कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
पृष्ठ 119, कुल 172 में से
संदर्भ में पढ़ेंचतुर्थं जवनिकान्तरम् ११३
णावेमि । ( उपसृत्य । ) जयदु जयदु भट्ठा । देवी विष्णवेदि जहा
सायंसमए तुम्हे परिणाइदव्व त्ति ।
विदूषकः—भोदि ! किं एदं अकंडकुम्हंडपडणं ?
राजा—सारंगिए ! सव्वं वित्थरेण कहेसु ।
सारङ्गिका—एदं विष्णवीअदि,—अणंतरादिक्कंतचउद्दसीदिवसे
देवीए पोम्मराअमाणिक्कमअं गोरिं कट्टुण भइरवाणंदेण पडिट्ठाविदा ।
सअं च दिक्खा गहिदा । तदा ताए विण्णत्तो जोईसरो गुरुदक्खिणा-
णिमित्तं । भणिदं च तेण—जदि अवस्सं गुरुदक्खिणा दाअव्व ता एसा
दीअदु महाराअस्स । तदो देवीए विण्णत्तं जं आदिसदि भअवं तं काअव्वं ।
पुणो वि उल्लविदं तेण । अत्थि एत्थ लाडदेसम्मि चंडसेणो णाम राआ ।
तस्स दुहिदा घणसारमंजरि त्ति । सा देवण्णएहिं आदिट्ठात्ति—एसा चक्क-
वट्टिघरिणी भविस्सदि त्ति । तदो सा महाराएण परिणेदव्वा जेण गुरु-
गत्वा देवीविज्ञापितं विज्ञापयामि । जयतु जयतु भर्ता । देवी विज्ञापयति यथा
संध्यासमये यूयं मया परिणेतव्या इति ।
विदूषकः—
भवति ! किमेतदकालकूष्माण्डपतनम् ?
राजा—
सारङ्गिके ! सर्वं विस्तरेण कथय ।
सारङ्गिका—
इदं विज्ञाप्यते,—अनन्तरातिक्रान्तचतुर्दशीदिवसे देव्या पद्मरागमणिमयीं गौरीं
कृत्वा भैरवानन्देन प्रतिष्ठापिता । स्वयं च दीक्षा गृहीता । ततस्तया विज्ञप्तो योगीश्वरो
गुरुदक्षिणानििमत्तम् । भणितं च तेन यद्यवश्यं गुरुदक्षिणा दातव्या तदेषा दीयतां
महाराजाय । ततो देव्या विज्ञप्तं यदादिशति भगवान् [तत्कर्तव्यम्] । पुनरप्यु-
ल्लपितं तेन । अस्त्यत्र लाटदेशे चण्डसेनो नाम राजा । तस्य दुहिता घनसारमञ्जरी
इति । सा दैवज्ञैरादिष्टा एषा चक्रवर्तिगृहिणी भविष्यतीति । ततो महाराजेन
1 'जूयं मए' इति टीकासंमतः पाठः । 2 'अकाण्डोर्वारुक' इति टीकानु-
सारी पाठः । 3 'भअवणिं' इति टीकापाठः ।
क० म० ८