कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
श्रीमत्पुण्यानन्दाचार्यविरचितः १७
माता मानं मेयं
बिन्दुत्रयं भिन्नबीजरूपाणि ।
धामत्रय-पीठत्रय-
शक्तित्रयभेदभावितान्यपि च ॥१३॥
तेषु क्रमेण लिङ्ग-
त्रयं तद्वच्च मातृकात्रितयम् ।
इत्थं त्रितयपुरीया
तुरीयपीठा च भेदिनी विद्या ॥१४॥
माता अवकाशगत ईश्वरः, मानं तदवगतिसाधनभूता
विद्या, मेयं ज्ञायमाना महात्रिपुरसुन्दरी, एवं मातृमानमेय-
भावम् अनुभूय विहरति । धामत्रयं वाग्भवादिकम्, पीठत्रयं
कामगिर्यादि, शक्तित्रयम् इच्छादि, एवमादिभेदेन भावि-
तानि, बिन्दुमत्वात् एतेषां, तेषु धामादिषु विभिन्नेषु, क्रमेण
आनुपूर्व्या, लिङ्गत्रयं स्वायंभुवादि, मातृकात्रितयमकारवि-
भेदभिन्नम्, एवंविधसमस्तवस्तुपूरणात् तत्समष्टिरूपा त्रिपुरा
नाम पराशक्तिराविर्भूता, इत्याह - इत्थं त्रितयपुरीया इति,
३
१८ कामकलाविलासः
इत्थं पूर्वोक्तप्रकारेण त्रितयानि अवयवानि पुराणि शरी-
राणि यस्याः सा, अत एव तुरीयस्य पीठा - त्रिविधात्मक-
सर्वप्रपञ्चाविर्भावतिरोभावभूरित्यर्थः ॥ १३-१४ ॥
इतः परं, तस्मात् गगनसमीरणदहनोदकभूमिवर्णसंभूति-
रिति प्रथमसृष्टप्रपञ्चभूतनिष्ठगुणवर्णनद्वारा अक्षरसंख्यावि-
शिष्टमहामन्त्रात्मकदेवतास्वरूपं वक्तुमारभते
शब्द-स्पर्शौ रूपं
रस-गन्धौ चेति भूतसूक्ष्माणि ।
व्यापकमाद्यं व्याप्यं
तूत्तरमेव क्रमेण पञ्चदश ॥ १५ ॥
पञ्चदशाक्षररूपा
नित्या चैषा हि भौतिकाभिमता ।
नित्याः शब्दादिगुण-
प्रभेदभिन्नास्तथानया व्याप्ताः ॥ १६ ॥
नित्यास्तिथ्याकारा-
स्तिथयश्च शिवशक्तिसमरसाकाराः ।
श्रीमत्पुण्यानन्दाचार्यविरचितः १९
दिवसनिशामय्यस्ताः
श्रीवर्णास्तेऽपि तद्द्वयीरूपाः ॥ १७ ॥
शब्द आकाशगुणः, स्पर्शो वायुगुणः, रूपं तेजोगुणः,
रसोऽपां गुणः, गन्धः पृथ्वीगुणः, आकाशमारभ्य एते गुणाः
पृथ्वीपर्यन्तम् उत्तरोत्तरम् एकैकगुणाधिक्येन पञ्चदश गुणाः
संपद्यन्ते, एतेषां गुणानां पञ्चदशभावेन श्रीविद्या पञ्चदशाक्षरी
जाता । भौतिकाभिमता भूतसंबन्धित्वेन अभिमता इष्टा ।
अत एव पञ्चदशाक्षररूपा स्वस्मात् आदिभूतगुणानां पञ्चद-
शत्वात् विद्याक्षराणामपि पञ्चदशत्वम् तद्रूपा तत्स्वरूपिणी ।
नित्या कूटस्था तरङ्गबुद्बुदफेनानाम् अम्बुधिरिव सकल-
त्वाविर्भावभूमिरित्यर्थः । कूटस्थाया एव षोडश्याः पञ्चद-
शावयवात्मकपञ्चदशतिथिनिष्ठान्तः । पञ्चदशदेवतामयपञ्चद-
शाक्षरीरूपतामाह – नित्यास्तिथ्याकारा इति, नित्याः कामे-
श्वरप्रभृतिविश्रान्ताः, तिथ्याकाराः तिथ्यभिमानिन्यो
देवताः । तिथयश्च प्रतिपत्प्रभृतिपूर्णिमान्ताः, शिवशक्तिसम-
रसाकाराः प्रकाशविमर्शसंपुटाकाराः । अत एव दिवस-
निशामय्यः – दिवारात्रिरूपाः प्रकाशविमर्शयोर्दिवारात्रिमय-
त्वात्, तास्तिथयः श्रीवर्णाः, तेऽपि तेन पूर्वोक्तरूपेण पञ्च-
दशरूपाः श्रीवर्णाः – विद्यान्तर्गतवर्णगुणा अपि तद्द्वयी-
२० कामकलाविलासः
रूपाः तादृशप्रकाशविमर्शरूपा इत्यर्थः । अयमत्र विवेकः -
इयमेव प्रकाशविमर्शमयी परा शक्तिः पञ्चभूतात्मिका उत्तरो-
त्तरवृद्धिद्वारा पञ्चदशसंख्याकमात्राक्षरतिथ्यभिमानदेवतास्व-
रूपिणी जाता । यथागमः
‘ एक एव प्रकाशाख्यः परः कोऽपि महेश्वरः ।
यस्य शक्तिर्विमर्शाख्या सा नित्या गीयते बुधैः ॥
विमर्शाख्या च सा देवी पाञ्चविध्यं समागता ।
आकाशानिलसप्तार्चिःसलिलावनिभेदतः ॥
एकैकगुणवृद्ध्या तु तिथिसंख्यात्वमागता ।
विमर्शरूपिणी विद्या षोडशी या प्रकीर्तिता ।
गता सा षोडशैर्भेदैस्त्रिपुरा परमेश्वरी ॥
सुन्दर्यादिमह.........वां विचित्रान्तं समन्ततः ।
स्वागमादेव बोद्धव्यमिति संकल्पमात्रतः ॥ ’
इति ॥ १५ ॥ १६ ॥ १७ ॥
उक्तमेव अर्थं द्रढयितुं देवतावत् विद्याया अपि विश्वा-
त्मकत्वं तदुत्तीर्णत्वं च वक्तुमाह
स्वर-व्यञ्जन-बिन्दुत्रय-
समष्टिभेदैर्विभाविताकारा ।
श्रीमत्पुण्यानन्दाचार्यविरचितः २१
षट्त्रिंशत्तत्त्वात्मा
तत्त्वातीता च केवला विद्या ॥ १८ ॥
विद्यापि तादृगात्मा
सूक्ष्मा सा त्रिपुरसुन्दरी देवी ।
विद्यावेद्यात्मकयो-
रत्यन्ताभेदमामनन्त्यार्याः ॥ १९ ॥
स्वराः अचः, व्यञ्जनानि हलः, बिन्दुत्रयम् अनुस्वार-
त्रयम्, एषां समष्टिः समुदायभावः, भेदोऽवयवभावः तैर्वि-
भाविताकारा उद्भावितस्वरूपा । अत एव षट्त्रिंशत्तत्त्वात्मा
शिवादि-क्षित्यन्तविग्रहा । तत्त्वातीता च - तत्त्वसंघसमु-
दायस्थानत्वात् तदुत्तीर्णा च । अत एव केवला स्वव्यति-
रिक्तस्य अभावात् एकाकिनी । एवंभूता विद्या श्रीपञ्चद-
शाक्षरीत्यर्थः । अयमत्र विद्यायामवयवविभागप्रकारः, - इह
पुण्यानन्दाः हादिविद्यायाम् अत्यन्ताभिमानिनोऽस्या एव
विद्याया अवयवभावसमुदायम् आश्रित्य तत्त्वात्मकत्वं तदुत्ती-
र्णत्वं चाचक्षते । तत्र च वाग्भवाख्ये प्रथमखण्डे पञ्च स्वराः
सप्त व्यञ्जनानि संहत्य द्वादश वर्णाः । कामराजाख्ये द्विती-
यखण्डे षट् स्वराः अष्ट व्यञ्जनानि संभूय चतुर्दश वर्णाः ।
२. द्वितीय भाग: नाद-कला, चक्र-संकेत एवं वर्णोद्भव (श्लोक १९-३५)
२२ कामकलाविलासः
शक्त्याख्ये तृतीयखण्डे च चत्वारः स्वराः षट् व्यञ्जनानि
संहत्य दश वर्णाः । सर्वेऽपि संभूय षट्त्रिंशदक्षराणि अवयव-
रूपाणि समुदायरूपाणि । विद्या सर्वतत्त्वातिक्रान्ता सर्वत्र
प्रसिद्धा श्रूयते, कादेरपि विद्याया उभयात्मकत्वम् अस्त्येव,
यथा नैव अनयोर्विद्ययोर्भेदः । हादौ प्रथमखण्डे पञ्च स्वराः
सप्त व्यञ्जनानि संहत्य विद्याद्वयेऽपि प्रथमखण्डे द्वादशवर्णत्वं
समानं, तस्मात् उभयात्मकत्वम् उभयोर्विद्ययोरस्त्येव । तदु-
भयविद्योपासनप्रकारस्तु गुरुमुखादेव अवगन्तव्यः । देव-
ताया अपि मन्त्रवत् उभयात्मकत्वम्, इति मन्त्रदेवतयोरैक्यम्
आह - 'विद्यापि तादृगात्मा' इति - विद्या चिदानन्दस्वरू-
पिणी तादृगात्मिका तदुत्तीर्णा च सूक्ष्मा परिच्छेत्तुम् अश-
क्या, सा सर्ववेदान्तेषु प्रसिद्धा त्रिपुरसुन्दरी, त्रिपुरा च
सुन्दरी त्रिधावस्थितसमस्तवस्तुपूरणात् सर्वयोगिभिरुपा-
स्यत्वेन स्पृहणीयत्वाच्च, त्रिपुराशब्दनिर्वचनं च पूर्वमेव
प्रपञ्चितम् । देवी स्वच्छप्रकाशरूपा विश्वस्य जननादि-
क्रियारूपा परा वाक्, विद्यावेद्यात्मकयोरत्यन्ताभेदम् आम-
नन्त्यार्याः परमेश्वरप्रमुखाः सर्वयोगिन इत्यर्थः ॥ १९ ॥
एवं विद्यादेवतयोरभेदम् उक्त्वा, चक्रदेवतयोरैक्यं वक्तुं
चक्रोत्पत्तिप्रकारम् आह
श्रीमत्पुण्यानन्दाचार्यविरचितः २३
या सान्तरोहरूपा
परा महेशी त्रिभाविता सैव ।
स्पष्टा पश्यन्त्यादि-
त्रिमातृकात्मा चक्रतां याता ॥२०॥
चक्रस्यापि महेश्या
न भेदलेशोऽपि भाव्यते विबुधैः ।
अनयोः सूक्ष्माकारा
परैव स्थूलयोश्च न कापि भिदा ॥२१॥
या सान्तरोहरूपा इति - अन्तरम् अन्तःकरणं तस्मिन्
ऊहः वितर्कः इत्थमिति परिच्छेदरहितः तेन सहितं रूपं
यस्याः सा । अयमर्थः - अवाङ्मनसगोचरत्वात् सर्ववेदान्तै-
रपरिच्छेद्या सर्वकारणभूता शिवादि-धरण्यन्ततत्त्वसंघाता-
विर्भावभूमिः महेश्वरी परा सर्वोत्कृष्टा इत्युच्यते । श्रुतिश्च
परास्य शक्तिर्विविधैव श्रूयते
स्वाभाविके ज्ञानबलं क्रिया च ।
एवंभूतलक्षणा सैव - पराशक्तिरेव, त्रिभाविता त्रिप्रकारत्वेन
२४ कामकलाविलासः
भाविता संजायमाना, एतदेवाह - स्पष्टा पश्यन्त्यादित्रिमातृ-
कात्मा इति, स्पष्टा प्रथमोत्पन्नत्वेन विवक्षिता विषयिणी
पश्यन्तीति उच्यते आदिशब्देन मध्यमा वैखरी च, सैव
वैखरी नाम अभिलापरूपिणी पञ्चदशाक्षरराशिवमयी सर्ववै-
दिकलौकिकशब्दात्मिका शक्तिरित्युच्यते । तथा च सुभ-
गोदयवासनायाम्
‘परा भूर्जन्म पश्यन्ती वल्लीगुच्छसमुद्भवा ।
मध्यमा सौरभा वैखर्यक्षमाला जयत्यसौ ॥’
एवंरूपत्रिमातृकात्मिका सैव चक्रतां याता - त्रिखण्डात्मकच-
क्रकमयित्राता इत्यर्थः । एतदेवाह - चक्रस्य इति, चक्रस्य
त्रैलोक्यमोहनादि-बैन्दवान्तनवावरणात्मकस्य सुन्दर्यधिष्ठा-
नभूतस्य, महेश्वर्यास्तदधिष्ठात्र्याः सुन्दर्याश्च भेदलेशः ईषद्भे-
दोऽपि बुधैर्महेश्वरैर्न भाव्यते न अनुभूयते, कुतः ? - श्रीसु-
न्दरीरूपत्वात् श्रीचक्रस्य । पुनरपि अनयोस्तादृग्भेदम्
आचष्टे - अनयोः सूक्ष्माकारा इत्यादिना, अनयोः सूक्ष्म-
रूपयोश्चक्रदेवतयोः - सूक्ष्मरूपत्वं नाम अपरिच्छिन्नत्वमेव,
तत्र श्रीचक्रस्य सूक्ष्मरूपेण अवस्थानं बिन्दात्मना, बिन्दोश्च
अपरिच्छिन्नत्वं ‘बैन्दवे परमाकाशे’ इत्यादिना प्रपञ्चित-
मेव । देवताया अपि ‘विद्यापि तादृगात्मा’ इत्यादिना
अभिहितमेव । तथा स्थूलयोश्चक्रदेवतयोश्च, अत्र स्थूलत्वं
श्रीमत्पुण्यानन्दाचार्यविरचितः २५
नाम चक्रस्य त्रिकोणादिचतुरश्रपर्यन्तं विजृम्भणम्, देव-
ताया अपि त्रिपुराम्बिकादि-त्रिपुराशक्त्यन्तरूपेण मननम्,
एवंविधयोश्चक्रदेवतयोः, भिदा - भेदः कारणादित्यर्थः । तत्र
हेतुमाह - परैव सूक्ष्माकारा इति, सा पूर्वोक्तलक्षणा परैव
आदिशक्तिरेव सूक्ष्माकारा सूक्ष्मभूत आकारः स्वरूपमनयो
रित्यर्थः ॥ २० ॥ २१ ॥
देवतारूपस्य चक्रस्य इतः परं परा-पश्यन्त्यादिशक्तित्रि-
कासरूपं नवयोन्यात्मकं श्रीचक्रं वक्तुम् आदौ बैन्दवं सर्वान-
न्दमयाख्यचक्रं पराशक्तिमयम्, इत्याह
मध्यं चक्रस्य स्यात्
परामयं बिन्दुतत्त्वमेवेदम् ।
उच्छूनं तच्च यदा
त्रिकोणरूपेण परिणतं स्पष्टम् ॥२२॥
एतत्पश्यन्त्यादि-
त्रितयनिदानं त्रिबीजरूपं च ।
२६ कामकलाविलासः
चक्रस्य नवयोन्यात्मकस्य, मध्यं मध्येभवं, बिन्दुतत्त्वं
बिन्दुस्वरूपं पूर्वमेव व्याख्यातम् । इदं स्वसाक्षात्कृतं पराम-
यमेव पराशक्तिस्वरूपमेव इत्यर्थः । एतदेव बिन्दुतत्त्वं यदा
विकासभावम् एति तदा त्रिकोणचक्रम् उदेति इत्याह-उच्छूनं
तच्च यदा इति, यदा यस्मिन् काले प्राणिनाम् अदृष्टवशात्
उच्छूनं, तच्च - बैन्दवमपि उच्छूनं संजातविकासं भवति, तदा
त्रिकोणरूपेण - अनुत्तरानन्देच्छासंघट्टरूपेण परिणतं, त्रिको-
णाकारं भवति इत्यर्थः । एतत् - त्रिकोणचक्रं, पश्यन्त्यादि-
त्रितयनिदानं - पश्यन्ती-मध्यमा-वैखरीप्रमुखशक्तित्रयोत्प-
त्तिकारणमित्यर्थः । तथाह
' इच्छाशक्तिस्तथा वामा पश्यन्तीवपुषा स्थिता ।
ज्ञानशक्तिस्तथा ज्येष्ठा मध्यमा वागुदीरिता ॥
ऋजुरेखामयी विश्वस्थिता प्रथितविग्रहा ।
तत्संसृतिदशायां तु बैन्दवं रूपमास्थिता ॥
प्रत्यावृत्तिक्रमेणैव शृङ्गाटवपुरुज्ज्वला ।
क्रियाशक्तिस्तु रौद्रीयं वैखरी विश्वविग्रहा ॥'
इति । त्रिबीजरूपं च इति, - त्रिबीजानि त्रिखण्डात्मकानि
वाग्भव-कामराज-शक्तिबीजानां रूपं यस्य तत् ॥ २२ ॥
ततः श्रीभट्टारिकायामेव बिन्दुतत्त्वम् ऊर्ध्वाधोमुखनव-
योन्यात्मकश्रीचक्रमभवत्, इत्याह
श्रीमत्पुण्यानन्दाचार्यविरचितः २७
वामा ज्येष्ठा रौद्री
चाम्बिका चानुत्तरांशभूताः स्युः॥२३॥
इच्छा-ज्ञान-क्रिया-
शान्ताश्चैतास्तथोत्तरावयवाः ।
व्यस्ताव्यस्तं तदर्ण-
द्वयमिदमेकादशात्म पश्यन्ती ॥२४॥
वामा ज्येष्ठा रौद्री अम्बिका चकारात् पराशक्तिश्च इमाः
पञ्चशक्तयः, अनुत्तरांशभूताः – अनुत्तरांशत्वेन श्रीचक्रान्त-
र्गताधोमुखपञ्च-त्रिकोणाकृतित्वेन भूता जाता इत्यर्थः । इच्छा-
ज्ञान-क्रिया-शान्ताः एताश्चतस्रः शक्तयः उत्तरावयवाः ऊर्ध्व-
मुखत्रिकोणचतुष्टयरूपाः । अयं भावः-पराविलसनरूपा एताः
रौद्री-वामा-ज्येष्ठा-अम्बिकाः, इच्छा-ज्ञान-क्रिया-शान्ताश्चैता-
स्तथोत्तरावयवाश्च इति, एतच्छक्तिनवकमयं नवत्रिकोणं चक्र-
मिति । व्यस्ताव्यस्तं तदर्णद्वयं – व्यस्तं व्यष्टिरूपम् अव्यस्तं
समष्टिरूपं सर्वोपनिषत्प्रसिद्धमर्णद्वयं संदंशन्यायेन अखि-
लाक्षरात्मकमन्त्रमयप्रकाशविमर्शरूपपूर्णाहन्ताभावगर्भकाम-
कलाक्षरात्मबिन्दुतत्त्वमित्यर्थः । एवंभूतं तदर्णद्वयम् एका-
२८ कामकलाविलासः
दशात्म, मत्या विचार्यमाणमेकादशविधं भवति इत्यर्थः ।
परादि-शान्तान्तं शक्तिदशकं व्यष्टिरूपं सर्वसमष्टिरूपत्वेन
चैकं, तेन एकादशात्मकम् इदं बिन्दुतत्त्वमेव पश्यन्तीकारणम्
॥ २३ ॥ २४ ॥
इतः परं वसुकोण-दशारादिसृष्टिचक्रप्रकारम् अभिधातुं
परमप्रकृतत्रिकोणचक्रक्रमं निगमयति
एवं कामकलात्मा
त्रिबिन्दुतत्त्वस्वरूपवर्णमयी ।
सेयं त्रिकोणरूपं
याता त्रिगुणस्वरूपिणी माता ॥२५॥
एका परा...................
एवं - पूर्वोक्तप्रकारेण, कामकलात्मा - कामः प्रकाशैक-
स्वभावोऽनुत्तराक्षरात्मा परमशिवः कला तु अखिलवाणी-
रूपपरमाहम्-अक्षरमयी विमर्शविग्रहा, एवं तदुभयात्मकत्वं
नाम स्वाभाविकपरिपूर्णांहंभावशालित्वम् । एतच्च 'बिन्दुरहं-
कारात्मा' इत्यत्र स्पष्टम् अभिहितम्, एवंरूपा कामकलात्मा
त्रिबिन्दुतत्त्वस्वरूपवर्णमयी - बिन्दवः पूर्वोक्तरक्त-शुक्ल-मिश्रा-
श्रीमत्पुण्यानन्दाचार्यविरचितः २९
त्मानः तेषां भावः तत्त्वं तत्स्वरूपा ये वर्णा वाग्भवादय-
स्तदात्मिका । तथा रहस्याम्नाये
' बिन्दुत्रयात्मकं स्वात्मशृङ्गाटं विद्धि सुन्दरम् ।
मिश्रं शुक्लं च रक्तं च पुराणं प्रणवात्मकम् ॥
रेखात्रयावगन्तव्यं संविन्मात्रं शिवात्मकम् । '
सेयं त्रिकोणरूपम् आपन्ना चिदानन्दघनरसपरमार्था सक-
लाम्नायसारभूता, विश्वाहंभावभावनाशालिभिर्महायोगिवरै-
रात्मसाक्षात्त्वेन अनुभूयमाना, त्रिगुणा इच्छा-ज्ञान-क्रिया-
शक्तिमयी, एवं तथा, अत एव सर्वजगन्निर्मात्री एका । तथा
च वचनम्
' अनुत्तरानन्दचिती इच्छाशक्तौ नियोजिते ।
त्रिकोणमिति तत्प्राहुर्विसर्गामोदसुन्दरम् ॥ '
इति ॥ २६ ॥
इतः परं विलसनरूपायाः पश्यन्त्या अपि नवयोनिच-
क्रात्मना नवात्मकत्वमाह
————————————
............'तदन्या
वामादिव्यष्टिमातृसृष्ट्यात्मा ।
३० कामकलाविलासः
तेन नवात्मा जाता
माता.................. ॥
तदन्या पराविकासभूता पश्यन्ती, वामादिव्यष्टिमात्रसृ-
ष्ट्यात्मा - वामादि-शान्तादिशक्तिनवकमयी, यतः तेन कार-
णेन सा, माता - पश्यन्ती नाम जननी, नवात्मा -- वामादि-
शान्तान्तशक्तिकदम्बकाविर्भावकारणनवयोनिचक्रात्मिका,
जाता प्रादुर्भूता इत्यर्थः । अत्र वामादिशक्तीनां प्रसङ्गात्
किंचित् उच्यते, - तत्र वामा नाम शृङ्गाटान्तःस्थितप्रपञ्चवम-
नात् विश्वजनयित्रीत्यभिधीयते, ज्येष्ठा सर्वमङ्गलकारिणी,
रौद्री सर्वरोगविद्राविणी, समस्तेष्टप्रदा शक्तिरम्बिका च
‘सा स्फुरत्ता महासत्ता’
इति प्रत्यभिज्ञास्थित्या सर्वातिशायिनी परावाक् परिपूर्णस्व-
रूपस्वात्मस्फुरणावलोकनचतुरा, इच्छा-ज्ञान-क्रियाशक्तयस्तु
पश्यन्ती-मध्यमा-वैखरीरूपाः, आह चतुर्थी शान्ता, चतुःशत्यां,
‘शान्ता च निष्कलं शान्तम्’
इत्यादिश्रुत्या ॥ २६ ॥
अनन्तरं मध्यमाया अपि प्रकारान्तरेण नवात्मकत्वं ब्रूते
श्रीमत्पुण्यानन्दाचार्यविरचितः ३१
सा मध्यमाभिधानाभ्याम् ॥२६॥
द्विविधा मध्यमा सा
सूक्ष्म-स्थूलाकृतिः स्थिता सूक्ष्मा ।
नवनादमयी स्थूला
नववर्णात्मा च भूतलिप्याख्या॥२७॥
आद्या कारणमन्या
कार्यं त्वनयोर्यतस्ततो हेतोः ।
सैवेयं नहि भेद-
स्तादात्म्यं हेतुहेतुमदभीष्टम् ॥ २८ ॥
मध्यमा परापश्यन्त्योः समरसावस्थे, अभिधानाभ्यां
नामधेयाभ्यां सा, अतः सुखं परमयोगिभिर्द्दश्या मध्यमा नाम
शक्तिः द्विविधा द्विमकारा – स्थूल-सूक्ष्मभावात् , तत्र सूक्ष्मा
समाधिबलेन अनुभूयमाना, स्थूलाकृतिः पण्डितपामराद्यभि-
लपनयोग्या वर्णावल्यास्थिता सर्वदा वर्तमाना । एतदेव
व्याचष्टे 'सूक्ष्मा नवनादमयी स्थूला नववर्णात्मा' इति ।
३२ कामकलाविलासः
अयमर्थः - मित्रावरुणसदनात् वायुनिरोधनेन स्वाधिष्ठाना-
दिकमलभेदपुरःसरं द्वादशान्तारविन्दासनस्थपरमशिवाङ्कम्
उपसर्पन्ती महामातृका कुण्डलिनी बहुविधनादात्मिका या
अनुभूयते, सा समाधिसमधिगतसर्वार्थैर्महामाहेश्वरैः स्वात्म-
त्वेन मन्यते । नवनादमयी इति, - चिणीति प्रथमः, चिणि-
चिणीति द्वितीयः, घण्टानादस्तृतीयः, शङ्खनादश्चतुर्थः,
पञ्चमस्तन्त्रीनादः, षष्ठस्तालनादः, सप्तमो वेणुनादः, अष्टमो
भेरीनादः, नवमो मृदङ्गनादः । भूतलिप्याख्या - भूताश्च ते
लिपयश्च भूतलिपयः, अत्र लिपीनां भूतत्वम् चेष्टाविशेषाक्ष-
रन्यासाभिव्यङ्ग्यत्वम्, तच्च कल्पनामात्रमेव - अक्षराणां
तेजोरूपशक्त्यात्मकत्वात् तेषामाख्या अभिधा यस्याः, सूक्ष्म-
रूपा हि मध्यमा स्थूलरूपायाः कारणभावम् आपन्ना एका
एव, इत्यत आह - आद्या कारणमित्यादि, आद्या पूर्वोक्ता
सूक्ष्मा कारणं - प्रथमोद्भवात्, अन्या स्थूला कार्यं - तज्जन्य-
त्वात्, यतः तस्मात् कारणात् अनयोः सूक्ष्म-स्थूलयोः
कार्यकारणभावः, ततो हेतोः - तेन कारणेन, इयं स्थूला सैव
सूक्ष्मा शक्तिरेव, नहि भेदः - भेदो नास्त्येव । ननु कथम्
अभेदे कार्यकारणभावः ? इत्यत्राह - तादात्म्यमिति, तादा-
त्म्यं - भेदाभेदरूपं, हेतुहेतुमत् - जन्यजनकरूपम्, अभी-
श्रीमत्पुण्यानन्दाचार्यविरचितः ३३
ष्टम् – मृद्धटवत् वाचारम्भणमात्रत्वात् एकमेव वस्तु उभय-
विधं भवति सर्ववेदान्तसंमतमित्यर्थः ॥ २७ ॥ २८ ॥
अनन्तरं मध्यशृङ्गाटतेजःप्रसरणात्मकवसुकोणादिचक्रनि-
रूपणद्वारा वैखरीशक्त्याविर्भावम् आह
श-ष-स-पवर्गमयं
तद्वसुकोणं मध्यकोणविस्तारः ।
नवकोणं मध्यं चे-
त्यस्मिंश्चिद्दीपदीपिके दशके ॥२९॥
श-ष-स-पवर्गमयं,-श-प-स-पवर्गात्मकाष्टकोणस्य विस्तारो
विकासभूतः, तत्तादृशमध्यत्रिकोणसहितं नवकोणं मध्यं च
बैन्दवाख्यं संहत्य दशके अस्मिंस्त्रिकोण-वसुकोणचिद्दीपदीपिके
‘बैन्दवासनसंरूढसंवर्तनलचिद्घनम् ।’
इत्युक्तरीत्या बिन्दुचक्राधिरूढायास्तेजोभूते-त्रिपुरायाः प्रभा-
पटलमकाशिते इत्यर्थः ॥ २९ ॥
तच्छायाद्वितयमिदं
दशारचक्रद्वयात्मना विततम् ।
5
३४ कामकलाविलासः
तस्य पूर्वोक्तस्य तेजोराशिमयस्य चक्रत्रितयस्य, च्छाया-
द्वितयं कान्तिद्वितयं – सर्वरक्षाकर-सर्वार्थसाधकाभिधचक्रद्वया-
त्मना परिणतम् इत्यर्थः । तथा च उक्तम्
‘ नवत्रिकोणस्फुरितप्रभारूपदशारकम् । ’
इति ॥
तच्चक्रद्वयस्वरूपं व्याचष्टे
त-ट-च-कवर्गचतुष्टय-
विलसनविस्पष्टकोणविस्तारम् ॥ ३० ॥
तवर्ग-टवर्गात्माक्षरदशकरूपम् अन्तर्दशारम्, चवर्ग-कव-
र्गात्मकाक्षरदशाररूपम् बहिर्दशारमित्यर्थः ॥ ३० ॥
एतच्चतुष्कप्रभया
समुपेतं दशारपरिणामः ।
एतच्चक्रचतुष्कस्य – बिन्दु-त्रिकोण-वसुकोणान्तर्दशारात्म-
कचक्रचतुष्कस्य प्रभा कान्तिस्तया, समुपेतं संयुक्तं, दशारप-
रिणामः – बहिर्दशारचक्रमिति यावत्, बहिर्दशारचक्रस्य बै-
श्रीमत्पुण्यानन्दाचार्यविरचितः ३६
न्द्वादिचक्रचतुष्टयसंनिधानादेव तात्पर्यं, तत्तत्प्रभा व्याप्नोति
इत्यर्थः। तथा च उक्तम्
‘ चतुश्चक्रप्रभारूपसंयुक्तपरिणामतः । ’
इति ॥
अथ एतच्चक्रचतुष्कस्य त्रिकोण-वसुकोण-दशारद्वयरूपस्य
स्वरूपमाह
आदिस्वरचतुर्दश-
वर्णमयाश्रं चतुर्दशारमभूत् ॥ ३१ ॥
अकारादिचतुर्दशवर्णात्मचतुर्दशकोणसहितं सर्वसौभाग्य-
दायकाभिधं चक्रमित्यर्थः ॥ ३१ ॥
एवं बैन्दवादिमनुकोणान्तपर्यन्तचक्रवर्णनद्वारा वैखरीश-
क्तिराविर्भूता इत्याह
परया पश्यन्त्यापि च
मध्यमया स्थूलवर्णरूपिण्या ।
आभिरेकोनपञ्चा-
शदक्षरात्मा वैखरी जाता ॥ ३२ ॥
३६ कामकालाविलासः
अयमर्थः – आदि-क्षान्ताक्षरराशिमयाखिलप्रपञ्चनिर्मात्री
सर्वशब्दात्मिका वैखरी इति ॥ ३२ ॥
इतः परं सर्वसंक्षोभण-सर्वाशापरिपूरकाभिधचक्रद्वयं वैख-
रीवर्णात्मकमेव, - इत्याह
कादिभिरष्टभिरुपचित-
मष्टदलाब्जं च वैखरीवर्गैः ॥
स्वरगणसमुदितमेतद्
द्व्यष्टदलाम्भोरुहं च संचिन्त्यम् ॥ ३३॥
वैखरीवर्गैः – वैखरीशक्तिस्वरूपैः, अष्टभिः कादिभिः,
उपचितं – सम्यक् प्रोतम्, अष्टदलाब्जं च – सर्वसंक्षोभणच-
क्रम् । तथा स्वरगणसमुदितम् – स्वरगणैः अकारादिषोडश-
वर्णैः, समुदितं सम्यक् भावितम्, एतत् – परिदृश्यमानं,
द्व्यष्टदलाम्भोरुहं – सर्वाशापरिपूरकचक्रम्, संचिन्त्यम् – सदा
भावनीयम् इत्यर्थः ॥ ३३ ॥
बिन्दुत्रयमयतेज-
स्त्रितयविकारं च तानि वृत्तानि ।