कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)

कौषीतकि ब्राह्मण (शाङ्खायन ब्राह्मण - उदय प्रणीत व्याख्या सहित सटीक)
Kaushitaki Shankhayana Brahmana with Udaya Commentary
महर्षि कौषीतकि (टीकाकार: उदयसूरि) द्वारा
DevanagariSanskritpublished119 पृष्ठ
पृष्ठ 63, कुल 119 में से
संदर्भ में पढ़ेंपृष्ठ 63
108
XXIII, 1, १–२, १६ कौषीतकिब्राह्मणे 108
अन्तस्तृतीयमहः ।१। ते देवा अन्तं गत्वा चतुर्थमहंरैच्छन् ।२। तस्मादिच्छद्धन्¹ ।३।
तद्विश्वाविन्दन् ।४। तस्माद् वित्तवत्² ।५। तदाहुर्यदन्तस्तृतीयमहरथ कस्माच्चतुर्थेऽहन्
न्यूर्ङ्गयतीति ।६। वाच ३-एव तदायतनं³-विराजो⁴ यच्चतुर्थमहः ।७। अन्नं विराडन्नं
न्यूर्ङ्गः ।८। अन्नमेव तद् यज्ञे च⁵ यजमानेषु च दधाति ।९। अथो आप्यते⁶ वै तृतीयेनाह्ना
वाक् ।१०। तामेवैतच्चतुर्थेऽहन् विभावयति ।११। यथाप्रस्तमं विनयेदेवं तत् ।१२। वाचो⁷
विभूत्यै ।१३। तस्यैतानि छन्दोरूपाणि ।१४। सम्राडुद् विराडुद्⁸ स्वराडुज्जातवद्भूतिमद्⁹
वीतिमत् परिवद्वभिवदुपवदिति ।१५। आग्