मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)
Mattavilasa Prahasana of Mahendravarman I
पल्लव सम्राट् महेन्द्रविक्रमवर्मा (व्याख्या: रानी मजूमदार) द्वारा
पृष्ठ 42, कुल 100 में से
संदर्भ में पढ़ें३० मत्तविलास-प्रहसन
देवसोमा—भअवं ! णं तहा भणिदव्वं । अहन्ते मोक्खमग्गं
अण्णहा वण्णअन्ति । [भगवन् ननु तथा भणितव्यम् । अर्हन्तो२०
मोक्षमार्गमन्यथा वर्णयन्ति ।]
कपाली—भद्रे ! ते खलु मिथ्यादृष्टयः । कुतः,
कार्यस्य निःसंशयमात्महेतोः
सरूपतां हेतुभिरभ्युपेत्य ।
दुःखस्य कार्यं सुखमामनन्तः
स्वेनैव वाक्येन हता वराकाः ॥८॥
देवसोमा—सन्तं सन्तं पावं । [शान्तं शान्तं पापम् ।]
कपाली—शान्तं शान्तं पापम् । न खलु ते पापा आक्षेपमुखे-
नाप्यभिधातुमर्हन्ति, ये ब्रह्मचर्यकेशनिर्लोटनमलधारणभोजनवेला-
नियममलिनपटपरिधानादिभिः प्राणिनः परिक्लेशयन्ति । तदिदानीं
कुतीर्थसङ्कीर्तनोपहतां जिह्वां सुरया प्रक्षालयितुमिच्छामि ।
देवसोमा—तेण हि अण्णं दाणिं सुरापणं गच्छामो । [तेन
ह्यन्यमिदानीं सुरापणं गच्छावः ।]
कपाली—प्रिये ! तथास्तु ।
(उभौ परिक्रामतः ।)
कपाली—अहो नु खलु विमानशिखरविश्रान्तघनरसित-
सन्दिग्धमृदङ्गशब्दस्य मधुसमयनिर्माणमातृकायमाणमाल्यापणस्य
कुसुमशरविजयघोषणायामानवरयुवतिकाञ्चीरवस्य काञ्चीपुरस्य
परा विभूतिः । अपि च—
अनतिशयमनन्तं सौख्यमप्रत्यनीकं
समधिगतसतत्त्वा मेनिरे यन्मुनीन्द्राः ।
तदिह निरवशेषं दृष्टमेतत् तु चित्रं
यदुत करणभोग्यं कामभोगात्मकं च ॥९॥
देवसोमा—भअवं ! भअवदी वाहुणीव... विअ अणवगीअमहुरा
काञ्ची । [भगवन् ! भगवती वारुणीवानवगीतमधुरा काञ्ची।]
२०. अन्यथा मोक्षमार्गम्