मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
by महर्षि मुद्गल
Source: निर्णय सागर प्रेस · निर्णय सागर प्रेस (origin)
About this granth
The Mudgala Purana (मुद्गल पुराण) is the principal upapurana of the Ganapatya tradition, the sect that worships Ganesha as the supreme deity; its narration is linked to the sage Mudgala. Together with the Ganesha Purana, it is the fullest source for the theology and legends of Ganesha. It is chiefly known for the stories of his eight incarnations (Vakratunda, Ekadanta, Mahodara, Gajanana, Lambodara, Vikata, Vighnaraja and Dhumravarna), each of whom subdues a demon standing for an inner fault such as envy, pride, delusion, greed, anger, desire, possessiveness or conceit.
This scan presents the Sanskrit text printed in traditional pothi layout, with the khanda and adhyaya marked on each leaf. It opens with invocations to Ganesha as lord of Svananda, and the narrative begins with Suta Lomaharshana coming to Shaunaka and the sages in the Naimisha forest. The purana is divided into nine khandas, each closing with a section on its merit.
Running to about 1,023 pages, it is useful for anyone studying Ganapatya thought and the Ganesha devotion of Maharashtra.
[Header: पान २४]
हयग्रीवश्च जृंभकः ॥५॥ सुतलं पीतवर्णं तदधस्तद्भूतप्रतिष्ठितम् । तत्रैव वैनतेयादिपक्षिणो दैत्यपो बलिः ॥६॥
कालनेम्यादयश्चान्ये नानादैत्याः स्थिताः सुखम् । नागाश्च भयहीनास्ते संवसंति विहारिणः ॥७॥ तलातलं तथा ज्ञेयं
शार्करं तत्र वासिनः । मयासुररादयश्चैव बाणांधकमुखाः परे ॥ ८ ॥ वसन्ति सुखभावेनान्ये नागा विगतज्वराः।
कालकेया महादेहा निवातकवचास्तथा ॥९॥ महातलं कृष्णवर्णं तत्र तक्षकपन्नगः । अन्ये च बहवो नागा
वसन्ति
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. १६ पान ३५
वराहश्च निराधारो गणेशं हृदि संस्मरन् । स्थितस्तेन प्रभावेण सर्वाधारः स वै स्मृतः ॥३१॥ तस्मादधो रौरवाद्या
नरकाश्च समाश्रिताः । यातनाकारिणः सर्वे पापिनां शुद्धिकारकाः ॥ ३२ ॥ रौरवैश्चैव तामिस्रो महारौरवसंज्ञितः ।
अंधतामिस्रसंज्ञश्च तथा सूचीमुखोऽपरः ॥ ३३ ॥ लोहदंडस्तप्तवालुकस्तथा खड्गपत्रकः । लालास्यः कृमिभक्ष्यश्च
इत्याद्या बहवः स्मृताः ॥३४॥ नरकेषु प्रपच्यंते पापकारिण एव ये
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inशिवमार्गप्रकाशकः। यत्रतत्राचरद्योगी जनानां बोधयन् शिवम् ॥ १२॥ ततो योगेन तत्रैव स्वाधीनब्रह्मदूषणम् ।
दृष्ट्वा शांतिं परित्यज्य विस्मितः प्रबभूव सः ॥१३॥ न ब्रह्मणि पराधीनस्वाधीनत्वं कदाचन । शिवः स्वाधीनरूपोऽयं न
योगींद्रस्ततो भवेत् ॥१४॥ एवं विचार्य विक्षेपाच्छंकरालयमाययौ । तं प्रणम्य स्थितो योगी शिवसंमानितो भृशम् ॥१५॥
तत्र स्थिता महाभागा योगिनः शिवशिष्यकाः । गाणपत्याः स तान् दृष्ट्वा विस्मितो मानसेऽभवत् ॥ १६ ॥ ततो-
ऽवसरमासाद्य
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. १६ पान ३७
☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸
शिवः शिवकरः सताम् । ऋषभोडपि प्रसन्नात्मा तं प्रणम्य ययौ वनम् ॥ ३७ ॥ कथितं शंकरेणैवमभ्यस्यन् योगमुत्तमम् ।
क्रमेण पूर्वयोगी स जातो शांतिस्वरूपधृक् ॥ ३८ ॥ तथापि गणपं दक्ष न मुमोच क्षणं मुनिः । तेन तस्य समीपेऽसौ
गणेशानः समाययौ ॥ ३९ ॥ आगतं गणपं दृष्ट्वा भक्तिभावेन यंत्रितम् । प्रणाम स साष्टांगं हर्षगद्गदभाषणः ॥ ४० ॥
सरोमांचशरीरश्च साश्रुनेत्रो महायशाः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inख. २ अ. २७ पान ३८
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ऋषभेन कृता चर्या नानायोगप्रकाशिनी । आदौ तां भूमिपो दृष्ट्वा जगृहेऽहंदृहे
स्थितः ॥ १ ॥ दुर्बुद्धिः स तु तं भ्रष्टः कर्ममार्गं विमुच्य वै । पशुवद्धर्महीनांश्च कारयामास मानवान् ॥ २ ॥ जैनमार्गः
समुत्पन्नस्तदादिश्च प्रजापते । भरतेन स संच्छन्नो कर्ममार्गानुसारिणा ॥ ३ ॥ स एव कलिकालै वै भविष्यति गृहे गृहे ।
नरास्तं संग्रहीष्यंति कलिदोषेण संयुताः ॥ ४ ॥ ऋषभेन गृहं त्यक्त्वा धृतः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. १७ पान ३९
तं संपूज्य महाभक्त्या पुलहः सर्वसंयुतः । तोषयित्वा स्वयं देवं पादसंवाहने स्थितः ॥ २६ ॥ परिपप्रच्छ तं स्तुत्वा पुलहो
भावसंयुतः । आदिदेवं महाभागं गाणपत्यं स्वभावतः ॥ २७ ॥ पुलह उवाच । तात दुःखयुताः सर्वे जंतवः केन भोगिनः ।
मोक्षिणो ब्रह्मभूताश्च जायंते तद्वदस्व मे ॥२८॥ मुद्गल उवाच । पुलहस्य वचः श्रुत्वा प्रभुर्धाता तमब्रवीत् । पुत्रं विनयसंयुक्तं
कृतप्रांजलिमास्थितम् ॥२९॥ ब्रह्मोवाच । शृणु पुत्र प्रवक्ष्यामि यत्पृष्टं मे त्वया परम् ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. १८ पान ४०
☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸
ह्यशांतिकर उच्यते ॥५१॥ संयोगित्वमयोगत्वं त्यक्त्वा शांतिमवाप्स्यसि । तत्र विघ्नविहीनत्वं प्राप्तं पुत्र न संशयः ॥५२॥
चित्तभूमिस्वरूपं यत् पंचधा त्यज विप्रप । योगाभेदस्वरूपस्त्वं भविष्यसि न संशयः ॥५३॥ पंचधा चित्तरूपा वै
बुद्धिर्माया प्रकीर्तिता । पंचधैश्वर्यमोहेषु मोहदा सिद्धिरुच्यते ॥५४॥ तत्र बिंबं गणेशस्य पतितं योगरूपतः । द्वैधं
मायायुतं
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. १८ पान ४१
संस्थिताय च । सर्वांत एकरूपाय मध्ये नानास्वरूपिणे ॥ १३ ॥ आदिमध्यांतहीनाय सृष्टिस्थित्यंतकारिणे । अनंतोदर-
संस्थाय लंबोदर नमोऽस्तु ते ॥ १४ ॥ गजवक्त्राय वै तुभ्यं गजाकाराय ते नमः । गजकर्णाय पूर्णाय गजानन नमोऽस्तु
ते ॥ १५ ॥ मूषकध्वजरूपाय मूषकारूढरूपिणे । पाशांकुशधरायैव स्तुताय च विभूतिभिः ॥ १६ ॥ चतुर्भुजधरायैव
चतुर्वर्गमयाय च । ब्रह्मभूतस्वरूपाय देहधारिन्नमो नमः ॥१७॥ यं वेदवादिनः स्तोतुं वेदाः सांगाश्च योगिनः । शिवविष्णु-
मुखा देवा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । आंगिरसकुले विप्रो बभूव मुनिसत्तमः । ततः पुत्रोऽभवत्तस्य भरतो नृपसत्तमः ॥१॥
तत्रापि संगभीतोऽसौ ज्ञानयुक्तो महामुनिः । गणेशं मनसा ध्यायन् संस्थितो मुनिसन्निधौ ॥ २ ॥ तत्र वेदादिषु प्रोक्तं
गणेशस्य महात्मनः । स्तवनं संश्रुतं ज्ञानं तेन पूर्वं हठं कृतम् ॥३॥ जडवत्संगसंभीतो बभूव ब्राह्मणोत्तमः । चातुर्यं
सकलं तेन गोपितं सर्वसंनिधौ ॥४॥ विवाहादिभयात् सर्वं जडत्वं संप्रकाशितम् । मूर्खवच्चेष्टया तत्र बालभावेन तिष्ठता
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. २० पान ४३
अन्नार्थं देहभावज्ञः सुखदुःखादिके समः ॥२६॥ तत्र चित्रमभूद्यत्तु तत् शृणुष्व प्रजापते । चौराणां स्वामिना देवी
भद्रकालीति संस्तुता ॥२७॥ लभेद्यदि मम द्रव्यं विपुलं च जगन्मयि । तदा पुरुषरूपं ते दास्यामि पशुमुत्तमम् ॥२८॥
द्रव्यं तस्य तथा प्राप्तं तेन संप्रेषिताः स्वकाः । चौरा रात्रौ भ्रमैर्युक्तास्तत्राजग्मुर्यदृच्छया ॥ २९॥ तं गृहीत्वा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. २०
पान ४४
शिबिका तया राजा सुदुःखितः ॥८॥ ततः क्रोधसमाविष्टो रहूगण उवाच तान् । सम्यक् च शिबिकां वाहा वहध्वं
सुप्रयत्नतः ॥९॥ ततो भीताश्च ते सर्वे तमूचुरधुना नृप । आनीतः सुदुरात्मार्यं यथा चलति मद्यपः ॥१०॥ ततो राजा
महात्मानमुवाच शठ किं त्वया । उन्मत्तवद्गतिर्दुष्टा क्रियते मम सन्निधौ ॥११॥ ततो भाविबलेनासावांगिरस उवाच
ह । ज्ञात्वा तं योगमिच्छंतं पात्रभूतमनादरात् ॥१२॥ जडभरत उवाच । मायामयमिदं सर्वं भ्रांतिरूपमसत्यकम् । तत्र
राजजनानां वै
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. २१ पान ४५
प्रणाम सः। पादपद्मे शिरः स्थाप्य रुरोद भयविह्वलः ॥३४॥ ततोऽसौ करुणाविष्टो जडभरतस्तमब्रवीत् । उत्थाप्य
नृपशार्दूलं प्रश्रयाऽवनतं वचः ॥३५॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते जडभरतरहूगणमिलनो नाम विंशतितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ जडभरत उवाच । आह मांगिरसो नाम जडभरतः प्रकथ्यते । स्वायंभुवश्च भरतोऽधुना जडश्च
तेन वै ॥१॥ मा
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. २२ पान ४६
तदेव च ॥१९॥ ताभ्यां नानाविधं ब्रह्मान्नादि वेदे प्रकीर्तितम् । जगन्नानाविधं तद्वज्जानीहि नृपसत्तम ॥२०॥ नामरूपमयं
सर्वमसत्यं परिकीर्तितम् । शाक्तं ब्रह्म समाख्यातं वेदे वै वेदवादिभिः ॥२१॥ नामरूपात्मकं यत्तत्सदा खंडमयं स्मृतम् ।
अमृतं सौरमात्मा तद्ब्रह्म सर्वप्रकाशकम् ॥ २२ ॥ तयोर्भेदकर्ताऽसौ विष्णुरानंदसंज्ञितः । द्वयोः समं च तद्ब्रह्म
भावाभावमयं परम् ॥ २३ ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. २२ पान ४७
बुद्धेः पते धियो दात्रे सर्वविद्याकलात्मने । ज्ञानरूपप्रकाशाय गणेशाय नमो नमः ॥७॥ मूषकारूढ वै तुभ्यं चतुर्बाहुधराय च।
स्वानंदवासिने देव वक्रतुंडाय ते नमः ॥८॥ नानाविहारयुक्तायानंतरूपाय ते नमः । अमेयाय सदायोगशांतिस्थाय
नमो नमः ॥९॥ धन्योऽहं कृतकृत्योऽहं येन दृष्टो गजाननः । वेदादौ गोचरोऽयं न कृपया सहसाऽऽगतः ॥१०॥ मया किं
ते कृतं देव दर्शनार्थ किमागतः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inपान ४८
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । स्वायंभुवमनोः पुत्र उत्तानपादसंज्ञितः । स राज्यं मध्यदेशस्य चक्रे वै धर्मसंयुतः
॥१॥ तस्य भार्ये प्रविख्याते सुनीतिः सुरुचिस्तथा । सुनीत्यां च ध्रुवो जज्ञे सुरुच्यामुत्तमस्ततः । ॥२॥ सुरुच्या स्ववशं
नीतो तया राजा विमोहितः । सुनीतिं मन्यते न स्म मनसाऽपि प्रजापते ॥३॥ एकदा ध्रुवपुत्रश्चाययौ राज्ञः समीपकम् ।
आरोढुमिच्छन्नुत्संगे संस्थितस्तस्य सन्निधौ ॥४॥ तत्रावमानितस्तेन सुरुच्या दुष्टभावतः । ततो
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. २४ | पान ४९
योगशांतिं त्वं न प्राप्स्यसि कदाचन ॥२६॥ ततस्तं नारदो योगी ददौ मंत्रं विधानतः । एकाक्षरं गणेशस्य राजा सिद्धो
बभूव सः ॥२७॥ मयूरेशस्य वै क्षेत्रे ध्रुवः सद्यः समागतः । चकार विधिवद्यात्रां द्वाराणां चिह्नसंयुताम् ॥२८॥ गणेशं
स्थापयामास ब्राह्मणैर्मंत्रकोविदैः । अर्धक्रोशे गणेशात् नापूर्वद्वारसमीपगम् ॥ २९ ॥ देवालयं चकाराऽसौ महामौल्यं
सुविस्तृतम् । सुवर्णशिखरं रम्यं पूजितं वै सुभक्तितः
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inवनांतरे । स्थानं ददुर्द्विजश्रेष्ठा निषादास्तत् समुद्भवाः ॥१३॥ पुनश्च दक्षिणांगं ते ममंथुर्द्विजसत्तमाः । वेनस्य दंपती तस्मात्
समुद्भूतौ महौजसौ ॥१४॥ विष्णोः कलायुतौ साक्षाद्ब्राह्मणान्नेमतुः पुरा । ब्राह्मणैर्नृपवर्यः स संसिक्तो राज्यकर्मणि ॥१५॥
पृथुनामा महीपालो विख्यातोऽभूच्च मंडले । स्वधर्मनिरतः साक्षात् क्षात्रधर्मप्रवर्तकः ॥ १६॥ तेन संवर्धिता लोका वर्णा-
श्रमयुता विधे । पुरे मुमुदिरे देशे यत्र तत्र सुसत्कृताः ॥१७॥ गते कियति काले वै लोका
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. २५ पान ५१
सूर्यं वत्सं चकारापि दोहको ध्रुव आदरात् । ज्योतिषां जीवनं दुग्धं दुदोह सकलं ततः ॥ ३९ ॥ शेषं वत्सं च संगृह्य
दुदोहाऽपि च वासुकिः । सर्पाणामन्नरूपं वै दुग्धं दुग्धप्रियस्ततः ॥ ४० ॥ शिवं वत्सं प्रकल्प्यैव दोहको नंदिकेश्वरः ।
विद्यात्मकं महद् दुग्धं दुदोह गतमत्सरः ॥ ४१ ॥ एवं सर्वे च दुदुहुर्भूमिं गां पृथुभाविताम् । चराचरमया जीवा ईश्वराश्च
प्रजापते ॥ ४२ ॥ पृथुस्तां पूजयामास धरणीं धरणीप्रियः ।
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inपान ५२
भावतः ॥५॥ पादसंवाहनं तेषां चकार स्वयमादरात् । उवाच मधुरं वाक्यं पृथुर्वाक्यविशारदः ॥ ६ ॥ पृथुरुवाच । धन्येयं
धरणी त्वद्य धन्यं नगरमुत्तमम् । मंदिरं सत्कृतं सर्वं भवतामागमेन मे ॥७॥ धन्यो वंशो कुलं धन्यं पितरौ ज्ञानमाश्रमः ।
तपो विद्यादिकं मे च भवतां पाददर्शनात् ॥८॥ सनाथोऽहं कृतोऽनाथो भवद्भिर्नात्र संशयः । अनुग्रहः कृतोऽत्यंतं विशेषेण
दयालुभिः ॥९॥ पूर्वजन्मार्जितं मे किं फलितं पुण्यमुत्तमम् । अन्यथा दर्शनं न स्याद्भवतां ब्रह्मरूपिणाम् ॥ १० ॥
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign inखं. २ अ. २५ पान ५३
संयोगे तु समूहकः ॥३०॥ अन्नप्राणादिका शब्दा ब्रह्मणो वाचका मताः । ते सर्वे गणरूपाश्च तेषां स्वामी गणेश्वरः ॥ ३१ ॥
संयोगायोगकाया ये नाना योगा मता बुधैः । योगानां योगरूपोऽयं गणेशो नात्र संशयः ॥ ३२ ॥ गणो योगात्मकः
प्रोक्तस्तस्मात्तस्य गणा वयम् । योगरूपा विशेषेण नमामो भक्तिसंयुताः ॥३३॥ माया विघ्नात्मिका प्रोक्ता भ्रांतिदा
बिंबभावतः । तां जयंति जना ईशा विघ्नराजस्य सेवया
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in