मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)
Mattavilasa Prahasana of Mahendravarman I
by पल्लव सम्राट् महेन्द्रविक्रमवर्मा (व्याख्या: रानी मजूमदार)
Page 40 of 100
Read in context२८ मत्तविलास-प्रहसन
देवसोमा—भअवं। परिब्भमइ परिब्भमइ पुहुवी। पुरो वदामि
विअ। अवलम्ब दाणि मं। [भगवन् ! परिभ्रमति, परिभ्रमति
पृथिवी पुरः पतामीव। अवलम्बस्वेदानीं माम् । ]
कपाली—प्रिये ! तथास्तु। (अवलम्बमानः पतनं रूपयित्वा)
प्रिये ! सोमदेवे ! किं त्वं कुपितासि, यदवलम्बितुमुपसर्पतो मे
दूरीभवसि।
देवसोमा—अहो णु खु आदकोवा सामदेवा, जा तुए सीसेण
पणामिअ अणुणीअमाणा वि दूरी होइ। [अहो नु खलु आगतकोपा
सोमदेवा या त्वया शीर्षेण प्रणम्यानुनीयमानापि दूरीभवति।]
कपाली—ननु त्वमेवासि सोमदेवा। (ध्यात्वा) नहि, १५ देवसोमा
देवसोमा—भअवं। णं तहा वल्लहा सोमदेवा, णाहंदि मम
णामकेणाभिधादुं १६। [भगवन् ! ननु तथा वल्लभा सोमदेवा, नार्हति
मम नामकेनाभिधातुम् । ]
कपाली—भवति ! सुलभपदस्खलितो मे मदोऽयं तवात्रापराध्दः।१७
देवसोमा—दिट्ठिआ ण तुवं। [दिष्ट्या न त्वम् ।]
कपाली—कथं मद्यदोषो मामेवं सङ्क्रामयति। भवतु भवतु,
अद्यप्रभृति मद्यनिवेषणान्निवृत्तोऽस्मि।
देवसोमा— १८भअवं। मा या मम कारणादो बदभङ्गेण
तवो खण्डेदुं। [भगवन् ! मा मा मम कारणाद् व्रतभङ्गेन तपः
खण्डयितुम् । ] (पादयोः पतति)
कपाली—(सहर्षमुत्थाप्यालिङ्ग्य) धृणं धृणं, १९ नमः शिवाय ।
प्रिये !
पेया सुरा प्रियतमामुखमीक्षितव्यं
ग्राह्यः स्वभावललितो विकृतश्च वेषः।
येनेदमीदृशमदृश्यत मोक्षवर्त्म
दीर्घायुरस्तु भगवान् स पिनाकपाणिः ॥७॥
१५. नहि नहि १६. —मद्येन
१७. —राध्यति १८. मा मा भगवन् मम— १९. धृष्ण धृष्ण; धिणं धिणं