कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 875 of 1079
Read in context८२६ कथासरित्सागर
स च निष्कृष्य तं भिल्लः क्रूरकर्मा पराक्रमी।
प्रातर्देव्युपहारार्थं बबन्ध सुदृढं तरौ ॥१५८॥
भुक्त्वा च पश्यतस्तस्य रात्रौ तद्भार्यया सह।
स समासेव्य सुरतं सुखं सुष्वाप तद्गृहे ॥१५९॥
तं दृष्ट्वा सुप्तमीर्ष्यालुः स पुमांस्तारुसङ्गतः।
चण्डीं स्तुतिभिरभ्यर्च्य ययौ शरणमार्त्तितः ॥१६०॥
साविर्भूय वरं तस्मै तं ददौ येन तस्य सः।
तत्खङ्गेनैव भिल्लस्य स्रस्तबन्धोऽच्छिनच्छिरः ॥१६१॥
एहीदानीं हतः पापो मयायमिति सोऽथ ताम्।
प्रबोध्य भार्यां वक्ति स्म साप्युत्तस्थौ सुदुःखिता ॥१६२॥
गृहीत्वा तस्य च शिरो भिल्लस्यालक्षितं निशि।
ततः प्रतस्थे कुस्त्री सा परया तेन सहैव च ॥१६३॥
प्रातश्च नगरं प्राप्य दर्शयन्ती शिरोऽत्र तत्।
भर्त्ता हतो मेऽनेनेति चक्रन्दाक्रम्य तं पतिम् ॥१६४॥
ततः स नीतस्तद्युक्तो राजाग्रे पुररक्षिभिः।
पृष्टस्तत्र यथावृत्तमीर्ष्यालुस्तदवर्णयत् ॥१६५॥
राजाथ तत्त्वमन्विष्य च्छेदयामास कुस्त्रियः।
तस्याः कर्णौ च नासां च तत्पतिं च मुमोच तम् ॥१६६॥
स मुक्तः स्वगृहं प्रायात्कुस्त्रीस्नेहग्रहोज्झितः।
एवं हि कुरुते देव योषिदीर्ष्यानिमन्त्रिता ॥१६७॥
शिक्षयन्त्यन्यपुरुषप्रसङ्गमीर्ष्यैव हि स्त्रियः।
तदीर्ष्यामप्रकाश्यैव रक्ष्या नारी सुबुद्धिना ॥१६८॥
रहस्यं च न वक्तव्यं वनितासु यथा तथा।
पृष्टेनापृच्छता क्षेममत्र च श्रूयतां कथा ॥१६९॥
नागपद्मयोः कथा
नागः कश्चित् पुराप्यासीत् कुत्रचिद् गणिकागृहे।
मानुषं रूपमास्थाय वैनतेयभयाद् भुवि ॥१७०॥
गणिकाप्यग्रहीद् भाटि सा हस्तिशतपञ्चकम्।
स्वप्रभावाच्च तस्यै स नागः प्रत्यहं ददौ ॥१७१॥
कुतोऽन्वहमियन्तस्ते हस्तिनो ब्रूहि को भवान्।
इति निर्बध्नती नाथं तं पप्रच्छ विलासिनी ॥१७२॥