Skip to content
SarvaKosh
कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

Kaushitaki Shankhayana Brahmana with Udaya Commentary

by महर्षि कौषीतकि (टीकाकार: उदयसूरि)

DevanagariSanskritpublished119 pages

Page 9 of 119

Read in context
Page 9

अथ
कौषीतकिब्राह्मणम्

अस्मिन् वै लोक उभये देवमनुष्या आसुः ।१। ते देवाः स्वर्गँल्लोकं यन्तोऽग्निमूचुः ।२।
त्वं नोऽस्य लोकस्याध्यक्ष एधीति ।३। तानग्निरुवाच ।४। अथ यद् वोऽहं घोरसंस्पर्श-
तमोऽस्मि ।५। अनपचायितारो मनुष्याः ।६। कथं वस्तद् भविष्यति यन्मनुष्येष्विति ।७।
ते देवा ऊचुः ।८। तस्य वै ते वयं घोरास्तनूर्विनिधास्यामः ।९। अथ यैव ते शिवा शग्मा¹
यज्ञिया तनूः ।१०। तयैह मनुष्येभ्यो भविष्यसीति ।११। तस्याप्सु पवमानामैदधुः ।१२।
वायौ पावकाम् ।१३। आदित्ये शुचिम् ।१४। अथ यैवास्य शिवा शग्मा¹ यज्ञिया तनूरासीत्
।१५। तयैह मनुष्येभ्योऽतपत् ।१६। एता वा अग्रेस्तन्वः ।१७। तद् यदेता देवता यजति
।१८। अनाप्रिः साङ्गः² सतन