Skip to content
SarvaKosh
Back to the archive

कामकलाविलास (पुण्यानन्दनाथ - श्रीविद्या तत्त्व-विमर्श एवं चिद्वल्ली टीका सहित)

Kamakalavilasa of Punyanandanatha with Chidvalli Commentary

by पुण्यानन्दनाथ

DevanagariHindipublished56 pages

प्रारंभिक पृष्ठ एवं मंगलाचरण

Page 1Permalink

KASHMIR SERIES OF TEXTS
AND STUDIES.
No. XII.
THE
KĀMA KALĀ VILĀS
OF
PUNYA NANDA
WITH COMMENTARY.
EDITED WITH NOTES
BY
MAHĀMAHOPĀDHYĀYA PAṆḌIT MUKUNDA RĀMA SHĀSTRÎ,
OFFICER-IN-CHARGE RESEARCH DEPARTMENT,
JAMMU AND KASHMIR STATE,
SRINAGAR.
PUBLISHED UNDER THE AUTHORITY OF THE GOVERNMENT
OF HIS HIGHNESS LIEUT.-GENERAL MAHĀRĀJA
SIR PRATĀP SINGH SĀHIB BAHĀDUR,
G. C. S. I., G. C. I. E.,
MAHĀRĀJA OF JAMMU AND KASHMIR STATE.
BOMBAY:
PRINTED AT THE "TATVA-VIVECHAKA" PRESS.
1918.
(All rights reserved.)

Page 2Permalink

श्रीमच्छ्रीकण्ठनाथप्रभृतिगुरुवरादिष्टसन्नीतिमार्गो
लब्ध्वा यत्रैव सम्यक्पटिमनि घटनामीश्वराद्वैतवादः ।
कश्मीरेभ्यः प्रसृत्य प्रकटपरिमलो रञ्जयन्सर्वदेश्यान्
देशेऽप्यस्मिन्नदृष्टो घुसृणविसरवत्स्तान्मुदे सज्जनानाम् ॥ १ ॥
तरत तरसा संसाराब्धिं विधत्त परे पदे
पदमविचलं नित्यालोकप्रमोदसुनिर्भरे ।
विमृशत शिवादिष्टाद्वैतावबोधसुधारसं
प्रसभविलसत्सद्युक्त्यान्तःसमुत्प्लवदायिनम् ॥ २ ॥

Page 3Permalink

ॐ
काश्मीर-संस्कृतग्रन्थावलिः ।
ग्रन्थाङ्कः १२
कामकलाविलासः
श्रीमत्पुण्यानन्दाचार्यविरचितः
सटीकः
श्रीभारतधर्ममार्तण्ड-कश्मीरमहाराज-
श्रीप्रतापसिंहवर-प्रतिष्ठापिते
प्रत्नविद्याप्रकाश-(रिसर्च) कार्यालये
तदध्यक्ष-महामहोपाध्याय-पण्डित-मुकुन्दराम-शास्त्रिणा
उद्दिष्टकार्यालयस्थेतरपण्डितसहायेन
संगृह्य, संशोधन-पर्यायाङ्कन-विवरणादिसंस्करणोत्तरं
पाश्चात्यविद्वत्परिषत्संमताधुनिकसुगमशुद्धरीत्युपन्यासादिसंस्करणैः परिष्कृत्य
मुम्बय्यां
तत्त्वविवेचकाख्य-मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीतः
संवत् १९७५ ख्रैस्ताब्दः १९१८
काश्मीर-श्रीनगर
अस्य ग्रन्थस्य सर्वे प्रकाशन-मुद्रापणायधिकाराः प्रोक्तमहाराजवर्यैः
स्वायत्तीकृताः सन्ति )

Page 4Permalink

Printed by
Bhiwaji Hari Shinde at the " Tatva-Vivechaka " Press,
Nos. 1, 2, 3, Khetwadi Back Road, Bombay;
and Published by
the Research Department, Srinagar, Kashmir.

Page 5Permalink

ॐ नमः शिवाय क्रमाक्रमात्मसंविन्मूर्तये ।
अथ
कामकलाविलासः
श्रीमत्पुण्यानन्दाचार्यविरचितः ।
क्रमत्रयसमाश्रयव्यतिकरेण या संततं
क्रमत्रितयलङ्घनं विदधती विभात्युच्चकैः ।
क्रमैकवपुरक्रमप्रकृतिरेव या द्योतते
करोमि हृदि तामहं भगवतीं परां संविदम् ॥
सकलभुवनोदयस्थिति-
लयमयलीलाविनोदनोद्युक्तः ।
अन्तर्लीनविमर्शः
पातु महेशः प्रकाशमात्रतनुः ॥ १ ॥
अत्र पुण्यानन्दयोगिनः सकलविद्याधिदैवतभूतात्रिपुर-
सुन्दरीमन्त्रचक्रव्याचिकीर्षिततया तदधिष्ठानभूतकामकामेश्व-

Page 6Permalink

२ कामकलाविलासः
रीरूपौ आदौ आचक्षते । सकलेत्यादि, सकलानां भुवनानाम्
उदयः सर्गः, स्थितिः रक्षा, लयो नाशः, एतत् त्रितयं निरो-
धानुग्रहयोरुपलक्षणम्, एतत्पञ्चविधकृत्यप्रचुरा या लीला
तया विनोदनं क्रीडनं तस्मिन् उद्युक्तो जागरूकः, मयट्
अत्र प्राचुर्यार्थे विहितः । एवं च सति जगद्व्यतिरिक्तलक्षणं
ब्रह्मस्वरूपं कीदृशम् ? इत्याकाङ्क्षायाम् आह - अन्तर्लीनवि-
मर्श इत्यादिना, विमृश्यते परामृश्यते इदमिति विमर्शः
प्रपञ्चः, इदमित्येवं परमात्मना सृष्टस्य जगतः प्रसिद्धः परा-
मर्शः, एवंभूतो यो विमर्शः प्रपञ्चः अन्तर्लीनोऽन्तर्गतो यस्य
स अन्तर्लीनविमर्शः । तदयमत्रार्थः - स्वात्मसात्कृताखिलप्र-
पञ्चः परिपूर्णांहंभावभावनागर्भितः, अथ वा जगदुत्पत्तिस्थि-
तिलयहेतुभूताकृत्रिमाहमिति परामर्शो विमर्शः । तथा च
नागानन्दाः
' विमर्शो नाम विश्वाकारेण विश्वप्रकाशेन विश्व-
संहारेण वा अकृत्रिमाहमिति विश्वस्फुरणम्,
तस्य अन्तर्लीनत्वं नाम अन्तर्मुखत्वम् ।'
तथा च अयमर्थः - अन्तर्लीनः अन्तर्मुखो विमर्शः पूर्णाहं-
भावो यस्य इति, तत्तादृशपरब्रह्मणः परमेश्वरस्य प्रकाशैक-
स्वभावत्वं सर्वस्मात्परत्वं च आह - प्रकाशमात्रतनुः इति, अत्र
प्रकाशत्वं नाम - इच्छामि जानामि करोमि इति उत्तमपुरुषा-

Page 7Permalink

श्रीमत्पुण्यानन्दाचार्यविरचितः ३
न्तर्गतस्फुरणरूपाहंपरामर्श एव। ननु सूर्यादीनामपि प्रकाशत्वं
दृष्टं तत्कथम् अस्यैव परमात्मत्वम्? अत आह – महेश इति,
महांश्चासौ ईश इति महेशः, महत्त्वं च देशकालाकारैरनव-
च्छिन्नस्वरूपत्वात्, ईशत्वं सर्वनियन्तृत्वात् इति ॥ १ ॥
पराभट्टारिकायामपि सर्वाकारत्वमाह
सा जयति शक्तिराद्या
निजसुखमयनित्यनिरुपमाकारा ।
भाविचराचरबीजं
शिवरूपविमर्शनिर्मलादर्शः ॥ २ ॥
सा आद्या शक्तिः अनवच्छिन्ना पराभट्टारिका महात्रिपु-
रसुन्दरी, जयति सर्वोत्कर्षेण वर्तते, सा इति शिवादि-क्षित्य-
न्तषट्त्रिंशत्तत्त्वमयी सर्वप्रपञ्चात्मिका तदुत्तीर्णा च, इति-
सर्वोपनिषत्प्रसिद्धा त्रिपुरा अभिधीयते, त्रिभ्यस्तेजोभ्यः
पुरा भूता त्रिपुरा इति निगद्यते, तस्याश्च सर्वोत्कृष्टत्वं सर्वत्र
आगमेषु उद्घोष्यते। एतदेव विवृणोति – निजेत्यादिना, निजः
स्वाभाविकः सुखमयः दुःखसंभिन्नो नित्यः सार्वकालिकः
निरुपमो निरवधिक आकारः स्वरूपं यस्याः। भाविचरा-

Page 8Permalink

४ कामकलाविलासः
चरबीजं - भाविनोः संपत्स्यमानयोः चराचरयोः स्थावर-
जङ्गमयोर्बीजं योनिः कारणमित्यर्थः । ननु शिवस्य यथा
जगन्निर्मातृत्वं शक्त्या विना न संगच्छते, एवं पराशक्तेरपि
परमशिवेन विना कारणत्वं न भवेत् इति, तत्कथमुच्यते
भाविचराचरबीजम् इति ? अत आह - शिवरूपविमर्शनिर्म-
लादर्श इति, शिवस्य स्वरूपम् अहमित्येवमाकारं तस्य विमर्शः
परामर्शनम् अहमित्येवं-रूपं ज्ञानं तस्य प्रकाशने निर्मलादर्शः
सम्यक्प्रकाशनचतुर इत्यर्थः । यथा कश्चित् राजा अतिसु-
न्दरः स्वात्माभिमुखस्थितस्वच्छादर्शतले स्वात्मप्रतिबिम्बं
सम्यक् प्रसमीक्ष्य तत्प्रतिबिम्बम् अहमिति जानाति, एवं
परमेश्वरोऽपि स्वाधीनभूतां स्वात्मशक्तिं सम्यक् अवलोक्य
स्वस्वरूपम् अवगच्छति ॥ २ ॥
परिपूर्णोऽहम् इति विमर्शमेव ब्रह्म वदन्ति केचन तत्कथ-
मुच्यते - सविमर्शकं ब्रह्म ? इत्यत आह
स्फुटशिवशक्तिसमागम-
बीजाङ्कुररूपिणी पराशक्तिः ।
अणुतररूपानुत्तर-
विमर्शलिपिलक्ष्यविग्रहा भाति ॥ ३ ॥

Page 9Permalink

श्रीमत्पुण्यानन्दाचार्यविरचितः ५
अत्र पराशब्देन प्रकृता ख्याता महात्रिपुरसुन्दरी अभि-
धीयते — चिदानन्देच्छाज्ञानक्रियारूपा, इति श्रुतिप्रसिद्धितया
एवमुच्यते - स्फुटशिवशक्तिसमागमबीजाङ्कुररूपिणीति, शिवश्च
शक्तिश्च शिवशक्ती तयोः समागमः संयोगः स्फुटः व्यक्तः
शिवशक्तिसमागमोऽयं, तेन बीजाङ्कुररूपिणीति, बीजादङ्कुरं
अङ्कुराद्बीजम् इतिवत् शिवतत्त्वादि-क्षितितत्त्वपर्यन्तं तत्त्व-
जालम् उत्तरोत्तरम् उद्भावयेत् इत्यर्थः, अत्र शिवशब्देन ज्ञान-
शक्तिरभिधीयते ज्ञानशक्त्यधिष्ठानत्वात् शिवतत्त्वस्य, शक्ति-
शब्देनापि क्रियाशक्तिरभिधीयते क्रियाशक्त्यधिष्ठानत्वात्
शक्तितत्त्वस्य — चिदानन्दस्वरूपिण्याः सर्वत्र ज्ञानक्रियाभ्या-
मेव निर्माणौचित्यदर्शनात् । पुनस्तामेव विशिनष्टि — ‘अणुतर-
रूपानुत्तरविमर्शलिपिलक्ष्यविग्रहा भाति’ — अणुतरम् अत्य-
न्तसूक्ष्मरूपम् अस्या इति — अनुत्तरलिपिः अकारः विमर्श-
लिपिः हकारः ताभ्यां लक्ष्यं विग्रहं स्वरूपं यस्याः तथोक्ता ।
अत्र अनुत्तरविमर्शलिपिलक्ष्यविग्रहा इत्यनेन अहमात्मिका-
न्तर्गर्भितसमस्तवर्णकदम्बका पराशक्तिः अकारादि-हकारान्तं
पञ्चाशदक्षररूपिणी वर्ण-पद-मन्त्र-कला-तत्त्व-भुवनात्मकसम-
स्तप्रपञ्चजनयित्री पराभट्टारिका समस्तभूतान्तरात्मा सर्वत्र
वेदान्ते ‘अहमहम्’ इत्येवमाकारेण प्रतीयमाना दृश्यते
इत्युक्तं भवति ॥ ३ ॥

Page 10Permalink

६ कामकलाविलासः
इतः परं प्रबन्धेन प्रधानप्रतिपाद्यां कामकलाक्षररूपिणी-
मेव कामः शिवः तदक्षररूपां वक्तुमुपक्रमते, - 'परशिवरविकर
इत्यादि, कला च दहनेन्दुविग्रहौ बिन्दू' इत्यन्तम्
परशिवरविकरनिकरे
प्रतिफलति विमर्शदर्पणे विशदे ।
प्रतिरुचिरुचिरे कुड्ये
चित्तमये निविशते महाबिन्दुः ॥ ४ ॥
परशिवः प्रकाशैकस्वभावः परमशिवभट्टारक एव रवि-
र्दिनकरः तस्य कराः किरणाः तेषां निकरः पुञ्जः, तस्मिन्
विशदे निर्मले विमर्शदर्पणे, विमर्शो नाम अनवधिरेका
विस्फुरणशक्तिः, तथा प्रत्यभिज्ञायाम्
'सा स्फुरत्ता......................................।'
इत्यादिनेव दर्पणत्वेन निरूप्यते - स्वस्वरूपप्रकाशत्वात् ।
तत्र प्रतिफलनं नाम स्वरूपावलोकनं, तादृशप्रतिफलनरूपाव-
लोकने सति, चित्तमये - ज्ञानैकस्वरूपे, प्रतिरुचिरुचिरे-प्रति-
प्रकाशमनोहरे, कुड्ये, महाविन्दुः निविशते प्रतिष्ठितो भवति ।
चित्तस्य कुड्यत्वनिरूपणं महाबिन्द्राविर्भावकारणत्वात्,

१. प्रथम भाग: कामकला स्वरूप, बिन्दु-त्रय एवं शक्ति-विमर्श (श्लोक १-१८)

Page 11Permalink

श्रीमत्पुण्यानन्दाचार्यविरचितः ७
लोकऽपि सूर्याभिमुखस्थितदर्पणतले सूर्यकिरणप्रतिफलना-
नन्तरं निकटगतकुड्ये सूर्यकिरणप्रतिहततेजोबिन्दुः प्रत्यक्षं
प्रपद्यते, तद्वत् प्रकाशरूपपरमेश्वरस्य दर्पणवत् स्वरूपविमर्श-
संबन्धे जाते तदानीं तत्र महाबिन्दुः 'पूर्णोऽहम्' इत्येवं-
रूपः परमेश्वरोऽवभासते इत्यर्थः । आगमश्च
'स्फुरत्तामात्मनः पश्येत्तदा चक्रस्य संभवः।'
इति । प्रत्यभिज्ञायामपि
'सा स्फुरत्ता महासत्ता.....................।'
इत्यादि । परमानन्दयोगिनोऽपि
'ईदृगियत्तादिवचो दूरतरं स्वानुभूतिसंवेद्यम् ।
तत्तादृशस्फुरत्ताशेषा संवित्कथं नु सा वाच्या ॥'
इत्यादि ॥ ४ ॥
तादृगुज्वलात्मशक्त्यवलोकनोद्भूताहम्भावमेव विशिनष्टि
चित्तमयोऽहंकारः
सुव्यक्ताहार्णसमरसाकारः ।
शिवशक्तिमिथुनपिण्डः
कवलीकृतभुवनमण्डलो जयति ॥५॥

Page 12Permalink

८ कामकलाविलासः
'अहंकार इति' उद्भूतान्यस्मरणानुभवव्यञ्जको योऽयम्
अहमहमित्येव विमर्शः तस्य कारः कारणम्, एवं-भूतोऽहंकारो
जयति सर्वोत्कर्षेण वर्तते । यतः
'प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः ।'
चित्तमयः ज्ञानैकस्वभावः सुव्यक्ताहार्णसमरसाकारः, अश्च हश्च
इत्यहौ सुतरां व्यक्तौ स्पष्टौ परस्परोद्भूतरूपौ सुव्यक्ताहौ एव
लोलीभवतो यत्र सः शिवशक्तिमिथुनपिण्डः, अत एव कव-
लीकृतभुवनमण्डलः, अन्तःस्थापितं भुवनमण्डलं षट्त्रिंशत्त-
त्त्वसंघातमयं येन सः । अयमर्थः- प्रत्याहारन्यायेन अन्तर्ग-
र्भितसमस्तवर्णकदम्बकाहंकाररूपप्रकाशविमर्शसंपुटादेव श-
ब्दार्थात्मकसर्वप्रपञ्चविकासो भवति । तथा च श्रुतिः
'एको वर्णो बहुधा शक्तियोगाद्-
वर्णाननेकान्निहितार्थो दधाति ।'
इति ॥ ५ ॥
इतः परं 'चित्तमये निविशते महाबिन्दुः' इति यदुक्तम्
तत्र बिन्दुस्वरूपनिरूपणद्वारा कामकलाम् उपदिशति
सितशोणबिन्दुयुगलं
विविक्तशिवशक्तिसंकुचत्प्रसरम् ।

Page 13Permalink

श्रीमत्पुण्यानन्दाचार्यविरचितः ९
वागर्थसृष्टिहेतुः
परस्परानुप्रविष्टविस्पष्टम् ॥ ६ ॥
बिन्दुरहंकारात्मा
रविरेतन्मिथुनसमरसाकारः ।
कामः कमनीयतया
कला च दहनेन्दुविग्रहौ बिन्दू ॥ ७ ॥
सितः शुभ्रः, शोणो रक्तः, तद्रूपौ बिन्दू, तयोर्युगलम्, अत
एव विविक्तशिवशक्ति - अन्योन्यविहरणपरे शिवशक्ती यस्मिन्
कर्मणि तत्, अत एव संकुचत्प्रसरं - संकुचन् मुकुलीभवन्
प्रसरः जगत्सृष्टिरूपो यस्मिन् तत्, वाचः - परा-पश्यन्त्या-
दिरूपसमस्तशब्दाः, अर्थाः - शिवादि-क्षित्यन्तषट्त्रिंशत्तत्त्व-
रूपाः, तेषां सृष्टिः षडध्वात्मकजगन्निर्मितिः, तत्र हेतुः कार-
णम्। परस्परानुप्रविष्टविस्पष्टम् - परस्परम् अन्योन्यम् अनुप्र-
विष्टम् अन्तर्गतं विस्पष्टं पृथग्भूतं च तत्, एवं-भूतं सितशोण-
बिन्दुयुगलं - कामकामेश्वरीरूपं दिव्यमिथुनं, विभावयेत् इति
पूर्वेण संबन्धः । अत्र इदमतिरहस्यम् ।
'यः परः स महेश्वरः ।'
इति श्रुत्युक्तरीत्या निखिलवेदादिशब्दोत्पादकानुत्तराभिधेयः
2

Page 14Permalink

१० कामकलाविलासः
परमेश्वरः स्वाङ्गभूताखिलप्रपञ्चविलयात्मकविमर्शशक्तिम्
अनुप्रविश्य विन्दुभावं मन्यते, ततः सा विमर्शशक्तिरपि
स्वान्तर्गतप्रकाशमयबिन्दुम् अनुप्रविशति, ततश्च बिन्दुरुत्पन्नो
भवति, तस्माद्विन्दोः नादात्मिका समस्ततत्त्वगर्भिणी तेजो-
मयी जीवरूपा बालाग्रवत् सूक्ष्मरूपिणी इति गत्या शृङ्गाट-
करूपताम् उद्गृह्णाति । एवं च बिन्दुनादस्वरूपयोस्तयोः प्रका-
शविमर्शयोरहमिति शरीरं भवति, एवं द्विरूपयोस्तयोर्मध्ये एको
विमर्शो रक्तविन्दुरूपतां भजते, अपरः प्रकाशः शुक्रबिन्दु-
भावम् एति, उभयोर्मेलने मिश्ररूपं सर्वतेजोमयं परमात्म-
स्वरूपं भवति । श्रुतिरपि
‘ एको वर्णो बहुधा शक्तियोगात्
वर्णाननेकान् निहितार्थो दधाति । ’
इति ।
एतदेव बिन्दुत्रयनिरूपणं विवृणोति, – बिन्दुरहंकारात्मा
इति, विन्दुः सितरक्तस्वरूपः अहंकारात्मा अन्तर्गर्भितसम-
स्तवर्णराशिः अनुत्तरस्फाररूपाहंकारः आत्मा तादात्म्य-
स्वरूपं यस्य सः । ‘ वर्णात्कारः ’ इति सूत्रेण अहं-शब्दात्
कारशब्दप्रत्ययः ऐकार इतिवत्, अत एव एतन्मिथुनसमर-
साकारः – एतयोरकार-हकारवाच्ययोः प्रकाशविमर्शयोर्मि-
थुनं द्वन्द्वं, तस्य दिव्यदम्पतिरूपस्य मिथुनस्य समरसः पर-
स्परानुप्रवेशरूपम् आनुकूल्यं तदेव आकारः स्वरूपं यस्य

Page 15Permalink

श्रीमत्पुण्यानन्दाचार्यविरचितः ११
सः, एवंभूतो रविः सितशोणबिन्दुसमरसीभूतो मिश्रबिन्दु-
रित्यर्थः । लोके हि सूर्य्यस्य मिश्रस्वरूपत्वम् अग्नीषोमयोः,
अत एव तस्य उपास्यत्वमाह, — काम इति, काम्यते अभि-
लष्यते स्वात्मत्वेन परमार्थमहद्भिर्योगिभिरिति कामः, तत्र
हेतुः — कमनीयतया इति, कमनीयत्वं स्पृहणीयत्वम् तेन ।
कला विमर्शशक्तिः दहनो वह्निः, इन्दुश्चन्द्रः तावेव आकारौ
ययोर्बिन्द्वोर्दहनेन्दुविग्रहौ विन्दू । अत्रायमर्थः — अग्नीषोमरू-
पिणी विमर्शशक्तिः तदुभयभूतकामेश्वराविनाभूता महात्रिपु-
रसन्दरी बिन्दुसमष्टिरूपा कामकला इति उच्यते, सैव उपा-
स्यतया सर्वागमेषु उद्घोष्यते । उक्तं च
‘ मिहिरबिन्दुमुखीं तदधो लस-
च्छशिहुताशनबिन्दुयुगस्तनीम् ।
ह-सपरार्धकलारचनास्पदां
भजत नित्यमिमां परदेवताम् ॥’
‘ एकारोर्ध्वगतो बिन्दुर्मुखं भानुरधोगतौ ।
स्तनौ दहनशीतांशू योनिर्हार्धकला भवेत् ॥’
इत्यादि रहस्यम् । अयमत्र निष्कर्षः — स्वान्तर्गतानन्ताक्षर-
राशिमहामन्त्रवीर्य्यपूर्णाहन्तारूपिणी प्रकाशानन्दसारा बिन्दु-
त्रयसमष्टिरूपलिप्यक्षररूपिणी कामकला नाम महात्रिपुरसु-
न्दरी मातृका परमयोगिभिः महामाहेश्वरैरनिशम् अनुस्म-
र्त्तव्या इति । विज्ञानभट्टारकेऽपि

Page 16Permalink

१२ कामकलाविलासः
‘ विन्दुरूपस्य चक्रस्य स्थूलवर्णक्रमेण तु ।
अर्धेन्दुबिन्दुनादान्तशून्योच्चाराद्भवेच्छिवः ॥ ’
इति ॥ ७ ॥
एवं विन्दुस्वरूपम् उद्दिश्य ज्ञानोपासनायाः फलं परं-
ब्रह्मभाव एव इत्याह
इति कामकलाविद्या
देवीचक्रक्रमात्मिका सेयम् ।
विदिता येन स मुक्तो
भवति महात्रिपुरसुन्दरीरूपः ॥ ८ ॥
पूर्वोक्तमहाप्रबन्धेन व्याख्याता कामकला - महात्रिपुरसु-
न्दरी, तस्या विद्या ज्ञानं, कीदृशी,? इत्याकाङ्क्षायामाह - देवी-
चक्रक्रमात्मिका - देव्याः त्रिपुरसुन्दर्याश्चक्रं श्रीचक्रं तस्य क्रमः
चक्रमन्त्रदेवतात्मनाभिहितः सर्वानन्दमयादिसमस्तप्रकटपर्य-
न्तरूपः तदात्मिका तद्विषयिणी, येन - शक्तिपातात् ब्रह्मजि-
ज्ञासुना भावयता पुरुषेण, विदिता अवगता, स पुरुषो मुक्तो
भवति,
‘ विद्याभिज्ञापितैश्वर्यश्चिद्धनो मुक्त एव सः । ’
इति प्रत्यभिज्ञास्थित्या संसारवासनानिरसनपटीयोऽनवरत-

Page 17Permalink

श्रीमत्पुण्यानन्दाचार्यविरचितः १३
परिपूर्णांहंभावभावनाकवलीकृतसर्वप्रपञ्चः परमयोगी विह-
रते, अन्तेऽपि महात्रिपुरसुन्दरीरूपः - पराभट्टारिकात्मसा-
रूप्यो भवति ॥ ८ ॥
परमार्थभूतप्रकृतबिन्दोरेव सकाशात् जगदुत्पत्त्यादिकं
वक्तुम् आरभते
स्फुरितादरुणाद्विन्दो-
र्नादब्रह्माङ्कुरारवो व्यक्तः ।
तस्माद्गगन-समीरण-
दहनोदक-भूमि-वर्णसंभूतिः ॥ ९ ॥
स्फुरितात् उच्छूनात् , बिन्दोः पूर्वोक्तलक्षणात् , नादब्र-
ह्माङ्कुरः - नादः सर्वशब्दोत्पत्तिहेतुर्वर्णः स एव ब्रह्म, तत्
ब्रह्म अङ्कुर उत्पादकं यस्य सः । तथा च उक्तम्
'एको नादात्मको वर्णः सर्वनादाविभागवान् ।
सोऽनस्तमितरूपत्वादनाहत इति श्रुतः ॥'
इति । एवं-भूतनादब्रह्मात्मक आरवः शब्दः पश्यन्त्यादिरूपो,
व्यक्त आविर्भूतः, तस्मात् शब्दात्, गगन-समीरण-दहनोद-

Page 18Permalink

१४ कामकलाविलासः
कभूमीनां पञ्चभूतानां, वर्णानाम् आदि-क्षान्ताक्षराणां च
संभूतिरुत्पत्तिराम्नाता ॥ ९ ॥
एवं शोणविन्दोः सर्वात्मत्वं सर्वस्रष्टृत्वम् चोक्त्वा, तदिह
शुभ्रविन्दोरपि तत्स्वरूपम् अतिदिशति
अथ विशदादपि बिन्दो-
र्गगनानिल-वह्नि-वारि-भूमिजनिः ।
एतत्पञ्चकविकृति
र्जगदिदमण्वाद्यजाण्डपर्यन्तम् ॥ १०॥
विशदात् सर्वप्रकाशात्, बिन्दोः पूर्वव्याख्यातात्, गगना-
दिपञ्चभूतात्मकानन्तब्रह्माण्डानि आविर्भावतिरोभावौ भजन्त
इत्यर्थः । तथा च आगमः
‘स्वेच्छाविलसितानन्तजगद्रश्मिविलासवत् ।
नौमि संविन्महापीठं शिवशक्तिपराश्रयम् ॥’
इति ॥ १० ॥
एवं बिन्दुद्वयाभेदम् उक्त्वा, तद्दृष्टान्ततया मन्त्रदेवतयोरपि
ऐक्यमाह

Page 19Permalink

श्रीमत्पुण्यानन्दाचार्यविरचितः १५
बिन्दुद्वितयं यद्वद्
भेदविहीनं परस्परं तद्वत् ।
विद्यादेवतयोरपि
न भेदलेशोऽस्ति वेद्यवेदकयोः ॥११॥
बिन्दुद्वितयं – पूर्वोक्तप्रकाशविमर्शात्मकं, यद्वत् – येन
प्रकारेण, भेदविहीनं
‘शिवशक्तिरिति ह्येतत्तत्त्वमाहुर्मनीषिणः।’
इत्युक्तनीत्या परस्पराश्लिष्टं, तद्वत् तेनैव प्रकारेण, विद्यादेव-
तयोः – विद्या पञ्चदशाक्षरी देवता महात्रिपुरसुन्दरी तयो-
र्वेद्यवेदकयोः वाच्यवाचकयोः, भेदलेशोऽपि – ईषद्वैलक्षण्य-
मपि नास्ति, एवम् अभिन्ननादादिमिथुनात् अखिलं जगत्
आविर्भवति इति ॥ ११ ॥
तदेव मिथुनम् आत्मेच्छयैव स्वभेदमस्वभेदमकरोत् इत्याह
वागर्थौ नित्ययुक्तौ
परस्परं शक्तिशिवमयावेतौ ।
सृष्टिस्थितिलयभेदौ
त्रिधा विभक्तौ त्रिबीजरूपेण ॥ १२ ॥

Page 20Permalink

१६ कामकलाविलासः
वाक् वर्ण-पद-मन्त्ररूपा, अर्थः कला-तत्त्व-भुवनात्मा, एत-
द्रूपत्वं कुतः? - प्रकाशविमर्शात्मकशब्दार्थाभ्यामेव षडध्वा-
त्मकसर्वप्रपञ्चोत्पत्तिश्रवणात्, अत एव नित्ययुक्तौ निरन्तरसं-
सक्तौ, नहि घटपटयोरिव कादाचित्कः संबन्धः, तथा सति
सर्वोत्पत्तिप्रसंगः। सृष्टिस्थितिलयभेदौ - सृष्टिः शिवादिक्षिति-
पर्यन्ततत्त्वजालाविर्भावः, स्थितिः तत्परिपालनं, लयस्तेषां
स्वात्मसात्कारः एवं-भूतो भेदो ययोस्तौ। स्वात्मत्वं तु एतेषां
त्रयाणां, तथा च अभिनवगुप्तपादाः
'स्वात्मगाः सृष्टिसंहाराः स्वरूपत्वेन संस्थिताः ।'
इति। परस्परं शक्तिशिवमयो प्रकाशविमर्शस्वरूपौ, उभ-
योरेकत्वात् वह्निदाहकत्ववत् तत्त्वान्तरं न भवति इत्यर्थः।
अभियुक्तोक्तिश्च
'तादात्म्यमनयोर्नित्यं वह्निदाहकयोरिव ।'
इति। एतौ पूर्वोक्तौ प्रकाशविमर्शौ त्रिधा त्रिप्रकारेण
संस्थितौ, विभक्तौ पृथग्भूतौ। केन? इत्याह - त्रिबीजरूपे-
णेति, वाग्भव-कामराज-शक्तिबीजात्मकत्वेन इत्यर्थः। अय-
मर्थः - बिन्दुत्रयसमष्टिभूतकामकलाक्षररूपिणी महात्रिपुर-
सुन्दरी सर्वोपास्या इति ॥ १२ ॥
इतः परं वाग्भवादिखण्डत्रयान्तर्गतवस्तुविशेषवर्णनद्वारा
श्रीपञ्चदशाक्षरीविद्याम् उद्धर्तुम् उपक्रमते