मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)
Mattavilasa Prahasana of Mahendravarman I
by पल्लव सम्राट् महेन्द्रविक्रमवर्मा (व्याख्या: रानी मजूमदार)
Page 38 of 100
Read in context२६ मत्तविलास-प्रहसन
आकरे सूक्तिरत्नानां यस्मिन् गुणगरीयसाम् ।
अर्हन्ति ११ बहुसूक्तानि सतां सारलघून्यपि ॥४॥
नटी—किं दाणि अय्येण विलम्बीअदि । णं अपुरुवदाए तुरिअं
अणुट्टिदव्वो अअं पओओ । [किमिदानीमार्येण विलम्ब्यते । नन्व-
पूर्वतया त्वरितमनुष्ठातव्योऽयं प्रयोगः ।]
सूत्रधार—अहं १२ तु—
सम्प्रति सङ्गीतधनः कविगुणकथयास्मि निघ्नतां नीतः ।
(नेपथ्ये)
प्रिये ! देवसोमे !
सूत्रधार—युवतिसख एष सुरया कपालविभवः कपालीव ॥५॥
(निष्क्रान्तौ)
॥ स्थापना ॥ १३.
(ततः प्रविशति सपरिग्रहः कपाली ।)
कपाली—(क्षीबतां रूपयित्वा) प्रिये ! देवसोमे ! सत्यमे-
वैतत् १४ तपसा कामरूपता प्राप्यत इति । यत् त्वया परमव्रतस्य
विधिवदनुष्ठानेनान्य एव रूपातिशयः क्षणात् प्रतिपन्नः । तव हि—
उद्भिन्नश्रमवारिबिन्दुवदनं सभ्रूलताविभ्रमं
खेलं यातमकारणानि हसितान्यव्यक्तवर्णा गिरः ।
रागाक्रान्तमधीरतारमलसापाङ्गं युगं नेत्रयो-
रंसोपान्तविलम्बिनश्च विगलन्मालागुणा मूर्धजाः ॥६॥
देवसोमा—भअवं ! मत्तं विअ मत्तं विअ मं भणासि । [भगवन् !
मत्तामिव मत्तामिव मां भणसि । ]
कपाली—किमाह भवती ।
देवसोमा—ण हु किञ्चि भणामि । [न खलु किञ्चद् भणामि ।]
कपाली—किन्नु खलु मत्तोऽस्मि ।
११. बहु अर्हन्ति वहमूल्यं प्राप्नुवन्ति, श्लाघामनलपां लभत इत्यर्थः ।
१२. हन्त सम्प्रति— १३. आमुखम् १४. —मेतत्