मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
by महर्षि मुद्गल
Source: निर्णय सागर प्रेस · निर्णय सागर प्रेस (origin)
About this granth
The Mudgala Purana (मुद्गल पुराण) is the principal upapurana of the Ganapatya tradition, the sect that worships Ganesha as the supreme deity; its narration is linked to the sage Mudgala. Together with the Ganesha Purana, it is the fullest source for the theology and legends of Ganesha. It is chiefly known for the stories of his eight incarnations (Vakratunda, Ekadanta, Mahodara, Gajanana, Lambodara, Vikata, Vighnaraja and Dhumravarna), each of whom subdues a demon standing for an inner fault such as envy, pride, delusion, greed, anger, desire, possessiveness or conceit.
This scan presents the Sanskrit text printed in traditional pothi layout, with the khanda and adhyaya marked on each leaf. It opens with invocations to Ganesha as lord of Svananda, and the narrative begins with Suta Lomaharshana coming to Shaunaka and the sages in the Naimisha forest. The purana is divided into nine khandas, each closing with a section on its merit.
Running to about 1,023 pages, it is useful for anyone studying Ganapatya thought and the Ganesha devotion of Maharashtra.
पान ७४
एते तदा योगः सुसिद्ध्यति ॥५॥ अन्यथा सहसा कृत्वा योगभ्रष्टो नरो भवेत् । अथवा भ्रष्टभावेन नारकी धर्मनाशतः ॥६॥
अतो मनोजयार्थं त्वं क्रममार्गं समाचर । अंते योगींद्रसंसेव्यो भविष्यसि न संशयः ॥७॥ सहसा मा चर त्वं वै त्यागं
परमदुस्तरम् । मनश्चंचलभावेन पतिष्यसि न संशयः ॥८॥ इत्याद्यैर्विविधैर्वाक्यैः सुतो व्यासेन बोधितः । संगस्यैव
भयाद्योगी न बुबोध शुको मुने ॥९॥ व्यासोऽपि भावि च ज्ञात्वा ययौ स्वस्याश्रमं स्वयम् । गणेशं मनसा ध्यात्वा
संस्थितश्चिंतयान्वितः ॥१०॥ एतस्मिन्नंतरे तत्र ब्रह्मा स्वयमुपागतः । तं प्रणम्य शुकस्याऽपि वृत्तांतमवदन्मुनिः ॥११॥
ततस्तं प्रत्युवाचाथ ब्रह्मा चिंतां तु मा कुरु । शुको न भविता शंभुर्भ्रष्टो वै नात्र संशयः ॥१२॥ एवमाश्वास्य तं व्यासं
तस्य पूजां प्रगृह्य सः । ययौ स्वभवनं ब्रह्मा व्यासो वै हर्षितोऽभवत् ॥१३॥ शुकः स नर्मदातीरे संस्थितो योगसेवया ।
सर्वत्र ब्रह्मभावेनाचिंतयद्ब्रह्म शाश्वतम् ॥१४॥ संप्रज्ञातोऽष्टधा तेन साधितो वेदमार्गतः । असंप्रज्ञातयोगेषु संस्थितो
योगिसत्तमः ॥१५॥ शुक्लेश्वरस्तत्र साक्षाच्छंकरस्तिष्ठति प्रभुः । शिवेन हृदि संस्थेन बोधितो बादरायणिः ॥१६॥ गुरुणा
तेन हीनोऽयं शुको योगं समभ्यसत् । योगभूमिक्रमेणैवासाधयद्योगमुत्तमम् ॥१७॥ स्वत उत्थानकं ब्रह्म साधयित्वा
विधानतः । प्राप्तं परत उत्थानं तेन सांख्यं महात्मना ॥१८॥ तत्र ब्रह्मणि संसक्तो योगाभेदेन केवले । बभ्राम पृथिवीं
सर्वां विदेहोऽसौ महामुनिः ॥१९॥ ब्रह्म सांख्यं निराधारं दृष्ट्वा संशयवान्भूत । तदर्थं जनकं सोऽपि ययौ हर्षसमन्वितम् ॥२०॥
जनकेन तथा सांख्यं विदेहं कथितं परम् । ततः संशयहीनश्च जातो वैयासकिः प्रभुः ॥२१॥ सांख्ये बोधस्य नाशः
स्यात्तत् दृष्ट्वा विस्मितो मुनिः । विचारमकरोचित्ते योगभावेन भावितः ॥२२॥ बोधेनोत्थानकं जंतोर्जायते नात्र संशयः ।
बोधहीनेन योगेनोत्थानं नास्य भवेत् कदा ॥२३॥ ब्रह्म योगमयं प्रोक्तं तत्रोत्थानविहीनता । उत्थानं विद्यते नैव ब्रह्माकारं
प्रवर्तते ॥२४॥ सांख्यं ब्रह्म विदेहत्वान्मत्तं चोपाधिवर्जितम् । न मुख्यं शांतिदं प्रोक्तं योगींद्रैर्योगचिंतकैः ॥२५॥ व्यासेन
वेदशाखाश्च कृता भिन्ना महात्मना । पुराणानि विभिन्नानि कृतानि समवेदिना ॥२६॥ अहं तं शरणं यामि तातं शांत्यर्थ-
मादरात् । स एव सर्ववित् साक्षाच्छांतिदाता भविष्यति ॥२७॥ विचार्य मतिमानेवं शुको हर्षसमन्वितः । आगत्य निकटे
तस्य तं ननाम कृतांजलिः ॥२८॥ तत्र व्यासोऽपि योगिभ्यः प्रावद्यॊगमुत्तमम् । तं श्रुत्वा हर्षितो भूत्वा शुको वच
उवाच तम् ॥२९॥ स्वामिञ्छृणु मदीयं वै प्रश्नं योगप्रसिद्धये । शांतियोगस्य दाता कः कीदृशो योग उत्तमः ॥३०॥
खं. २ अ. ३६ | पान ७५
वद मां करुणासिंधो योगिभ्यो योगदायक । योगींद्रस्त्वं न संदेहो आंतोऽहं अमितोऽभवम् ॥३१॥ शुकस्य वचनं श्रुत्वा
तं व्यासः प्रत्युवाच ह । शृणुष्व त्वं महाभाग योगं शांतिप्रदायकम् ॥३२॥ गणेशः शांतिरूपश्च योगशांतिप्रदायकः ।
तं भजस्व महायोगिन् तेन शांतो भविष्यसि ॥३३॥ ब्रह्मणा बोधितोऽहं तं भजामि गणनायकम् । तेन सर्वज्ञतां यातो
योगींद्रैः सेवितोऽभवम् ॥३४॥ गणो धातुः समूहे च कथितो नात्र संशयः । बाह्यांतरादिसंयोगे समूहो भवति
प्रभो ॥३५॥ ब्रह्मरूपाः समूहाश्च तेषां स्वामी गणेश्वरः । संयोगायोगयोगेन प्राप्यते योगिभिः परः ॥३६॥ एवमुक्त्वा
गणेशस्य वेदपादस्तवं ददौ । रचितं विष्णुना पूर्वं शांतियोगप्रदायकम् ॥३७॥ येन विष्णुः सुशांतोऽभूदिहलोके
सुखात्मकः । जातः पालकभावेन भगवन्नामधारकः ॥३८॥ प्रगृह्य साधयामास शुकस्तं परमाद्भुतम् । गाणपत्यो बभूवाथ
योगिवंद्यो महाद्युतिः ॥३९॥ नित्यं गणेशमाहात्म्यं वेदपादस्तवं शुकः । जपति स्नेहभावेन दिवानक्तमखंडितम् ॥४०॥
एतच्छुकस्य माहात्म्यं कथितं ते प्रजापते । पठते शृण्वते सर्वसुखदं प्रभवेत् परम् ॥४१॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते शुकोपाख्यानं नाम पंचत्रिंशोऽध्यायः ॥
➔ ❖ ❖ ❖ ⬅
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । त्रयः पुत्रा अंगिरसो बभूवुर्ब्रह्मवादिनः । गाणपत्या महाभागाः सर्वज्ञाः सुखदायिनः ॥१॥
उतथ्यः प्रथमः प्रोक्तो द्वितीयस्तु बृहस्पतिः । संवर्तश्च तृतीयोऽभूद्योगशास्त्रपरायणः ॥ २ ॥ शिक्षितोंगिरसा पुत्र उतथ्यः
स्वल्पकालतः । ब्रह्मभूतोऽभवत्सद्यो गाणपत्यो विशेषवित् ॥३॥ बृहस्पतिः क्रमेणैव योगभूमिविशारदः । भूमीनां साधने
सक्तोऽभवच्छैवः स्वभावतः ॥४॥ तत्र स्वाधीनतां दृष्ट्वा शांत्यर्थं शंकरं ययौ । शिवेन गणराजस्य मंत्रो दत्तः षडक्षरः ॥५॥
शांतियोगस्य रूपं यत् कथितं तत् सविस्तरात् । शिवं नत्वा वनं सोऽपि ययौ तप्तबृहस्पतिः ॥६॥ स नित्यं गणपं ध्यात्वा-
ऽपूजयत्तं विधानतः । दर्शनार्थं गणेशस्य लालसाभून्महामतेः ॥७॥ योगमार्गेण योगी स जातः शांतिधरः स्वयम् ।
गाणपत्यत्वमापन्नः शिवतुल्यो बृहस्पतिः ॥८॥ तुष्टस्तदा गणेशानो ययौ तस्याश्रमं प्रभुः । स्तुतः संपूजितस्तेन तुतोष
गणनायकः ॥९॥ अखंडभक्तिभावं स ददौ तस्मै महात्मने । अंतर्धाय स्वमात्मानं गणेशः स्वालयं ययौ ॥ १०॥ प्रकथ्यते
पान ७६
महायोगी तदारभ्य बृहस्पतिः । ब्रह्मिष्ठानामयं श्रेष्ठो विभूतिपद्मागतः ॥११॥ संवर्तः प्रथमं योगी द्वेषितो वै विशेषतः ।
यत्र तत्र विभागार्थं गुरुणा भ्रातृभावतः ॥१२॥ स संसारं परित्यज्य नग्न उन्मत्तवत् स्वयम् । सहजं ब्रह्म काशीस्थो ध्यायद्वै
शांकरं सदा ॥१३॥ ततः कदाचिद्राजेंद्रो मरुत्तो यज्ञकाम्यया । उपाध्यायं ययौ राजा स्वर्गस्थं तं बृहस्पतिः ॥१४॥
तद्वृत्तांतं समादाय देवेंद्रः प्राब्रवीद् गुरुम् । मत्स्पर्धिनं मरुत्तं मा यजस्व त्वं बृहस्पते ॥१५॥ देवानां वा मनुष्याणामेकपक्षधरो
भव । तस्यैव वचसा राजा त्यक्तः स गुरुणा महान् ॥१६॥ मरुत्तं क्षुभितं ज्ञात्वा तं ययौ नारदो मुनिः । काश्यां संवर्तकं
राजन्नानीय कुरु सद्गुरुम् ॥१७॥ जडोन्मत्तस्वभावेन स तिष्ठति मुनीश्वरः । प्रातःकाले प्रणामार्थं शंकरस्य च गच्छति ॥१८॥
शवं तत्र समागृह्य तिष्ठ त्वं द्वारि भूमिपम् । विमुखश्चात्महीनं तं दृष्ट्वा गच्छति विप्रपः ॥१९॥ एवमुक्त्वा गतो योगी
नारदः सोऽपि हर्षितः । तथा चकार धर्मज्ञः काश्यां गत्वा नराधिपः ॥ २० ॥ दृष्ट्वा नग्नं ननामाऽसौ स्वगुरुं तत्र भूमिपः ।
छलित्वेष्ट्या दक्ष न मुमोच तथाऽपि तम् ॥२१॥ संवर्तस्तस्य वृत्तांतं श्रुत्वा स्वयमुपागतः । यज्ञार्थं तस्य राजर्षेरुपाध्यायो
बभूव ह । जीवेन तस्य वृत्तांतो ज्ञातस्तेनापि भूमिपः ॥ २२ ॥ छलितोऽहं भविष्यामि गुरुस्ते त्यज मेऽनुजम् ॥ २३ ॥
मरुत्तेन त्वदीयं वै न गृहीतं वचस्तदा । गुरुणा प्रेरितो देव इंद्रो वज्रं समाक्षिपत् ॥ २४ ॥ संवर्तेन च तद्वज्रं कृतं
मोघं समाधिना । शरणं तद्व्यादिंद्रो ययौ देवगणैः स तम् ॥२५॥ ततो देवगणैस्तेन मुनिभिः संस्कृतो मखः ।
समाप्य यज्ञमेतस्य संवर्तः स्वस्थलं ययौ ॥२६॥ समाधितत्परत्वेन ज्ञातं तेनापि शांभवम् । स्वाधीनं तद्भवेन्मुख्यं
ब्रह्मशांतिप्रदं कदा ॥२७॥ ययावंगिरसं प्रष्टुं तेन योगः प्रकाशितः । शांतियोगमयः साक्षाद्गणेशः परमाद्भुतः ॥२८॥
संवर्तेन तथा दक्ष साधितो योग उत्तमः । शांतिरूपधरो योगी संवर्तः प्रबभूव ह ॥२९॥ आगत्य संस्थितः सोऽपि
क्षेत्रे स्वानंदकूपिणि । मयूरेशं सदा तत्र सिषेवे भक्तितत्परः ॥३०॥ तेषां पुत्रा महाभागा जाताः सर्वज्ञसंमताः ।
क्रमेणांते च ते सर्वे गाणपत्या बभूविरे ॥३१॥ प्रोक्ता दीर्घतमस्कायास्तेषां पुत्रादिभिस्तथा । गणेशो मनसा
भक्त्याऽखंडभावेन संधृतः ॥३२॥ गौतमस्तत्र मुख्यश्च शांतिमार्गपरायणः । विख्यातो मुनिवर्गेषु स बभूव प्रजापते ॥३३॥
कदाचित् पृथिवीमध्ये ह्यनावृष्टिः सुदारुणा । बभूव द्वादशाब्दान् या तया संपीड़ितं जगत् ॥३४॥ पीडां दृष्ट्वा जनानां
स दयायुक्तो बभूव ह । गौतमं शंकरं देवं वृष्टिहेतोर्नुनोद सः ॥३५॥ ततस्तं शंकरः साक्षादवोचद् भक्तमुत्तमम् ।
खं. २ अ. ३६ पान ७७
अनावृष्टिः कृता मुख्या कालेन ब्रह्मरूपिणा ॥३६॥ चालितुं न समर्थस्तं कोऽपि ब्रह्मांडमंडले । अतोभिमानमुत्सृज्य तिष्ठ
त्वं मुनिसत्तम ॥३७॥ शिवस्य वचनं श्रुत्वा दुःखितस्तमुवाच ह । गौतमो मुनिवर्यश्च विस्मितोऽभूत् स मानसे ॥३८॥
गौतम उवाच । किमिदं नाथ वदसि त्वमीशः सर्वसंमतः । कुरु मे वाञ्छितं नोचेद्देहत्यागं करोम्यहम् ॥३९॥ गौतमस्याभिमानं
तं दृष्ट्वा शंभुः सुविस्मितः । भावं ज्ञात्वा स्वयं प्राह गौतमं मुनिसत्तमम् ॥४०॥ शृणु गौतम माहात्म्यं देहं त्यजसि वै वृथा ।
विनायकं भजस्व त्वं तेन सर्वं भविष्यति ॥४१॥ नायकेन विहीनोऽयं सर्वेषां स विशेषतः । नायकस्तेन नामाऽभूद्विनायक
इति स्फुटम् ॥४२॥ वयं तदाज्ञया सर्वे वर्तेमहि न संशयः । गमनं वेदमार्गेणास्माकं सर्वत्र संमतम् ॥ ४३ ॥ उत्पथे
गमनं नश्चेत्तदा विघ्नं करोति सः । अतस्त्वं विघ्नराजं च शरणं गच्छ गौतम ॥४४॥ एवमुक्त्वा महादेवो ददौ
तस्मै षडक्षरम् । मंत्रराजं गणेशस्य विधानं तस्य चोत्तमम् ॥४५॥ गौतमस्तं प्रणम्यादौ तपसे वनमाययौ ।
समाधिना महोग्रेण तोषयामास विघ्नपम् ॥४६॥ एवं वर्षेण तं ढुंढिर्ययौ दातुं वरं प्रभुः । तं दृष्ट्वा हर्षितोऽत्यंतं
ननाम मुनिसत्तमः ॥४७॥ अथर्वशिरसा तेन संस्तुतो गणनायकः । प्रसन्नस्तमुवाचैवं वचनं ब्रूहि वाञ्छितम् ॥४८॥
स वव्रे यदि तुष्टोऽसि भक्तिं देहि दृढां त्वयि । गाणपत्यं च संपूर्णं मां कुरुष्व गजानन ॥४९॥ अनावृष्टिभवं
दुःखं जहि देव विनायक । एतमेव वरं याचे वाञ्छितं नात्र संशयः ॥५०॥ तमुवाच गणाध्यक्षस्त्वयोक्तं मुनिसत्तम ।
तवाश्रमेऽधुना सर्वं भविष्यति न संशयः ॥५१॥ सायंकाले च बीजेभ्यः क्षिप्तेभ्यो भूमिमंडले । सस्यानां वै समुत्पत्तिः
प्रातःकाले भविष्यति ॥५२॥ तैर्धान्यैर्नित्यमेव त्वं पोषयस्व महामुनीन् । समागतान् तथाभूतान् समये मुनिसत्तम ॥५३॥
नित्यं प्रमुदिताः सर्वे भविष्यंति तवाश्रमे । समागता नराः सर्वेऽनावृष्टेर्दुःखवर्जिताः ॥५४॥ मदीया भक्तिरचला
भविष्यति तथा परा । योगशांतिधरः पूर्णो भावी त्वं मत्प्रसादतः ॥५५॥ एवमुक्त्वा गणेशानो गतः स्वानंदके पुरे ।
गौतमो गाणपत्यश्च तद्दिनात् संबभूव ह ॥५६॥ स मुनिः स्वाश्रमे गत्वा चकार गणपोदितम् । अनावृष्टिभवं दुःखं जनानां
स निराकरोत् ॥५७॥ तत्रागतान् स्वयं विप्रान्नानादिग्भ्यः प्रजापते । तान् सर्वान् पोषयामास धान्यैर्नित्यसमुद्भवैः ॥५८॥
क्रमेण द्वादशाब्दास्ते गता वै दुस्तरा मुने । तत्र सर्वत्र संजाता वृष्टिर्वै दुःखहारिणी ॥५९॥ ततो मुनिगणैः
सर्वैर्विपरीतं विचारितम् । गौतमेन वयं सर्वे पोषिता नात्र संशयः ॥ ६०॥ सर्वेषु गौतमो धन्यस्तदुत्कर्षो भविष्यति ।
खं. २ अ. ३६ पान ७८
☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸
अत उत्कर्षनाशार्थं कर्तव्यं किं द्विजोत्तमाः ॥६१॥ ततस्तैर्मायया गौश्च कृत्वा गौतमसंनिधौ । प्रेषिता सा हुतद्रव्यं
भक्षयामास वै मुनेः ॥६२॥ गौतमेन स्वहस्तेन ताडिता मृदुभावतः । स्पृष्टमात्रा ममाराऽसौ पतिता गौर्धरातले ॥६३॥
ततो हा हा कृतं सर्वैर्ब्राह्मणैश्छद्मदर्शिभिः । गौतमस्याश्रमे सर्वैरापृच्छ्य गमनं कृतम् ॥६४॥ गौतमेन तपः कृत्वा
प्रार्थिता स्वर्गवाहिनी । त्र्यंबकस्य शिरःसंस्था प्रादुर्भूता च तत्क्षणात् ॥ ६५॥ तत्र स्नानेन सद्यो वै पवित्रो
गौतमोऽभवत् । गोवधादिमहापापं गच्छति स्नानमात्रतः ॥६६॥ ततः कदाचिद्विप्रेन्द्रो गौतमो ध्यानमाश्रितः ।
विचारमकरोञ्चित्ते ज्ञात्वा तेषां विचेष्टितम् ॥६७॥ छलनार्थं द्विजैः सर्वैर्निर्मिता गौश्च मायया । ततः कोपपरीतांगः शशाप
ब्राह्मणान् मुनिः ॥६८॥ वेदबाह्या भविष्यंति कृतघ्ना ये महर्षयः । मदीयच्छलनेनैव पातकेन न संशयः ॥६९॥ ततस्ते
शापयोगेन भ्रांता जाता महर्षयः । ज्ञात्वाऽकस्माद् द्विजाः शापं संभीता अभवंस्ततः ॥७०॥ शंकरं शरणं सर्वे
ययुर्देवं महर्षयः । शंकरः स्मरणं चक्रे विष्णोश्चैव सुविस्मितः ॥७१॥ समागतं महाविष्णुं पप्रच्छ द्विजसौख्यदम् ।
मार्गं ततो हरिः शंभुमुवाच वचनं हितम् ॥७२॥ विष्णुरुवाच । वेदबाह्याद्विजानां यत्कर्म सर्वं निरर्थकम् । न गतिः कुत्र
देहांते तेषां शंभो न संशयः ॥७३॥ अतस्तेषां हितार्थाय ग्रंथाः कार्याः सदाशिव । मोहदाश्च जनानां ते भजतां नरकप्रदाः
॥७४॥ ततः शिवेन वामं च तंत्रं तत्र प्रकाशितम् । विष्णुना बौद्धशास्त्रं वै रचितं मोहदायकम् ॥७५॥ ऋषिभिश्च तथान्यानि
शास्त्राणि रचितानि वै । कापालादीनि भो दक्ष मोहदानि विशेषतः ॥७६॥ फलानि तत्र दत्तानि भजतां शंभुनामुना ।
विष्णुना ब्राह्मणानां च कृतघ्नानां हिताय वै ॥७७॥ नरा ये तानि सेवन्ते नारकाः संभवंति ते । इहामुत्र विहीनाश्च
शास्त्राधारप्रवर्तिनः ॥७८॥ जनानां भजतां सर्वे पापांशास्ते महर्षयः । स्वल्पकालेन नष्टाः स्युः कलौ जन्मधरास्ततः ॥७९॥
तत्र ते पापकम्माणो भविष्यंति विशेषतः । तेषु मार्गेषु संसक्ताः प्रपतिष्यंति रौरवे ॥८०॥ पुनः शुद्धा भविष्यंति नराः
कृतयुगे प्रभो । तत्रैव योगमार्गेण गमिष्यंत्यपुनर्भवम् ॥८१॥ एवं तेषां हितार्थाय शिवाद्यै रचितानि वै । शास्त्राणि
चतुरैस्तानि न सेव्यानि कदाचन ॥८२॥ वेदाधारयुतं शास्त्रं तदेव सुखदं परम् । तेन हीनं च यच्छास्त्रं मोहकं नरकप्रदम् ॥८३॥
न सेव्यं मानवैः सर्वैः कलिदोषविवर्जितैः । युक्तं गौतमशापेन महाभयंकरं मतम् ॥८४॥ कलौ पापा विभूमानो
☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸
भविष्यंति महर्षयः । नरस्तैः कथितं शास्त्रं नवामादिकमाचरेत् ॥८५॥ इदं गौतममाहात्म्यं यः शृणोति नरो भवेत् ।
पठेद्वा मलहीनः सन्निहामुत्र सुखी परम् ॥ ८६ ॥
॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते गौतमचरितं नाम षट्त्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । दितेः पुत्रौ महावीर्यौ कश्यपात् संबभूवतुः । संध्यायामृतुदानेन दैत्यौ परमदारुणौ ॥१॥
ताभ्यां तप्तं तपो घोरं दिव्यवर्षसहस्रकम् । तयोस्तपःप्रभावेण ब्रह्मा तु वरदोऽभवत् ॥२॥ मरणं सर्वभूतेभ्यो न भवेदीप्सितं
वरम् । ताभ्यां दत्त्वा स्वयं ब्रह्मा स्वस्थानमगमत् पुनः ॥३॥ सायंकालं च शुष्कार्द्रं विस्मरंतौ महासुरौ । तदेव मरणस्थानं
तयोर्जातं प्रजापते ॥४॥ वरप्रभावतस्ताभ्यां सर्वं त्रिभुवनं जितम् । हिरण्यकशिपुर्ज्येष्ठश्चक्रे वै राज्यमुत्तमम् ॥५॥ कर्ममार्गं
द्विषन् सर्वं देवब्राह्मणदुःखदः । राज्यं चक्रे सुदुष्टात्मा परस्त्रीमद्यलालसः ॥६॥ उपोषणेन संयुक्ता देवा इंद्रपुरोगमाः ।
ब्रह्माणं ते पुरस्कृत्य शरण्यं विष्णुमाययुः ॥७॥ ततश्च विष्णुना तत्र धृतं रूपं भयप्रदम् । नारसिंहं महोग्रं वै सर्वेभ्यो
भयदायकम् ॥८॥ आययौ दैत्यराजस्य नगरे क्रोधसंयुतः । शब्दैः स भुवनं घोरैर्नादयामास तत्क्षणात् ॥९॥ भीता दैत्यगणाः
सर्वे शशंसुस्तस्य चेष्टितम् । राज्ञे श्रुत्वा वचस्तेषां हिरण्यकशिपुः स्वयम् ॥१०॥ दैत्यैः समावृतो योद्धुं ययौ तेन महाबलः ।
क्रूरः समागतः सोऽपि नृसिंहाकृतिधारकः ॥११॥ मेरुमंदरसंकाशं वपुर्यस्य विराजितम् । तेजसा वह्निसंकाशो योद्धुकामो
सुरैः प्रभो ॥१२॥ प्रह्लादप्रमुखैः पुत्रैः संवृतो दैत्यसत्तमः । नृसिंहं योधयामास शस्त्रास्त्रैर्मर्मभेदिभिः ॥१३॥ नृसिंहेन
हता दैत्या बहवो रणमंडले । शोणितौघवहा नद्यः संप्रवृत्ता दिशो दश ॥१४॥ खङ्गादिभिर्महास्त्रैश्च नखैर्युक्तः स
देवराट् । नृसिंहो युयुधे तत्र प्रलयाग्निसमो बभौ ॥१५॥ तं दृष्ट्वा पूर्वसंस्कारात् प्रह्लादस्य महात्मनः । वैष्णवं ज्ञानमत्यंतं
प्रादुर्भूतं विशेषतः ॥१६॥ एतस्मिन्नंतरे तत्र गदया ताडितः प्रभुः । नृसिंहो दैत्यराजेन पतितो मूर्च्छया भृशम् ॥१७॥
द्विमुहूर्तात् सुसंभूतः स्वस्थदेहो महाबलः । अशक्तं मानयामासात्मानं तेन पलायत ॥१८॥ हिरण्यकशिपुः सर्वैर्विजयी
स्वगृहं ययौ । चकार विष्णुभक्तिं वै प्रह्लादो भावसंयुतः ॥१९॥ पितरं बोधयामास विष्णुमानंदरूपिणम् । शरणं याहि
सर्वत्र समं दैत्यपतेऽधुना ॥२०॥ पुत्रस्य वचनं श्रुत्वा क्रोधाविष्टो महासुरः । मुष्टिना ताडयामास शत्रुं मे किं
समाश्रितः ॥२१॥ तदाऽपि दृढभावेन न चचाल स वैष्णवः । प्रह्लादश्चाधिकां भक्तिं चकार प्रेमसंयुतः ॥२२॥ ततो जले
स्थले ह्यग्नौ हिरण्यकशिपुः स्वयम् । विषैः सोऽपीडयत्पुत्रं निष्फलो विष्णुना कृतः ॥२३॥ शस्त्रैरस्त्रादिभिः पुत्रमारणाय
समुद्यतः । प्रह्लादो न ममाराऽसौ रक्षितो विष्णुना सदा ॥२४॥ एवं पितुः सुतस्याऽपि द्वंद्वे प्राप्ते प्रजापते । काले क्रांते तु
किंचिद्वै नृसिंहचरितं शृणु ॥२५॥ वैकुंठे सुखमासीनं नारायणमनामयम् । ययौ तत्र नृसिंहस्तं प्रणनाम भयातुरः ॥२६॥
वृत्तांतं नृहरेस्तस्य श्रुत्वा सोऽपि सुविस्मितः । कारणं चिंतयामास विचारेण जनार्दनः ॥२७॥ गणेशं वै विस्मृतवान् ततो
दैत्यो न निर्जितः । अष्टाक्षरं गणेशस्य मंत्रं तस्मै ददौ स्वयम् ॥२८॥ वने सोऽपि समासीनस्तताप परमं तपः । निराहारेण
संयुक्तोऽध्यायत्तं गणपं हृदि ॥२९॥ एकवर्षे गते तत्र ययौ विघ्नपतिः स्वयम् । वरेण च्छंदयामास नृसिंहं भक्तमुत्तमम् ॥३०॥
प्रणम्यापूज्य विघ्नेशं परमेशं कृतांजलिः । सूक्तैर्गाणेशसंज्ञैस्तं तुष्टाव नृहरिः स्वयम् ॥३१॥ ययाचे देवदेवेशं भक्तिं ते देहि
विघ्नप । जयं दैत्यरणे स्वामिंस्तथेति गणपोऽब्रवीत् ॥३२॥ अंतर्धानं गतः सद्यो गणेशो भक्तपालकः । नृसिंहो हर्षसंयुक्तो
दैत्यं हंतुं ययौ ततः ॥३३॥ एतस्मिन्नंतरे दक्ष हिरण्यकशिपुः स्वयम् । प्रह्लादं हंतुमारेभे स्वयं खड्गधरोऽभवत् ॥३४॥
प्रह्लादेन स्मृतो विष्णुः प्रकटोऽभूत्तदंतरे । नृसिंहः कालरूपश्च तलेनाऽताडयत् खलम् ॥३५॥ मूर्च्छितो दैत्यराजस्तु लेभे संज्ञां
महाबलः । गदां धृत्वा नृसिंहं तं युयुधे सैनिकैः सह ॥३६॥ नृसिंहांगात् समुद्भूता नृसिंहा बहवस्ततः । सैन्यं तन्नाशयामासु-
र्हिरण्यकशिपोः परम् ॥३७॥ ततः क्रोधपरीतांगः सायंकाले दितेः सुतम् । धृत्वा नखैर्महादैत्यं दारयामास केशवः ॥३८॥
न शुष्कार्द्रमयैः स्वस्य नखैस्तेन विदारितः । ममार दैत्यराजोऽपि देवास्तं तुष्टुवुर्हरिम् ॥३९॥ स्तुतः संपूजितो विष्णुर्नृसिंहो
गणपं स्मरन् । अंतर्धानं ययौ सद्यो देवास्ते स्वपदं ययुः ॥४०॥ इदं नरहरेः प्रोक्तं माहात्म्यं यः शृणोति वा । पठति
प्रभवेत्तस्य सर्वदं नाऽत्र संशयः ॥४१॥
॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते नृसिंहमाहात्म्यं नाम सप्तत्रिंशोऽध्यायः ॥
खं. २ अ. ३८ पान ८१
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । हिरण्यकशिपौ नष्टे हिरण्याक्षं च दैत्यपाः । राजानं कारयामासुः सोऽपि चक्रे
तथाऽखिलम् ॥१॥ भ्रातुर्वधेन संतप्तो देवान् जित्वा महाबलः। तेषां मूलविनाशार्थं मतिं चक्रे च दैत्यपः॥२॥ तत्र तेन विचारेण
संप्राप्तं ज्ञानमुत्तमम् । कर्मनाशे च देवानां मरणं प्रभविष्यति ॥ ३ ॥ कर्मरूपमयं तेषाममृतं नात्र संशयः । अन्ने नष्टे कथं
देवाः स्थास्यंति तनुधारकाः ॥४॥ कर्ममूलमयीं भूमिं प्रगृह्य प्रययौ खलः । पातालं दैत्यराजस्तु खेलयन् स्वेच्छया स्वयम् ॥५॥
देवाश्च मुनयो जग्मुस्ततः सर्वे प्रजापतिम् । नष्टे चराचरे भूम्यां शशंसुर्दैत्यचेष्टितम् ॥ ६ ॥ ब्रह्मणा नोदिताः सर्वे वैकुंठं
जग्मुरादरात् । तुष्टुवुस्तं रमानाथं शशंसुश्चेष्टितं महत् ॥७॥ ततः सोऽपि दयायुक्तः सौकरं रूपमास्थितः । कैलासे गणपं
चेष्ट्वा ययौ पातालमोजसा ॥८॥ तत्र दंष्ट्राग्रसंयुक्तां पृथिवीं कृत्वा बहिः प्रभुः । निर्ययौ तं हिरण्याक्षो योद्धुकामः समाययौ
॥९॥ ततो युद्धं महाघोरं तयोर्जातं प्रजापते । शुष्कार्द्रदंष्ट्रया दुष्टं संध्याकाले जघान सः ॥१०॥ ममार सहसा दैत्यो
वराहो धरणीसुतः । निर्गत्य स्थापयामास पृथिवीं पूर्ववदच्युतः ॥ ११ ॥ संस्थाप्य पृथिवीं वाराहो मयूरेशं समाययौ ।
अक्षरब्रह्मरूपश्च सर्वेभ्यो ज्ञानदायकः ॥ १२ ॥ स्त्रीस्वरूपेण पृथिवी पत्नीभावेन तं ययौ । कर्ममूलमयी प्रोक्ताऽक्षराधारा
सुखप्रदा ॥१३॥ तत्रानुष्ठानमत्यंतं चक्रतुर्भक्तितत्परौ । दृढवाससुसिद्ध्यर्थं क्षेत्रे स्वानंदकूपिणि ॥ १४ ॥ प्रसन्नो भगवांस्तत्र
गणेशो देवनायकः । वरदस्तौ ययौ प्रीत्योवाच संवृणुतं वरम् ॥१५॥ ततस्ताभ्यां प्रणम्यादौ पूजितो गणनायकः । नामाष्टकेन
साम्ना वै संस्तुतो भक्तिभावितः ॥१६॥ वरं तौ वृणुतां क्षेत्रे स्वानंदे देहि विघ्नप । वासं भक्तिसुसिद्ध्यर्थं ब्रह्मभूतसुखप्रदे
॥१७॥ तयोर्वचनमाकर्ण्य गणेशः कृपया युतः । भक्तिं ज्ञात्वा महोग्रां वै सूर्यं प्रोवाच हर्षितः ॥ १८ ॥ गणेश उवाच ।
शुक्लगंत्यात्मकं द्वारं त्वदीयं मुक्तिदं परम् । तत्र पृथ्वी वराहौ च तवांगे कुरु मानद ॥१९॥ तथेति कृतवान् सूर्यः संस्थितौ
द्वारि तावुभौ । उत्तरांगं गणेशस्याश्रित्य पूजां प्रचक्रतुः ॥२०॥ इदं वराहरूपस्य माहात्म्यं कथितं मया । श्रवणात् पठनात्
सर्वमुक्तिदं प्रभवेन्नृणाम् ॥ २१ ॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराण द्वितीये खण्डे एकदंतचरिते वाराहमाहात्म्यं नामाष्टत्रिंशोऽध्यायः ॥
शीर्षक (Header):
खं. २ अ. ३९ | पान ८२
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो दैत्यपदे राजा प्रह्लादो वैष्णवोऽभवत् । स तु वैरं समुत्सृज्य देवैः संमानितो
बभौ ॥१॥ गते कियति काले च गृहे तस्य महात्मनः । विधाता दैत्यराजस्याययौ प्रीत्या प्रजापते ॥२॥ स तु दुष्टैर्महादैत्यैः
क्रमेण अंशितोऽसुरः । संसर्गदोषयुक्तोऽभून्न तं मेने पितामहम् ॥ ३॥ क्रोधेन विधिना तत्र शप्तोऽसौ वैष्णवाधमः ।
ज्ञानं प्रह्लाद नष्टं च त्वदीयं प्रहविष्यति ॥ ४ ॥ प्रह्लादमेवं शप्त्वा स ययौ स्थानं निजं विधिः । प्रह्लादश्च तथा दैत्यैर्देवानां
हनने रतः ॥५॥ न मेने मनसा विष्णुं शंभुं वामरनायकम् । जित्वा देवान् समस्तान् स राज्यं चक्रेऽसुराधिपः ॥६॥ प्रह्लादः
स ततो देवैर्मित्रभावेन धारितः । सहनं कृतमत्यंतं तद्दौरात्म्यस्य चादरात् ॥७॥ देवैर्विष्णुसहायैश्च कालेन विजिता बलात् ।
दैत्याः प्रह्लादमत्यंतं संरक्ष्य सुरनायकैः ॥ ८ ॥ स्वराज्ये संस्थितं दैत्यं प्रह्लादं च महामुनिः । भ्रमन् समाययौ द्रष्टुं शक्तो
गृत्समदो महान् ॥९॥ तं दृष्ट्वा दैत्यराजः स प्रणनाम महायशाः । स्वासने तं समावेश्य पूजयामास भक्तितः ॥१०॥
भक्तो मुनिवरं दैत्यः पादसंवाहने स्थितः । उवाच मधुरं वाक्यं प्रह्लादो हर्षसंयुतः ॥११॥ प्रह्लाद उवाच। धन्यं मेऽद्य कुलं
ज्ञानं विद्या दानादिकं च यत् । तवांघ्रियुगलं दृष्ट्वा पवित्रो नात्र संशयः ॥१२॥ मुने योगींद्रमुख्यस्त्वं तव दर्शनमुत्तमम् ।
न भवेत् पापकाराणां भुक्तिमुक्तिक्रमप्रदम् ॥ १३ ॥ अहं शप्तश्च योगींद्र विधिना तेन मोहितः । असुरैः संवृतोऽत्यंतं
दुष्टकर्मरतोऽभवम् ॥१४॥ स्त्रीमद्यादिरतो नित्यं ज्ञानहीनो निरंतरम् । देवानां द्वेषबुद्ध्या वै छेदने प्रयतोऽभवम् ॥१५॥ अधुना
पादपद्मस्य दर्शनेन महामुने । ज्ञानस्य स्फूर्तिरल्पा मे संजाता नात्र संशयः ॥ १६ ॥ पूर्वपुण्यबलेनैव जातं ते दर्शनं
महत् । आसुरी प्रकृतिर्मेऽद्य गता तेन महामुने ॥१७॥ वद ज्ञानं महायोगिंस्तारयस्व भवार्णवात् । मां वै शरणार्थिनं
विप्र शिष्यं ते च जगद्गुरो ॥१८॥ मुद्गल उवाच । एवं संप्राार्थितो दक्ष मुनिर्गुत्समदो महान् । कृपया परयाऽऽविष्टस्तमुवाच
विशेषतः ॥१९॥ गृत्समद उवाच । शृणु प्रह्लाद वक्ष्यामि ज्ञानं शांतिसुखप्रदम् । गणनांथं भजस्व त्वं विघ्नहीनो भविष्यसि
॥२०॥ मदासुरश्च दैत्येशो हृदये ते प्रतापवान् । आसुरेण स्वभावेन संस्थितो ज्ञानखंडकः ॥२१॥ अतस्तमेकदंतस्य
भजनेन जहि प्रभो । तदा ज्ञानं दृढं ते वै हृदये संस्थितं भवेत् ॥२२॥ इति तस्य वचः श्रुत्वा
प्रह्लादस्तं पुनर्जगौ । कोऽसौ मदासुरः पापी हृदये तिष्ठति प्रभो ॥२३॥ एकदंतस्य भजनं कीदृशं वद सांप्रतम् ।
मदासुरस्य हंताऽसौ कथं जातो गजाननः ॥२४॥ एतत्सर्वं सुविस्तार्य वद मह्यं प्रयाचते । शिष्याय सकलं विप्र
खं. २ अ. ३९ पान ८३
येन ज्ञानं दृढं भवेत् ॥२५॥ मुद्गल उवाच । प्रह्लादस्य वचः श्रुत्वा मुनिर्गृत्समदोऽब्रवीत् । मदासुरस्य माहात्म्यमेकदंताश्रितं
प्रभो ॥२६॥ गृत्समद उवाच । शृणु प्रह्लाद यत् पृष्टं तत्सर्वं कथयामि ते । चरित्रमेकदंतस्य सर्वसिद्धिप्रदायकम् ॥२७॥ एकदा राक्षसः
कश्चिद्ययौ भृग्वाश्रमं महान् । महाखलश्छिद्रदर्शी समिदर्थं गते मुनौ ॥२८॥ स तत्रैकाकिनीं वीक्ष्य भृगुपत्नीं वचोऽब्रवीत् ।
सुलोमा किं भृगोः पत्नी त्वं हि मां वद सांप्रतम् ॥२९॥ मह्यं कन्यां महीपालो दातुं स ह्युद्यतोऽभवत् । एतस्मिन्नंतरे कन्या
याचिता भृगुणाऽभवत् ॥३०॥ मां त्यक्त्वा भृगवे कन्या दत्ता तेन महीभृता । तस्माद्गोर्हरिष्यामि भार्यां चाऽहं न
संशयः ॥३१॥ तस्य तद्वचनं क्रूरं श्रुत्वा तूष्णीं बभूव ह । सुलोमा सा भृगोः पत्नी ततः सोऽप्यग्निमब्रवीत् ॥३२॥ राक्षस उवाच ।
अग्ने वद महाभाग त्वं साक्षी सर्वसंमतः । इयं पत्नी भृगोः किं वान्यस्य सत्यं महाद्युते ॥३३॥ राक्षसस्य वचः श्रुत्वा न
किंचित्तं वचोऽब्रवीत् । उत्तरं शापभीतोऽसौ हव्यवाहः प्रतापवान् ॥ ३४॥ पुनस्तेन च संपृष्टोऽग्निर्नोवाच सुदुर्मतिम् ।
पुनः पृष्टस्तथाग्निस्तमुवाच भयसंकुलः ॥३५॥ अजानता नरः पृष्टः संशये प्रसमुच्यते । कथयेत्तं न पापीयान् भवेद्वै सोऽपि
निश्चितम् ॥३६॥ अतोऽहं कथयिष्यामि सत्यं तुभ्यं न संशयः । आदौ राज्ञा च संदातुं कथिता राक्षसाय सा ॥३७॥ अतस्त्वं
राक्षसो भागी मतः शास्त्रे न संशयः । तवाग्रे कथितं चेन्मे पापं न स्यात् कदाचन ॥३८॥ अतः कन्यां प्रदातुं वै नराय
दृढनिश्चयः । न कर्तव्योऽसुरेश त्वं विचारय महामते ॥३९॥ यदि दातुं कृता कन्या कस्मैचिन्निश्चिता भवेत् । तस्मै सा वै
प्रदातव्याऽन्यथा दोषी भवेन्नरः ॥४०॥ आशाभंगमयं पापं संप्राप्तं तस्य दैत्यप । न कन्या दूष्यते तत्रान्यस्मै दत्ता
नराय चेत् ॥४१॥ ततस्तं राक्षसं क्रूरमूचे वै हव्यवाहनः । पत्नी भृगोरियं साधो मा गृहीष्व परस्त्रियम् ॥४२॥
अग्नेर्वचनमाकर्ण्य गृहीत्वा राक्षसो ययौ । अंतर्वत्नीं रुदंतीं च मूर्च्छितां स विहायसा ॥४३॥ तस्यामुदरवासी च
भृगोस्तेजोधरो मुनिः । कुपितो राक्षसं हंतुं च्युतो वै जठरात् स्वयम् ॥४४॥ तस्य क्रोधानलेनैव भस्मसाद्भवत्क्षणात् ।
राक्षसः सोऽपि संगृह्य पुत्रं स्वगृहमाययौ ॥४५॥ दुःखिता रुदती देवी सुलोमा भयविह्वला । वनाद् भृगुः समायात-
स्तस्मिन् काले प्रतापवान् ॥४६॥ रुदंत्या कथितस्तस्मै वृत्तांतो मुनिभार्यया । तं श्रुत्वा कुपितो योगी साक्षाद्रुद्र
इवाऽपरः ॥ ४७॥ उवाच कोपरक्ताक्षोऽग्ने त्वं शप्तो मयाऽधुना । सर्वभक्षो भवाऽज्ञानी दुष्टकर्मपरायण ॥४८॥ एवं
शप्त्वा महादेवं भृगुरग्निं स्वयं मुनिः । सुलोमां सांत्वयामास पुत्रं स्वं प्रशशंस ह ॥४९॥ उदरात्तु च्युतः क्रोधाच्च्यवनो
नाम सत्तमः । तेनाऽयं भविता पुत्रो मदीयो मातृपालकः ॥ ५० ॥ सुखेन स्वाश्रमे योगी भृगुः परमतत्त्ववित् । पत्न्या
पुत्रेण संयुक्तः स्थितो गणपतिं स्मरन् ॥ ५१ ॥
॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते च्यवनोत्पत्तिकथनं नामैकोनचत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शापितो भृगुणाग्निश्च ययौ स्थानं निजं ततः । अंतर्धाय स्वमात्मानं स्थितः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. ४०
पान ८५
गजाननः । बोधयन् हेतुगर्भाभिर्वाग्भिः सर्वार्थकोविदः ॥१९॥ विप्र उवाच । स्वानंदवासिनं विद्धि विनायकमनामयम् । सर्वेषां
नायकं पूर्णं नायकैर्वर्जितं परम् ॥२०॥ शांतियोगेन शांतिज्ञास्तं भजंते द्विजोत्तमाः । तं योगं तेऽभिधास्यामि शृणुष्वैकमनाः
प्रभो ॥२१॥ एकानेकादिभेदैश्च संयुक्तः प्रणवः स्मृतः । संप्रज्ञातसमाधिं तं विद्धि वह्ने महाद्युते ॥२२॥ संयोगायोगभेदैश्च
संयुक्तं ब्रह्म यत् स्मृतम् । असंप्रज्ञातरूपस्थं विद्धि
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inगणाध्यक्षो भक्तवत्सलभावतः ॥४५॥ गणेश उवाच। त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम्। भविष्यति नृणां चैव
शृण्वतां पठतां सदा ॥४६॥ यं यं चिंतयसे कामं तं तं दास्यामि शाश्वतम्। भक्तिभावेन संतुष्टो भृशं स्तोत्रेण संस्थितः ॥४७॥
मदीया भक्तिरचला भविष्यति सदाऽनघ। संकटं स्मरणेनैव मदीयेन विनश्यति ॥४८॥ भृगुर्मम विशेषेण भक्तोऽसौ
शांतियोगधृक्। तस्यापि वचनं मिथ्या न करोमि कदाचन
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. ४१ पान ८७
महाभागैस्ततस्तं मुनिरब्रवीत् ॥९॥ शतं सौवर्णमुद्राणां मौल्यं किं मे त्वया कृतम् । ततो राजा धनं लक्षं मौल्यं
च कृतवान् मुनेः ॥१०॥ न योग्यं मुनिना तत्र कथितं स ततो नृपः । ग्राममेकं मुनेर्मौल्यं चकार भयसंयुतः ॥११॥
मुनिना तन्न योग्यं वै कृतं तत्र नृपः पुनः । नगरं देशसंयुक्तं मौल्यं स कृतवान् मुनेः ॥१२॥ तथाऽपि मुनिना मान्यं
न कृतं तत्ततो नृपः । राज्यमर्धं ततौ मौल्यं धीवरान् दातुमुद्यतः ॥१३॥ मुनिना कथितं तत्र मम योग्यं न
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inयेन संकुपितो मुनिः ॥३४॥ ततः सा राजकन्या तं पितरं प्राह लज्जिता । क्षुभिता भयभीता वै सुकन्या रचितांजलिः
॥३५॥ वने क्रीडनभावेन वल्मीके कंटकेन च । विद्धे मया महाराज ज्योतिषी नात्र संशयः ॥३६॥ ततो राजा वनं गत्वा
वल्मीके संस्थितं मुनिम् । स्तुत्वा प्रसादयामास विनयेन समन्वितः ॥३७॥ ततस्तं राजशार्दूलमुवाच भृगुनंदनः । अज्ञानेन
कृतं कर्म तव पुत्र्या नृपालक ॥३८॥ अतो मदीयसेवार्थं कन्यां
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inशीर्षक (Header):
खं. २ अ. ४२ | पान ८९
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । च्यवनेन तथा यज्ञेऽश्विनौ तौ भागसंयुतौ । कृत्वा चावाहितौ तत्र तत इंद्रोऽब्रवीद्वचः ॥१॥
इंद्र उवाच । अश्विनौ भिषजौ प्रोक्तौ मुने तस्मान्न योग्यता । यज्ञभागे तयोः स्वामिन् माहेयति वदाम्यहम् ॥२॥ अभवन् मुनि-
मुख्यो सौ त्यक्त्वेंद्रवचनं ततः । समुद्युक्तश्च तौ तत्राव्हयितुं त्वसुरेश्वर ॥३॥ तत इंद्रोऽब्रवीद्विप्रं च्यवनं क्रोधसंयुतः । वज्रेणैव
हनिष्यामि यद्यायातौ मुनेऽश्विनौ ॥४॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. ४२ पान ९०
किं मदेन समन्वितः । समागतोऽसि दुर्बुद्धे गच्छ त्वं स्वगृहेऽधुना ॥२६॥ ततोऽवदं सुता चाऽऽदौ पत्नीभावेन संधृता ।
त्वया तत् किं मया तात दुर्बुद्धित्वं कृतं वद ॥२७॥ तातस्तु क्षुभितोऽत्यंतं स च मां शप्तुमुद्यतः । तातं तं दंडवद्भूमौ नतोऽहं
भक्तिसंयुतः ॥२८॥ अवदं तं महाभागं मां क्षमस्व महागसम् । परीक्षार्थं महाविप्रैः प्रेषितोऽहं पितामह ॥२९॥ क्षमस्वेदं कृतं कर्म
त्वं श्रेष्ठः सर्वभावतः । स्तुत्वा तं विविधैर्वाक्यैस्ततः कैलासमागमम् ॥३०॥ दृष्ट्वा मां तापसं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in[Header]
खं. २ अ. ४२ | पान ९१
परं तस्मान्न विद्यते। विचार्य शंकरं चित्ते धृत्वाऽहं भजने रतः ॥५२॥ शैवो जातोऽहमत्यंतं भस्मांगालेपने रतः। नानापाशु-
पतैर्मार्गैरभजं शंकरं सदा ॥५३॥ एकदा यज्ञमारेभे क्षेत्रे नाम्ना महाबले। शैवे देवगणैर्ब्रह्मा मुनिभिश्च समन्वितः ॥५४॥
तत्रास्मृतिर्गणेशस्य जाता तेषां महामखे। उषःकाले ततो ज्येष्ठां त्यक्त्वा यज्ञं वितेनिरे ॥५५॥ गायत्रीं मुख्यभावां वै
प्राप्तां वीक्ष्य महासती। सावित्री
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inपान ९२
॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । भृगोर्वचनमाकर्ण्य लज्जितश्च्यवनोऽभवत् । तं प्रणम्य महाभक्त्या प्रपच्छ स
कृतांजलिः ॥१॥ च्यवन उवाच । क्षमस्व मेऽपराधं च यत्कृतं सर्जनं मया । मदस्य भागहीनौ तावश्विनौ भागसंयुक्तौ ॥२॥ अधुना
गणनाथस्य ज्ञानं मे वद शांतिदम् । मदादिकं समुत्सृज्य येन शांतो भवाम्यहम् ॥३॥ गृत्समद उवाच । तदीयं वाक्यमाकर्ण्य
भृगुस्तं प्राह सिद्धिदम् । योगं पूर्णं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. ४४ पान ९३
॥ श्रीगणेशाय नमः ॥ प्रह्लाद उवाच । श्रुतं च्यवनमाहात्म्यं विश्रांतं मे च मानसम् । मदस्य चरितं ब्रूहि किं चकार महामुने ॥१॥
मुद्गल उवाच । एवं पृष्टो गृत्समदो महायोगी प्रतापवान् । गाणपत्यवरिष्ठश्चोवाच तच्छृणु सादरम् ॥२॥ गृत्समद उवाच ।
शृणु प्रह्लाद माहात्म्यं मदस्य क्रमसंयुतम् । च्यवनेन स संसृष्टो मदः पातालमाययौ ॥३॥ विचार्य बलवान् दैत्यैर्ययौ शुक्रं
महामुनिम् । तं प्रणम्य स्थितो दूरं बद्धांजलिपुटो मदः ॥४॥ विनयेन समायुक्तं मदं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in