कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
Kathasaritsagara Part 2 (Lambaka 6–18)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 781 of 1079
Read in context७३४ कथासरित्सागर
ततो निवेश्य बद्धां तां रन्तुमाश्लिष्यति स्म सः।
मज्जति स्म च सा तेन प्रार्थ्यमाना जगाद च ॥१९६॥
लताभिस्ताडिता बद्ध्वा यथाहं भवता तथा।
यद्यहं ताडयेयं त्वां तत इच्छामि नान्यथा ॥१९७॥
तथेति प्रतिपेदे तच्च न व्यसनमोहितः।
तृणसारीकृतश्चित्रं वध्यसारो मनोभुवा ॥१९८॥
तत संहस्तपादं तं सा बबन्ध दृढं तरौ।
सच्छस्त्रेणैव बद्धस्य कर्णनासं चकर्त सा ॥१९९॥
गृहीत्वा तस्य शस्त्रं च वासांसि च विधाय च।
पापा पुरुषवेषं सा यथाकाममगात्ततः ॥२००॥
वध्यसारस्तु तत्रासीच्छिन्नश्रवणनासिकः।
गलत्क्षाणिताङ्गेन मानेन च नताननः ॥२०१॥
अथ तत्रागतः कश्चिदौषध्यर्थं वने भिषक्।
दृष्ट्वा तं रूपमोन्मुच्य साधुः स्व नीतवान्गृहम् ॥२०२॥
तत्र पाश्वासितस्तेन शनैः स्वगृहमागमत्।
स वध्यसारो न च तां विन्दप्राप कुगेहिनीम् ॥२०३॥
अवर्णयच्च स तस्मै वृत्तान्तं श्रेष्ठनाय सः।
तेनापि वत्सराजाग्रे कथितं सर्वमेव तत् ॥२०४॥
अय निष्पौरुषामर्षः स्त्रीमूढ इति भार्यया।
पुंवेषोऽस्य कृतो नूनं निग्रहश्चोचितः कृतः ॥१०५॥
इति राजकुले सर्वजनोपहसितोऽपि सः।
वध्यसार इहास्ते वध्यसारेण चेतसा ॥१ ६॥
तदेवं कस्य विश्वासः स्त्रीषु दवेति गोमुखः।
उक्तवानथ भूयोऽपि जगाद मरुभूतिकः ॥१ ७॥
राज्ञः सिंहबलस्य राज्ञ्याः कल्याणवत्याश्च कथा
अप्रतिष्ठं मनः स्त्रीणामत्रापि श्रूयतां कथा।
पूर्वं सिंहबलो नाम राजाभूद्दक्षिणापथे ॥१ ८॥
तस्य कल्याणवत्याख्या सर्वान्तःपुरयापिताम्।
प्रिया माण्डलिकमन्तसुता भार्या बभूव च ॥१ ९॥