काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 15, कुल 828 में से
संदर्भ में पढ़ेंधात्वेकदेशो धातुस्तस्य लोपो यस्मिन्चार्धधातुके तदार्धधातुकं धातु-
लोपं तत्र ये गुणवृद्धी प्राप्नुतस्ते न भवतः । लोलुवः । पोपुवः । मरीमृजः ।
लोलूयादिभ्यो यङन्तेभ्यः पचाद्यचि विहिते यङोऽचि चेति यङो लुकि कृते तमे-
वाचमाश्रित्य ये गुणवृद्धी प्राप्ते तयोः प्रतिषेधः । धातुग्रहणं किम् । लूनं ।
लवित्रा । रेडसि । पर्णे नयेः । अनुबन्धप्रत्ययलोपे मा भूत् । रिषेर्हिंसार्थस्य
विच्प्रत्ययलोपउदाहरणं रेडिति । आर्धधातुक इति किम् । त्रिधा बद्धो वृषभो
रोरवीति । सार्वधातुके मा भूत् । इक इत्येव । अभञ्जि । रागः ॥
क्ङिति च ॥ ५ ॥
निमित्तसप्तम्येषा । क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवतः । चितः ।
चितवान् । स्तुतः । स्तुतवान् । भिन्नः । भिन्नवान् । मृष्टः । मृष्टवान् । ङिति
खल्वपि । चिनुतः । चिन्वन्ति । मृष्टः । मृजन्ति । गकारोप्यत्र चर्त्वभूतो निर्दि-
श्यते । ग्लाजिस्थश्च क्स्नुः । जिष्णुः । भूष्णुः । इक इत्येव । कामयते । लैग-
वायनः । मृजेरजादौ संक्रमे विभाषा वृद्धिष्यते । संक्रमो नाम गुणवृद्धिप्रतिषे-
धविषयः । परिमृजन्ति । परिमार्जन्ति । परिमृजन्तु । परिमार्जन्तु । लघूप-
धगुणस्याप्यत्र प्रतिषेधः । अचिनवमसुनवमित्यादौ लकारस्य सत्यपि ङित्त्वे
यासुटो ङिद्वचनं ज्ञापकं ङित्कार्ये यत्तल्लकारे ङिति न भवतीति ॥
दीधीवेवीटाम् ॥ ६ ॥
दीधीवेव्योरिटश्च ये गुणवृद्धी प्राप्नुतस्ते न भवतः । आदीध्यनम् । आदी-
ध्यकः । आवेव्यनम् । आवेव्यकः । इटः खल्वपि । श्वः कषिता । श्वो रक्षिता
वृद्धिरिटो न संभवतीति लघूपधगुणस्यात्र प्रतिषेधः ॥
हलो ऽनन्तराः संयोगः ॥ ७ ॥
भिन्नजातीयैरग्भिरव्यवहिताः श्लिष्टोच्चारिता हलः संयोगसंज्ञा भवन्ति
समुदायः संज्ञी । जातौ चेदं बहुवचनं तेन द्वयोर्बहूनां च संयोगसंज्ञा सिद्धा
भवति । अग्निरिति ग्नौ । अश्म इति श्मौ । कर्ण इति र्णौ । इन्द्रश्चन्द्रो
मन्द्र इति न्द्राः । उष्ट्रो राष्ट्रं भ्राष्ट्रमिति ष्ट्राः । तिलांस्त्वावपतीति न्स्त्वा-
तर्याः । नसतरया वा । हल इति किम् । तितउच्छत्त्रम् । संयोगान्तस्य लोप
इति लोपः स्यात् । अनन्तरा इति किम् । पचति पनसम् । स्कोः संयोगाद्यो-
रिति लोपः स्यात् । संयोगप्रदेशाः संयोगान्तस्य लोप इत्येवमादयः ॥
मुखनासिकावचनो ऽनुनासिकः ॥ ८ ॥
मुखसहिता नासिका मुखनासिका तया य उच्चार्यते वर्णः सो ऽनुनासिक-
संज्ञो भवति । आङोऽनुनासिकश्छन्दसि । अध्वाँ अपः । गभीराँ उदपुचे ।