सामग्री पर जाएँ
सर्वकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 14, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 14

॥ काशिका ॥ १ । १ ॥ ५
ग्रहणं यथा स्यात् । हशि चेति हकारस्य ग्रहणं यथा स्यात् । ब्रह्मको हसति ।
हशि चेति उत्वं यथा स्यात् ।
एकस्मान् ङञणवटा द्वाभ्यां षस्त्रिभ्य एव कणमाः स्युः ।
ज्ञेयो चयो चतुर्थे रः पञ्चभ्यः शलो षड्भ्यः ॥
इति । इति प्रत्याहारः ॥
॥ अथ प्रथमाध्यायस्य प्रथमः पादः ॥
🙞🙢---🙞🙢---
वृद्धिरादैच् ॥ १ ॥
वृद्धिशब्दः संज्ञात्वेन विधीयते प्रत्येक्रमादैचां वर्णानां सामान्येन तद्भा-
वितानामतद्भावितानां च । तपरकरणमैजर्थं तादपि परस्तपर इति खट्वेड़कादिषु
त्रिमात्रचतुर्मात्रप्रसङ्गनिवृत्तये । आश्वलायनः । ऐतिकायनः । औपगवः । औपम-
न्यवः । शालीयः मालीया । वृद्धिप्रदेशाः सिचि वृद्धिः परस्मैपदेष्वित्येवमादयः ॥
अदेङ् गुणः ॥ २ ॥
गुण शब्दः संज्ञात्वेन विधीयते प्रत्येकमदेङां वर्णानां सामान्येन तद्भा-
वितानामतद्भावितानां च । तपरकरणं त्विह सर्वार्थम् । तरिता । चेता ।
स्तोता । पचति । जयति । अहं पचे । गुणप्रदेशा मिदेर्गुण इत्येवमादयः ॥
इको गुणवृद्धी ॥ ३ ॥
परिभाषेयं स्थानिनियमार्था । अनियमप्रसङ्गे नियमो विधीयते । वृद्धि-
गुणौ स्वसंज्ञया शिष्यमाणाविक एव स्थाने वेदितव्यौ * ॥ वक्ष्यति सार्वधातु-
कार्द्धधातुकयोः अङ्गस्य गुण इति स इक एव स्थाने वेदितव्यः । तरति ।
जयति । भवति । वृद्धिः श्ल्यपि । अकार्षीत् । अहार्षीत् । अचेषीत् । अने-
षीत् । अलावीत् । असावीत् । गुणवृद्धी स्वसंज्ञया विधीयेते तत्र इक इति
षष्ठ्युपस्थितं द्रष्टव्यम् । किं कृतं भवति । द्वितीया षष्ठी प्रादुर्भाव्यते । मिदि-
मृजिपुगन्तलघूपधर्च्छिदृशिक्षिपिक्षुद्रेष्वङ्गेनेतिविशेष्यते । जुसिसार्वधातुकादिष्वि-
ग्विकार्यं विशेष्यते । मेद्यते । शकिभ्यः† । इक इति किम् । द्यत्सनद्ध्यह-
ष्वाञ्जनानां मा भूत् । यानम् । स्नावति । उम्भिता । पुनर्गुणवृद्धिग्रहणं स्वसं-
ज्ञया विधाने नियमार्थम् । इह माभूत् । द्यौः । पन्थाः । सः । इमन्निति ॥
न धातुलोपआर्धधातुके ॥ ४ ॥

  • अवत इति वेदितव्यम् । पा० ।
    † गुणवृद्धी इत्यारभ्याङिमपुरस्तमाः पाठो बहुषु पुस्तकेषु नोपलभ्यते ।