कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)
Kamakalavilasa of Punyanandanatha with Chidvalli Commentary
पुण्यानन्दनाथ द्वारा
पृष्ठ 31, कुल 56 में से
संदर्भ में पढ़ेंश्रीमत्पुण्यानन्दाचार्यविरचितः २७
वामा ज्येष्ठा रौद्री
चाम्बिका चानुत्तरांशभूताः स्युः॥२३॥
इच्छा-ज्ञान-क्रिया-
शान्ताश्चैतास्तथोत्तरावयवाः ।
व्यस्ताव्यस्तं तदर्ण-
द्वयमिदमेकादशात्म पश्यन्ती ॥२४॥
वामा ज्येष्ठा रौद्री अम्बिका चकारात् पराशक्तिश्च इमाः
पञ्चशक्तयः, अनुत्तरांशभूताः – अनुत्तरांशत्वेन श्रीचक्रान्त-
र्गताधोमुखपञ्च-त्रिकोणाकृतित्वेन भूता जाता इत्यर्थः । इच्छा-
ज्ञान-क्रिया-शान्ताः एताश्चतस्रः शक्तयः उत्तरावयवाः ऊर्ध्व-
मुखत्रिकोणचतुष्टयरूपाः । अयं भावः-पराविलसनरूपा एताः
रौद्री-वामा-ज्येष्ठा-अम्बिकाः, इच्छा-ज्ञान-क्रिया-शान्ताश्चैता-
स्तथोत्तरावयवाश्च इति, एतच्छक्तिनवकमयं नवत्रिकोणं चक्र-
मिति । व्यस्ताव्यस्तं तदर्णद्वयं – व्यस्तं व्यष्टिरूपम् अव्यस्तं
समष्टिरूपं सर्वोपनिषत्प्रसिद्धमर्णद्वयं संदंशन्यायेन अखि-
लाक्षरात्मकमन्त्रमयप्रकाशविमर्शरूपपूर्णाहन्ताभावगर्भकाम-
कलाक्षरात्मबिन्दुतत्त्वमित्यर्थः । एवंभूतं तदर्णद्वयम् एका-