सामग्री पर जाएँ
सर्वकोश
कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

Kaushitaki Shankhayana Brahmana with Udaya Commentary

महर्षि कौषीतकि (टीकाकार: उदयसूरि) द्वारा

DevanagariSanskritpublished119 पृष्ठ

पृष्ठ 10, कुल 119 में से

संदर्भ में पढ़ें
पृष्ठ 10

[पृष्ठम् २]

I, 3, १-5, ३ कौषीतकिब्राह्मणे 2
देवासुरा वा एषु¹ लोकेषु संयत्ता आसुः ।१। तेभ्योऽग्निरपाक्रामत् ।२। स ऋतून प्रवि-
शत् ।३। ते देवा हत्वासुरान् विजित्याग्निमन्वैच्छन् ।४। तं यमश्च वरुणश्चान्वपश्यताम् ।५।
तमुपामन्त्रयन्त ।६। तमज्ञपयन्न् ।७। तस्मै वरमददुः ।८। स हैतं वरं वव्रे ।९। प्रयाजान् मे
अनुयाजांश्च केवलान् घृतं चापां पुरुषं चौषधीनामिति ।१०। तस्मादाहुराग्रेयाः प्रयाजा-
नुयाजा आग्रेयमाज्यमिति ।११। ततो वै देवा अभवन् ।१२। परासुराः ।१३। भवत्यात्मना
।१४। परास्य द्वेष्यो य एवं वेद² ।१५। तदाहुः कस्मिन्नृतौ पुनरादधीतेति ।१६। वर्षास्विति
हैक आहुः ।१७। वर्षासु वै सर्वे कामाः ।१८। सर्वेषामेव कामानामाप्त्यै ।१९। मध्यावर्षं
पुनर्वसू नक्षत्रमुदीक्ष्य पुनरादधीत ।२०। पुनर्मा वसु वित्तमुपनमत्विति ।२१। अथो पुनः
कामस्योपाप्त्यै ।२२। तद् वै न तस्मिन् काले पूर्वपक्षे पुनर्वसुभ्यां संपद्यते ।२३। यैवेषाषाढ्या
उपरिष्टादमावास्या भवति ।२४। तस्यां पुनरादधीत ।२५। सा पुनर्वसुभ्यां संपद्यते ।२६।
उपाप्तोऽमावास्यायां कामो भवति ।२७। उपाप्तो वर्षासु ।२८। उपाप्तः पुनर्वस्वोः ।२९।
तस्मात् तस्यां पुनरादधीत ।३०। पञ्चकपालः पुरोडाशो भवति ।३१। पञ्चपदा पङ्क्तिः
।३२। पाङ्क्तो वै यज्ञो यज्ञस्यैवाप्त्यै ।३३ ॥३॥
¹ IO. त्रिषु ² L. P. Here ends Khaṇḍa 2

विभक्तिभिः प्रयाजानुयाजान् यजति ।१। ऋतवो वै प्रयाजानुयाजाः ।२। ऋतुभ्य एनं
तत् समाहरति ।३। अग्र आ याहि वीतयेऽग्निं दूतं वृणीमहेऽग्निनाग्निः समिध्यतेऽग्निर्वृत्राणि
जङ्घनदग्नेः स्तोमं मनामहेऽग्ना यो मर्त्यो दुव इत्येतासामृचां प्रतीकानि विभक्तयः ।४। ता
वै षड् भवन्ति ।५। षड् वा ऋतवः ।६। ऋतुभ्य एवैनं तत् पुनः समाहरति¹ ।७। यथायथ-
मृत्तमौ प्रयाजानुयाजौ यजति² ।८। तथा हास्य प्रयाजानुयाजेभ्योऽनितं भवति ।९। वार्त्रघ्नः
पूर्वं आज्यभागः पाप्मन एव वधाय ।१०। अथो हास्य पौर्णमासात् तन्नादनितं भवति
।११। अग्निं स्तोमेन बोधयेत्यग्नये बुद्धिमते पूर्वं कुर्यादिति हैक आहुः ।१२। स्वपितीव वा
एतस्याग्निर्जोऽग्निमुद्वासयते ।१३। तदेवैनं तत् पुनः प्रबोधयतीति ।१४। वार्त्रघ्नस्त्वेव स्थितः
।१५। अग्न आयूंषि पवस इत्युत्तरस्य पुरोनुवाक्या ।१६। पवस इति तत् सौम्यं रूपम्
।१७। केवलाग्रेयो हि यज्ञक्रतुः ।१८। तद् यत् पवमानस्य कीर्तयति ।१९। तथा हास्य
सौम्यादाज्यभागादनितं भवति ।२० ॥४॥
¹ L. P. add इति ² L. P. omit

पञ्चसूक्त्यो याज्यापुरोनुवाक्याः ।१। पञ्चपदा पङ्क्तिः ।२। पाङ्क्तो वै यज्ञो यज्ञस्यैवाप्त्यै¹


[पृष्ठम् ३]

3 अग्न्याधानम् I, 5, ४-२६
।३। व्यतिषक्ता भवन्ति ।४। व्यतिषक्ता इव वा इमे प्राणा आत्मानं भुञ्जन्तीति ।५। सा
सर्वैव ससामिधेनीकोपांशु भवत्यापूर्वाभ्यामनुयाजाभ्याम् ।६। आ ह्यतो विभक्तयोज्नुप्रोता
भवन्ति ।७। अथो सर्वे वै कामा विभक्तिषु ।८। तस्मादुपांशु भवन्ति ।९। सर्वेषामेव
कामानामाप्त्यै ।१०। उच्चैस्त्वेवोत्तमेनानुयाजेन यजति ।११। उच्चैः सूक्तवाकशंयुवाकावाह²
।१२। तद् यथाविदमित्याविर्नष्टं कुर्यात् ।१३। एवं तदाविः कामान् करोत्यापमिति ।१४।
त्र्यमु हैक उपांशु कुर्वन्ति विभक्तीरुत्तरमाज्यभागं हविरिति ।१५। एतावद्ध्यागन्तु
भवतीति ।१६। सा वा उपांशु निरुक्ता भवति ।१७। द्वयं वा अग्रे रूपं निरुक्तं चानिरुक्तं
च ।१८। तदेवास्य तेनाप्नोति ।१९। सर्वप्रियं हैके कुर्वन्ति ।२०। न तथा कुर्यात् ।२१। तस्यै
पुनरुत्यूतो जरत्संव्यायः पुनःसंस्कृतः कद्रयोजनङ्गान हिरण्यं वा दक्षिणा ।२२। पुनः-
कर्म ह्येतत् ।२३। आदित्या द्वितीया ।२४। प्रतिष्ठा वा अदितिः ।२५। प्रतिष्ठित्यै एव
प्रतिष्ठित्या एव ।२६ ॥५॥
¹ L. P. Here ends Khaṇḍa 4 ² L. P. °शंयोर्वाका°

इति प्रथमदशके प्रथमोऽध्यायः