कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५)
Kathasaritsagara Part 1 (Lambaka 1–5)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : प्रथम खण्ड (लम्बक १ से ५) · बिहार राष्ट्रभाषा परिषद्, पटना · 1960 (origin)
Page 335 of 876
Read in context२९४ कथासरित्सागर
तत साचीकृतवध्वा मुखेन वस्मितभ्रुवा।
दृष्ट्वा निवार्य वामेन करेण तमूवाच सा॥१२८॥
हुं शान्तमेतदर्थोऽय वपस्तत्र च मा स्म गाः।
किं सया मामुपैहि त्वमहं हि तव गेहिनी॥१२९॥
इत्युक्तः पुल्कोत्कम्पसलोभाकुलया तया।
आविष्टयेव तन्मन्त्रदूतदुद्रुह्यापि सः॥१३०॥
प्रविश्य वासक सञ्चस्तयश्च सममन्वभूत्।
मर्त्योऽपि दिव्यसम्भोगमसस्पृष्ट मनोरथः॥१३१॥
इत्थ तां प्राप्य सप्रेमां मन्त्रसिद्धिप्रसाधिताम्।
त्यक्तदिव्यस्थितिं तस्थौ गृह्यन्त्रो यथासुखम्॥१३२॥
एवं यागप्रदानादिसुकृतेः शुभकर्मणाम्।
दिव्याः शापच्युता नायस्तिष्ठन्ति गृहिणीपदे॥१३३॥
देवद्विजसपर्या हि कामधेनुर्मता सताम्।
किं हि न प्राप्यते तस्याः कृपा सामानिबन्धनम्॥१३४॥
भुङ्क्त रवयि दिव्यानामप्युच्चपदजं मनाम्।
प्रवातमिक पुष्यानामधःपातक्तकारणम्॥१३५॥
इत्युक्त्वा राजपुत्र्याः स पुमराह् वसन्तकः।
किं चात्र यहसत्याया वृत्तं तच्छ्रूयतामिदम्॥१३६॥
अहल्याकथा
पुरामूद् गौतमो नाम त्रिकालज्ञो महामुनिः।
अहल्याति च तस्यासीद् भार्या रूपजिताप्सराः॥१३७॥
एकदा रूपमुग्धस्तामिन्द्रः प्रार्थितवान् रहः।
प्रभूणां हि विभूत्यन्धा भ्रावन्त्यविषय मतिः॥१३८॥
सानुमेग च स मूढा रूपस्यन्ती शचीपतिम्।
तच्च प्रभावतो बुद्धवा तत्रागाद् गौतमो मुनिः॥१३९॥
मार्जाररूप चक्रे च मयादिन्द्रोऽपि तत्क्षणम्।
कः स्थितोऽत्रेति सोऽपृच्छदहल्यामथ गौतमः॥१४०॥
एसो' ठिओ सु मज्जारो इत्यपभ्रष्टवक्तया।
गिरा सत्यानुरोधिन्या सा तं प्रत्यब्रवीत्त्वविम्॥१४१॥
१ 'एषस्थितः खलु मार्जार' इतिच्छाया।