सामग्री पर जाएँ
सर्वकोश
जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)

Jataka Parijata of Vaidyanatha Dikshita with Commentary

वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा

DevanagariHindipublished588 पृष्ठ

पृष्ठ 34, कुल 588 में से

संदर्भ में पढ़ें
पृष्ठ 34

८ सटीकजातकपारिजाते-
प्राक् पूर्वा दिगादियेषां तानि प्रागादीनि, प्रागादीनि च क्रियगोनृयुक्तकभानि प्रागादिक्रि-
यगोनृयुक्तकभान्येतानि कोणान्वितान्याहुः । अत्रेदमुक्तं भवति स्वस्वकोणेन=नवमेन पञ्च-
मेन च सहितानि, क्रिय-( मेषः ) गो-( वृषः ) नृयुक्-( मिथुनं ) कटक-( कर्कः )
भान्येतानि पूर्वादिषु ज्ञेयानीत्याहुः । यथा पूर्वस्यां दिशि मेष-सिंह-धनूंषि । दक्षिणस्यां
वृष-कन्या-मकराः । पश्चिमायां मिथुन-तुला-कुम्भाः । उदीच्यां कर्क-वृश्चिक-मीना इति ।
प्रयोजनं च हतनष्टादौ द्रव्यस्य चौरादेश्च दिग्विज्ञानम् । अपि च 'यातव्यदिङ्मुखगतस्य
सुखेन सिद्धिर्व्यर्थश्रमो भवति दिक्प्रतिलोमलग्ने" इति । अथ राशीनां शुभाशुभत्वमाह-
क्रूरशुभाविति । मेषः क्रूरो वृषः शुभः, मिथुनं क्रूरः कर्कः शुभः । एवं मेषाद्विषमाः क्रूरा-
स्तथा वृषादिसमाः शुभा ज्ञेयाः । प्रयोजनं च-"उग्रे क्रूराः पुरुषाः सौम्याः सौम्येषु भव-
नेषु" इति । अथ च तानि = मेषादीनि भानि क्रमात् = क्रमशः चरस्थिरतरद्वन्द्वानि ज्ञेयानि ।
यथा मेषः चरः, वृषः स्थिरः, मिथुनं द्वन्द्वमित्येवं मेष-कर्क-तुला-मकराश्चराः । वृष-सिंह-
वृश्चिक-कुम्भाः स्थिराः । मिथुन-कन्या-धनुर्मीना द्विस्वभावा इति । प्रयोजनं, हतनष्टादौ
द्रव्यादेश्चौरादेश्च ज्ञानमपि च जन्मनि चरे चरधियः, स्थिरे स्थिरधियः, द्वन्द्वे मिश्रस्वभावाः
पुरुषा भवन्तीति ॥
अथ राशीनामुदयव्यवस्थां बलसमयं च निर्दिशति-वीर्योपेता इति । वृषनृयुक्कर्क-
चापाजनक्राः=वृष-मिथुन-कर्क-धनुर्मेष-मकराः निशि=रात्रौ वीर्योपेताः=बलिनो भवन्ति ।
युग्मं अपनं=मिथुनराशिं, हित्वा=त्यक्त्वा एत एव पृष्ठपूर्वोदयाश्च=पृष्ठोदया भवन्तीति । मिथुनं
शीर्षेणैवोदेति । शेषाः=पूर्वोक्तेभ्योऽवशिष्टाः=सिंह-कन्या-तुला-वृश्चिक-कुम्भाः, शीर्षोदयदि-
नबलाः = शीर्षोदया दिवा बलिनश्च भवन्ति । अत्रैतत् दिनरात्रिवलावलोकनं सञ्ज्ञामात्र-
मेव । यतोऽग्रे वक्ष्यति विशेषतो बलाबलत्वमेतस्मिन्नेवाध्याये षोडशादिश्लोकत्रये । श्रेष्ठ-
ताराशयस्ते । स्वस्वोच्चसमये ते राशयः श्रेष्ठाः = श्रेष्ठाः सन्तीत्यर्थः । मीनाकारद्वयं =
मत्स्यरूपद्वयं, उभयतोऽन्योन्यं, काललग्नं = काले = एककालावच्छेदेन लग्नं मुखपुच्छसंलग्न-
मित्यर्थः, समेति उदयं गच्छतीति । तथोक्तं बृहज्जातकेऽपि-
"गोजाश्विकर्किमिथुनाः समृगा निशाख्याः पृष्ठोदया विमिथुनाः कथितास्त एव ।
शीर्षोदया दिनबलाश्च भवन्ति शेषा लग्नं समेत्युभयतः पृथुरोमयुग्मम्" इति ॥ १३-१४ ॥
मेष, वृष, और कुम्भ, ह्रस्व हैं । मकर, मिथुन, धनु, मीन, और कर्क, सम हैं । वृश्चिक,
कन्या, सिंह, और तुला दीर्घ हैं । मेषादि द्वादश राशि क्रमसे पुरुष और स्त्री संज्ञक हैं । मे.
मि. सिं. तु. ध. कु. ये नर-राशि हैं । एवं वृ. क. कं. वृ. म. मी. ये स्त्री-राशि हैं । मेष, वृष,
मिथुन, कर्क, अपने २ पञ्चम और नवमसे सहित पूर्वादि दिशाके राशि हैं । जैसे मे. सिंह ध.
पूर्व की । वृष, कन्या, मकर, दक्षिणकी । मिथुन, तुला, कुम्भ पश्चिमकी । और कर्क, वृश्चिक,
मीन उत्तर दिशाकी राशि हैं । मे. मि. सिं. तु. ध. कुं ये क्रूर हैं । एवं वृ. क. कं. वृ. म. मी.
ये शुभ हैं । मेषादि राशियोंकी क्रूर और सौम्य संज्ञा है । मेषादि द्वादश राशि क्रम से चर
स्थिर द्विस्वभाव संज्ञक हैं । जैसे - १।४।७।१० ये चर हैं । २।५।८।११ ये स्थिर हैं और ३।६।९।
१२ ये द्विस्वभाव हैं ॥ १३ ॥
वृष, मिथुन, कर्क, धनु, मेष और मकर ये राशियां रात्रिमें बली हैं । मिथुनको छोड़
कर ये ही पृष्ठोदय हैं । शेष ( सिंह-कन्या. तुला. वृश्चिक. कुम्भ ) राशि दिनमें बली हैं । ये
ही और मिथुन शीर्षोदय हैं । मीन दो मछलियों के मुख पूंछ मिल कर उभयोदय है । जो
पीठ से उदय होते हैं वे पृष्ठोदय जो शिर से उदय होते हैं वे शीर्षोदय हैं ॥ १४ ॥