मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
by महर्षि मुद्गल
Source: निर्णय सागर प्रेस · निर्णय सागर प्रेस (origin)
About this granth
The Mudgala Purana (मुद्गल पुराण) is the principal upapurana of the Ganapatya tradition, the sect that worships Ganesha as the supreme deity; its narration is linked to the sage Mudgala. Together with the Ganesha Purana, it is the fullest source for the theology and legends of Ganesha. It is chiefly known for the stories of his eight incarnations (Vakratunda, Ekadanta, Mahodara, Gajanana, Lambodara, Vikata, Vighnaraja and Dhumravarna), each of whom subdues a demon standing for an inner fault such as envy, pride, delusion, greed, anger, desire, possessiveness or conceit.
This scan presents the Sanskrit text printed in traditional pothi layout, with the khanda and adhyaya marked on each leaf. It opens with invocations to Ganesha as lord of Svananda, and the narrative begins with Suta Lomaharshana coming to Shaunaka and the sages in the Naimisha forest. The purana is divided into nine khandas, each closing with a section on its merit.
Running to about 1,023 pages, it is useful for anyone studying Ganapatya thought and the Ganesha devotion of Maharashtra.
यहाँ पृष्ठ की सम्पूर्ण सामग्री का पंक्ति-दर-पंक्ति लिप्यन्तरण (Transcription) प्रस्तुत है:
पान ५४
कुलदेवस्त्वमंजसा ॥५५॥ इत्युक्त्वा मौनमास्थाय नमामो दंडवत् स्म तम् । उवाच नो गणाधीशो भक्तिभावनियंत्रितः
॥५६॥ विनायक उवाच । भवद्भिर्यत्कृतं स्तोत्रं मदीयं योगशांतिदम् । भविष्यति महाभागाः पठते शृण्वते सदा ॥ ५७ ॥
यं यमिच्छति तं तं वै दास्यामि स्तोत्रभावितः । भवंतो गाणपत्याश्च भविष्यथ यथा शिवः ॥ ५८ ॥ एवमुक्त्वा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. २६ पान ५५
मुद्गल उवाच । नारदस्य वचः श्रुत्वा विस्मितः स नृपोऽब्रवीत् । तं पुनस्तस्य भावज्ञो विनयेन समन्वितः ॥१२॥
प्राचीनबर्हिरुवाच । अहं कर्मपरं भावं जानामि मुनिसत्तम । कर्मणा लभते जंतुर्जानामि न च संशयः ॥१३॥ वद ज्ञानं
विभो किं तत् कर्म मूलनिकृंतनम् । दयया च दयासंधो मां तारय भवार्णवात् ॥ १४ ॥ तस्य तद्वचनं श्रुत्वा ज्ञात्वा
कर्मपरायणम् । कर्मणा शुद्धरूपं तमुवाच मुनिसत्तमः ॥१५॥ नारद उवाच । ज्ञानं योगमयं विद्धि योगोऽभेदात्मकः स्मृतः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inयहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति लिप्यंतरण (transcription) प्रस्तुत है:
पान ५६
शांतिप्रदायकः ॥३६॥ गणेशोऽयं महाराज समूहानां पतिः स्मृतः । समूहा ब्रह्मरूपाश्च ज्ञातव्या ज्ञानचक्षुषा ॥३७॥
तं भजस्व महीपाल हृदिस्थं गणनायकम् । बुद्धिप्रकाशकं पूर्णं बुद्धीशं शांतिदायकम् ॥३८॥ एवमुक्त्वा महायोगी
नारदो विरराम ह । सोऽपि श्रुत्वा प्रणम्यादानुवाच मुनिपुंगवम् ॥३९॥ प्राचीनबर्हिरुवाच । भो भो योगिन् दयासिंधो
तारितोऽहं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. २७ पान ५७
मार्गरोधनकारकाः ॥१२॥ तान् दृष्ट्वा क्रोधयुक्तास्ते ससृजुर्वह्निमुल्बणम् । तेन दग्धा वने वृक्षाः सकला यत्र तत्र च ॥१३॥
तेषु स्वल्पास्थितेष्वेव चंद्रस्तत्र समागतः । प्रगृह्य वृक्षजां कन्यां ददौ तेभ्यो यथाविधि ॥ १४ ॥ ऋषिवीर्यात्समुत्पन्ना-
ऽप्सरः सुद्रुमपालिता । प्रगृह्य तां शांतिमाप्ता अग्निं चक्रुः सुशांतिदम् ॥ १५
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inपान ५८
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । दक्षः प्राचेतसो राजा तताप तप उत्तमम् । शतवर्षैर्गणाध्यक्षः प्रसन्नो वरदोऽभवत् ॥ १ ॥
गणेशवरदानेन स सिद्धः ससृजे प्रजाः । देवा यक्षा मनुष्याश्च पिशाचाद्याः सहस्रशः ॥ २ ॥ नानाविधाः प्रजाः
सृष्ट्वाऽवर्धंत नयदा तदा। धरण्यां मैथुनीं सृष्टिं ससृजे स प्रजापतिः ॥३॥ दशाभवन् सहस्राणां पुत्रास्तस्मान् महौजसः ।
तानुवाच स्वयं दक्षः सृजध्वं तपसा युताः ॥४॥ तथेति तं प्रणम्यादौ गतास्तपस आदरात् । तेषां मार्गे
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inतेषां पुत्रैश्च पुत्रीभिरखिलं वर्धितं जगत् ॥२५॥ आपो ध्रुवोऽथ सोमश्च धन्यश्चैवानलोऽनिलः । प्रत्यूषोऽथ प्रभासश्च
वसवोऽष्टौ प्रकीर्तिताः ॥२६॥ अदितिश्च दितिः कद्रुररिष्टा सुरसा दनुः । सुरभिर्विनता चैव ताम्रा क्रोधवशा त्विरा ॥२७॥
मुनिः खशा च धर्मज्ञा तासां पुत्रान्निबोध वै । विवस्वानथ धाता च भगस्त्वष्टा तथांशकः ॥२८॥ वरुणाद्याश्च ये देवा
ते सर्वे चादितेः सुताः । दितेश्च सकला दैत्याः पुत्राः शास्त्रेषु संमताः ॥२९॥ तथैव च दनोः पुत्रास्ताराद्या
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । तृणबिंदोः सुता श्रेष्ठा नाम्नेलविलका स्मृता । पुलस्त्याय स राजर्षिर्ददौ विनयसंयुतः
॥१॥ तस्यां जज्ञे पुलस्त्याद्वै विश्रवा मुनिसत्तमः । तस्य पत्न्यश्चतस्रस्तु सुरूपा वामलोचनाः ॥२॥ पुष्पोत्कटा तथा
राका कैकसी देववर्णिनी । ज्येष्ठं वैश्रवणं तस्मात् सुषुवे देववर्णिनी ॥३॥ कैकस्यजनयत्पुत्रं रावणं लोकरावणम् ।
कुंभकर्णं शूर्पणखां पुत्रीं तं च बिभीषणम् ॥४॥ रावणः कुंभकर्णश्च प्रतापी च बिभीषणः । तपस्तेपुः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in[शीर्षक]
खं. २ अ. २९ | पान ६१
चकार परमादरात् ॥२५॥ वसिष्ठं योगशास्त्रज्ञं पितामहमनिंदितम् । स्वकर्मकुशलं शांतमपृच्छच्छांतिहेतवे ॥२६॥
पराशर उवाच । शिवोऽयं मोहहीनश्च नेति कर्त्ताव्ययः स्मृतः । कथं ब्रह्मणि निर्मोहे भवेन् मोहो भ्रमपदः ॥२७॥ मुद्गल उवाच ।
पराशरवचः श्रुत्वा वसिष्ठस्तमुवाच ह । हर्षयुक्तः स्वपौत्राय शांतियोगं सनातनम् ॥२८॥ वसिष्ठ उवाच । शृणु पुत्र
प्रवक्ष्यामि ब्रह्मणा कथितं च मे । योगं शांतिकरं तुभ्यं कथयामि विशेषतः ॥२९॥ अहं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inप्रादक्षिण्येन निर्गतः ॥४९॥ गत्वा वनान्तरं पुत्र अतपं तप उत्तमम् । एकाक्षरेण मंत्रेण ध्यात्वा जपपरायणः ॥५०॥
क्रमेण योगभूमीनां भ्रांतिं त्यक्त्वा महामुने । चिंतामणिः स्वयं साक्षादभवं शांतियोगधृक् ॥५१॥ तथाऽपि गणराजस्य
मंत्रध्यानं महात्मनः । दर्शनार्थं तपश्चोग्रमकार्षं च हितावहम् ॥५२॥ पूर्णे वर्षशते वै मां ययौ देवो गजाननः । प्रत्यक्षं
मूषकारूढो योगशांतिस्वरूपधृक् ॥५३॥
॥ ओमिति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. ३० पान ६३
महाभागो योगिवंद्यो बभूव ह ॥१७॥ वसिष्ठ उवाच । एतत्ते कथितं वत्स शांतियोगप्रदं शुभम् । ज्ञानं तेनैव मार्गेण गणेशं
भज भक्तितः ॥१८॥ एवमुक्तः प्रणम्यादौ मुनिं पौत्रः पराशरः । वने गत्वा चकाराऽसौ तपः परमदारुणम् ॥१९॥
पितामहेन यज्ज्ञानं कथितं योगदं महत् । तादृशं साधितं तेन योगभूमिक्रमेण च ॥२०॥ त्यक्त्वा भूमिं स्वयं योगी
गाणपत्यो बभूव ह। तस्य पुत्रत्वमापन्नो व्यासो विष्णुः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. ३१ पान ६४
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । कोऽसौ गजासुरो नाम्ना दैत्यः परमदारुणः । वद तस्य चरित्रं मे वधपर्यन्तमुत्तमम् ॥ १ ॥
यदर्थे गणराजोऽयं मुनिपुत्रोऽभवत्प्रभो । तन्न मुद्गल सामान्यं धन्यं जन्मासुरस्य च ॥२॥ सूत उवाच । दक्षस्य वचनं रम्यं
श्रुत्वा योगींद्रसत्तमः । जगाद सकलं तस्य चेष्टितं दैत्यपस्य वै ॥ ३ ॥ मुद्गल उवाच । शृणु दक्ष पुरावृत्तमितिहासं वदामि
तम् । पापप्रशमनं पूर्णं भुक्तिमुक्तिफलप्रदम् ॥४॥ महिषासुरनाशं च चकार जगदंबिका । तस्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. ३१ पान ६५
समेन सः ॥२६॥ त्रिशूलेन हतः सोऽपि न चचाल सुराधिपः । वरदानप्रभावेण शस्त्राणि व्यर्थतां ययुः ॥२७॥ सहसागत्य
दैत्येशो धृत्वा पादं प्रहस्य वै । आमयित्वा महेशानं चिक्षेप रणमूर्धनि ॥२८ ॥ ततो देवगणाः सर्वे पलायनपरायणाः ।
ययुर्दश दिशो रक्षो दैत्यसंत्रासतापिताः ॥२९॥ दैत्योऽपि शिवलोकं तं दैत्यैः सह समाययौ । स्थापयामास देवानां पदेषु
श्रेष्ठदानवान् ॥३०॥ विकुंठादिपदेष्वेते स्थितास्तेन सुमानिताः । स्वर्गभोगकराः सर्वे कृता दैत्याः सुरारिणा ॥ ३१ ॥ कैलासे
संहरं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inपालकाय त्रिभिर्हीनगुणेशाय नमो नमः ॥५३॥ वक्रतुंडाय देवाय लंबोदरधराय च। सर्वेषां हृदि संस्थाय विनायक
नमोऽस्तु ते ॥५४॥ यं स्तोतुं न समर्थाश्च वेदाः सांगाः कदाचन । वयं तत्र च के देव वेदज्ञैर्ज्ञानधरा यतः ॥५५॥ एवं स्तुत्वा
गणेशानं पेतुस्ते तस्य पादयोः । धृत्वा मनसि तद्रूपं भक्तिभावेन यंत्रिताः ॥५६॥ पुनरुत्थाय ते सर्वे तमूचुर्भयविह्वलाः ।
कृतांजलिपुटा देवं गणेशं सर्वनायकम् ॥५७॥ यदि तुष्टोऽसि देवेश जहि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. ३२ पान ६७
सर्वैर्महाबलपराक्रमैः॥५॥ धृत्वा स सकलान् देवान् खलः सर्षिगणांस्तदा । तान् हंतुं शस्त्रमादत्ते तावत्तैर्विघ्नपः स्मृतः ॥६॥
स्मृतमात्रो गणाध्यक्षो बुद्धिभेदं चकार ह । दैत्यस्य तेन दैत्येन मानसे धारितं महत् ॥७॥ ममाधीना इमे विप्रा
देवाश्चैव न संशयः । एषां दंडः प्रकर्तव्यो येन सत्वं गमिष्यति ॥८॥ पश्चात्कियति कालेऽहं हनिष्यामि बलात्किल ।
एवं निश्चितसंकल्पस्तानुवाच गजासुरः ॥९॥ गजासुर उवाच । देवा मुनिगणाः सर्वे वचः शृण्वंतु मे
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inपान ६८
श्रवसि स्वयम् । पीडयित्वा शिरोभिस्तच्चरणे ध्वनिमाचरत् ॥३०॥ मृदुर्मधुररूपः स शब्दश्च शिरसाऽभवत् । श्रुत्वा
गजाननो हृष्टो बभूव परमं तदा ॥३१॥ ततो विष्ण्वादिभिर्देवैर्भृग्वादिप्रमुखैस्तथा । मुनिभिश्च कृतं दक्ष ततोऽत्यंतं
मुमोद सः ॥३२॥ भूत्वा तु मूषकारूढो चतुरायुधभूषितः । गजासुरवधार्थाय ययौ गणपतिः स्वयम् ॥३३॥ महिषाख्ये
पुरे गत्वा सिंहनादं चकार सः । तेन भ्रांताश्चासुरास्ते
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. ३३ | पान ६९
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । समागतं महादैत्यं दृष्ट्वा देवा भयातुराः । गजाननं निजं नाथं ययुर्वृत्तांतमीरितुम् ॥ १ ॥
स वृत्तांतं देवमुखात् श्रुत्वा क्रोधसमन्वितः । परशुं पाशमुग्रं च गदां धृत्वा ययौ तदा ॥ २ ॥ मूषकारूढमाद्यं तं पुरुषं
दैत्यनायकः । दृष्ट्वा गजाननं दीप्तमुवाच बलगर्वितः ॥ ३ ॥ गजासुर उवाच । किमर्थं रणभूमौ त्वमागतो ब्राह्मणाधम ।
तपः कार्यं त्वया नित्यं कथं क्षात्रं समाश्रितः ॥४॥ ब्रह्मादयो जिता येन तेन सार्धं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inमया प्राप्तो गजाननः ॥२५॥ तं प्रणम्य महाभक्त्या दैत्येशो वरकांक्षया । जगाद गणनाथं वै भावभावितमादरात् ॥२६॥
ब्रह्म ब्रह्मेश जहि मां दासं ते गणनायक । वरं प्रयच्छ मे त्वेनं नमामि त्वां पुनः पुनः ॥ २७ ॥ न संसारसुखे
चित्तं मदीयं ते प्रदर्शनात् । त्वया हतो भविष्यामि ब्रह्मभूतो न संशयः ॥२८॥ प्रार्थयंतं महादैत्यमंकुशेन जघान तम् ।
गणेशः सोऽपि सायुज्यं तस्य प्राप्तः प्रजापते ॥ २९ ॥ शंकराद्याः सुरास्तत्र मुनयो मोहसंयुताः । न विदुश्चेष्टितं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं २ अ. ३४ पान ७१
योगरूपधरं दृष्ट्वा कालमाक्रमतं सदा ॥२०॥ एवमुक्त्वा हृदिस्थोऽसौ गणेशोऽन्तर्दधे ततः । कृतवन्तौ महाभागौ तथा
दक्षसुयोगिनौ ॥२१॥ अचला स्थापिता मूर्तिः सिद्धिदा साऽभवत्परा । दर्शनान् मोक्षदा दक्ष सकामानां प्रकामदा ॥२२॥
एतत्ते कथितं सर्वं गजासुरवधाश्रितम् । चरितं गणनाथस्य सर्वपापहरं शुभम् ॥ २३ ॥ यः शृणोति नरो भक्त्या
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inभागवतं तथा । भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं च वामनम् ॥१७॥ आग्नेयं वायवं मात्स्यं वाराहं कौर्ममेव च । लैङ्गं गारुडकं
स्कांदं ब्रह्मांडं च प्रजापते ॥१८॥ अष्टादश पुराणानि कथितानि विशेषतः । तथैवोपपुराणानि कथयामि प्रजापते ॥१९॥
गाणेशं नारदीयं च नारसिंहं च कापिलम् । नांदिकेयं च वारुण्यं दौर्वाससमथांबिकम् ॥२०॥ कालिकेयं च
मारीचंमौशनसं च भार्गवम् । सानत्कुमारकं चैव कौमारं च प्रजापते ॥२१॥ माहेश्वरं च सौरं वै पाराशर्यं च मौद्गलम् ।
अष्टादश
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in[शीर्षक: खं. २ अ. ३५ | पान ७३]
प्रकीर्तितम् ॥४२॥ सगुणं निर्गुणं ब्रह्म मूर्तिरूपधरं मुने । त्रयाणां योगरूपं वै मुद्गलेन प्रकाशितम् ॥४३॥ योगिनः
शुकमुख्यास्तं प्रभजंति यथातथम् । योगेनाभेदसंज्ञेन वर्णाश्रमविवर्जिताः ॥४४॥ तस्मादादौ गणेशस्य पूजनं सर्वसंमतम् ।
अंते सोऽपि न संदेहो वेदांतेषु विशेषतः ॥४५॥ य आदिः प्रलयांते स तिष्ठेद्वै सर्वसंमतम् । तस्मादाद्यंतभागेषु पुराणेषु
गणेश्वरः ॥४६॥ पंचमं मध्यरूपं च गणेशस्य महात्मनः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in