयान्विताः ॥२६॥ विष्णुना शंकरं जग्मुर्ब्राह्मणा भयसंकुलाः । स्तुत्वा
नानाविधैः स्तोत्रैः शशंसुः कालचेष्टितम् ॥२७॥ शिवेन संयुताः सर्वे विघ्नेशं तुष्टुवुः प्रभुम् । तपसा ध्यानयुक्तेन तोषया-
मासुरादरात् ॥२८॥ गते वर्षशते काले परमात्मा गजाननः । वरदस्तान् ययौ देवान् बोधयामास तापसान् ॥२९॥ ततस्तैः
संस्तुतो देवः प्रार्थितो विघ्ननाशने । तथेति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंपान १२६
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । केनाऽपि विघ्नदैत्यस्य स्थानं न ज्ञायते सदा । कालस्य गणनाथस्तु ययौ तस्याऽश्रमं
प्रभुः ॥१॥ गुप्तरूपधरं विघ्नमंकुशेन समानयत् । तद् दृष्ट्वा परमाश्चर्यं देवाः सर्वे विसिस्मिरे ॥२॥ ततस्तं स महाकालः
प्रावमत्य गजाननम् । अंतर्धाय स्वमात्मानमग्निरूपो बभूव ह ॥३॥ त्रैलोक्यसंस्थितं ज्ञात्वा तेजस्तत्त्वसमाश्रितम् ।
विघ्नं गजाननः क्रुद्धो वायुः संहारकोऽभवत् ॥४॥ ततः कालः स्वयं दक्षोऽभवदाकाशतत्त्वगः । वायुस्थं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ४ अ. ५१ पान १२७
एवं स्तुत्वा महाविघ्नः प्रणनाम गजाननम् । तमुत्थाप्य जगादेदं वचनं सर्वदः परः ॥२६॥ श्रीगजानन उवाच । त्वया कृतं
मदीयं वै स्तोत्रं सर्वप्रदं भवेत् । कालस्य न भयं तेषां पठतां शृण्वतां सदा ॥२७॥ यद्यदिच्छति तत्तद्वै दास्यामि
स्तोत्रपाठतः । महायोगप्रदं चास्तु स्तोत्रं मत्प्रीतिवर्धनम् ॥२८॥ हंतुं त्वां क्रोधसंयुक्त आगतोऽहं न संशयः । वाञ्छितं
वृणु नो हन्मि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ४ अ. ५२ | पान १२८
न शक्यते ॥४९॥ इत्याद्या बहवो भेदा गजाननस्य सिद्धिदाः । तांश्च ज्ञातुं कोऽर्हति वर्णयितुं वा प्रजापते ॥५०॥ संक्षेपेण
मया तुभ्यं कथितं पापनाशनम् । चरितं विघ्नराजस्य मुक्तिमुक्तिफलप्रदम् ॥५१॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते विघ्नराजावतारवर्णनं नामैकपंचाशत्तमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । गजाननस्य क्षेत्रं मे वद कुत्र
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंखं. ४ अ. ५२ पान १२९
पूर्णं मया वक्तुं न शक्यते ॥१९॥ यात्रामात्रेण तत्रैव चतुर्विधफलं लभेत् । मरणे ब्रह्मभूतश्च नरो भवति निश्चितम् ॥२०॥
संक्षेपेण मया तुभ्यं कथितं क्षेत्रगं महत् । माहात्म्यं विस्तरेणैव कोऽपि नार्हति निश्चितम् ॥२१॥ इदं गजाननस्यापि चरितं
सर्वसिद्धिदम् । भविष्यति महाभाग सर्वसौख्यकरं तथा ॥२२॥ नानाख्यानसमायुक्तं कथितं ते प्रजापते । यः
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें