Skip to content
SarvaKosh
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

Kathasaritsagara Part 2 (Lambaka 6–18)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 988 of 1079

Read in context
Page 988

१३४ कथासरित्सागर
नवमस्तरङ्गः
नरवाहनदत्ताय गोमुखकथिता विविधाः कथाः
अथान्येषु पुनरिमां निशि प्राग्वद्विनोदयन्।
नरवाहनदत्ताय गोमुखोऽकथयत् कथाम् ॥१॥
बोधिसत्त्वांशस्य वणिजः कथा
बभूव नगरे क्वापि बोधिसत्त्वांशसम्भवः।
कस्याप्याढ्यस्य वणिजस्तनयो मृतमातृकः ॥२॥
अन्यजायाप्रसक्तेन पित्रा तत्प्रेरितेन सः।
निरस्तो वनवासाय सभार्यो निरगाद् गृहात् ॥३॥
स्वानुजं तु सहायातं तद्विप्रा निराकृतम्।
अक्षान्तचित्तमुत्सृज्य सोऽन्येनेव पथा ययौ ॥४॥
प्रव्रजंश्च क्रमात् प्राप निस्तोयतृणपादपम्।
पाथेयहीनश्चण्डांशुतप्तां मरुमहाटवीम् ॥५॥
तस्यां व्रजन् स सप्ताहं भार्यां क्लान्तां क्षुधातृषा।
अजीवयत् स्वमांसास्रैः पापा साम्याहरच्च सा ॥६॥
अष्टमेऽह्नि सरिद्वीचिवाचालं गिरिकाननम्।
प्राप सत्फलसञ्छायपादपं स्निग्धशाद्वलम् ॥७॥
तत्र सम्भाव्य भार्या तां क्लान्तां भूरुहफलाम्बुभिः।
अवातरद् गिरिनदीं स्नातुं कल्लोलमालिनीम् ॥८॥
तस्यां ददर्श च छिन्नहस्तपादचतुष्टयम्।
ह्रियमाणं जलौघेन पुरुषं त्राणकाङ्क्षिणम् ॥९॥
बहूपवासक्लान्तोऽपि तां विगाह्य नदीं ततः।
उज्जहार कृपालुस्तं महासत्त्वः स पूरुषम् ॥१०॥
केनेदं ते कृतं भ्रातरिति कारुणिकेन च।
तेनारोप्य स्थलं पृष्टः स रुवन् पुरुषोऽभ्यधात् ॥११॥
निकृत्तहस्तचरणो नद्यां क्षिप्तोऽस्मि शत्रुभिः।
विट्सुभिः क्लेशमरणं त्वयाहं सुखतस्ततः ॥१२॥
एवमुक्तवतस्तस्य स बबन्ध व्रणपट्टिकाम्।
दत्त्वाहारं महासत्त्वः स्नानादि व्यधितात्मनः ॥१३॥