Skip to content
SarvaKosh
कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

कुमारसम्भवम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी अनुवाद)

Kumarasambhavam of Kalidasa with Hindi Commentary

by महाकवि कालिदास / पं. सीताराम चतुर्वेदी

DevanagariSanskritpublished268 pages

Page 20 of 268

Read in context
Page 20

कुमारसम्भवम्
—:०:—
पञ्चमः सर्गः
—:०:—
तथा समक्षं दहता मनोभवं
पिनाकिना भग्नमनोरथा सती ।
निनिन्द रूपं हृदयेन पार्वती
प्रियेषु सौभाग्यफला हि चारुता ॥१॥
मलिनाथकृता सञ्जीवनी टीका:—तथेति । पर्वतस्यापत्यं
स्त्री पार्वती तथा तेन प्रकारेण अक्ष्णोःसमीपे समक्षं पुरतः ।
'अव्ययं विभक्तिसमीपसमृद्धि'—इत्यादिनाव्ययीभावः । मनोभवं
मन्मथ दहता भस्म कुर्वता पिनाकिना ईश्वरेण भग्नमनोरथा भग्नः
खण्डितो मनोरथ अभिलाषो यस्या सा तथोक्ता सती हृदयेन
मनसा रूपं सौन्दर्य निनिन्द । धिङ् मे रूपं यद्धरमनोहरणाय नाल-
मिति गर्हितवतीत्यर्थ । युक्त चैतदित्याह—तथा हि । चारुता
सौन्दर्य प्रियेषु पतिषु विषये सौभाग्यफला सौभाग्यं प्रियवाल्लभ्यं
फलं यस्याः सा तथोक्ता । सौन्दर्यस्य तदेव फलं यद्धर्त्तृ सौभाग्यं
लभ्यते । नोचेद्विफलं तदिति भावः । अस्मिन् सर्गे वंशस्थं वृत्तम्—
'जतौ तु वंशस्थमुदीरितं जरौ' इति लक्षणात् ।
PROSE ORDER :—पार्वती तथा समक्षं मनोभवं दहता पिना-