कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 118, कुल 172 में से
संदर्भ में पढ़ें११२ कर्पूरमञ्जरी
इमा मसीकज्जलकालकाआ तिकंडचावाउ विलासिणीओ ।
पुलिंदरूवेण जणस्स हासं समोरपिच्छाभरणा कुणंति ॥ १३ ॥
हत्थे महामंसवलीधराओ हुंकारफेक्काररवा रउद्वा ।
णिसाअरीणं पडिसीसएहिं अण्णा मसाणाभिणअं कुणंति ॥ १४ ॥
का वि घामिदकरालहुडुक्का रम्ममद्दलर्वेण मअच्छी ।
१दोल्लआहिं पडिवाडिचलाहिं चल्लिकम्मकरणम्मि पअट्टा ॥ १५ ॥
किंकिणीकझणज्झणसद्दा कंठगीदलअजंतिदताला ।
जोगिणीवलअणच्चणकेलिं तालणेउररवं विरअंति ॥ १६ ॥
कोदुहल्लवसजंगमवेसा वेणुवादणपरा अवराओ ।
फालवेसयसहासिलोआ ओसरंति पणमंति हसंति ॥ १७ ॥
(विहस्य ।)
सारङ्गिका—(पुरोऽवलोक्य ।) एसो महाराओ पुणो मेरगअपूं-
जंजादो कदलीघरं अणुप्पविट्ठो । ता अग्गदो गदुअ देवीए विण्णविअं वि-
इमा मषीकज्जलश्यामकायास्त्रिकाण्डचापाश्च विलासिन्यः ।
पुलिन्दरूपेण जनस्य हासं समयूरपिच्छाभरणाः कुर्वन्ति ॥
हस्ते महामांसबलिधारिण्यो हुंकारफेत्काररवा रौद्राः ।
निशाचरीणां प्रतिशीर्षकैरन्याः श्मशानाभिनयं कुर्वन्ति ॥
कापि वादितकरालहुडुक्का रम्यमर्दलरवेण मृगाक्षी ।
भ्रूलताभ्यां परिपाटीचलाभ्यां चेटीकर्मकरणे प्रवृत्ता ॥
किङ्किणीक्वणद्रणज्झणशब्दाः कण्ठगीतलययन्त्रिततालाः ।
योगिनीवलयनर्तनकेलिं तालनूपुररवं विरचयन्ति ॥
कौतूहलवशचञ्चलवेषा वेणुवादनपरा अपराः ।
कालवेषत्रसद्धासितलोका अपसरन्ति प्रणमन्ति हसन्ति ॥
सारङ्गिका—
एष महाराजः पुनर्मरकतपुञ्जमेव गतः । कदलीगृहं चानुपविष्टः । तदग्रतो
१ 'भूलदाहिं' इति टीकापाठः । २ ' 'चञ्चलवेसा' इति टीकाधृतपाठः । ३ 'मरगअपूञ्जं
जेव गदो । कदलीघरं अ' इति टीकापाठः ।