सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished588 पृष्ठ

पृष्ठ 33, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 33
पृष्ठ 33 स्कैन

न्पण्यं तस्य मही तुलायास्तुलाराशेः स्थानम् । अश्मविषकीटविलप्रदेशाः = अश्मा पाषाणो
विषं गरलं कीटाः कृमयस्तेषां बिलप्रदेशा गर्त्तानि, कीटस्य = वृश्चिकराशेः स्थानानि । वाजि-
रथवारणवासभूमिः = वाजिनोऽश्वाः, रथाः स्यन्दनानि, वारणा हस्तिनस्तेषां वासभूमिश्चापस्य =
धनूराशेः स्थानम् । सरिदम्बुवनप्रदेशाः = सरितां नदीनामम्बूनि जलानि, वनप्रदेशा आर-
ण्यानि तानि, एणाननस्य = मकरस्य निवासस्थानानि । अत्र मकरस्य पूर्वदले ( १५ अंशाः )
वनेषु, तथाऽपरं दलं जलेषु तिष्ठतीदमवधेयम् । तोयघटभाण्डगृहस्थलानि = तोयं जलं, घटः
कलशः, भाण्डानि पात्राणि, गृहाण्यायतनानि तेषां स्थलानि भूमयः कुम्भस्य निवासस्था-
नानि । मीनाधिवाससरिदम्बुधितोयराशिः = मीनानां मत्स्यानामधिवासो हृदादिः, सरितो नद्यः,
[