सामग्री पर जाएँ
सर्वकोश
हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

हस्त्यायुर्वेद: गजशास्त्र (पालकाप्य मुनि - सम्पूर्ण गज-चिकित्सा, शरीर-रचना एवं मत्त-गज प्रबन्धन)

Hastyayurveda Gajashastra of Palakapya Muni with Commentary

पालकाप्य मुनि (सम्पादक: पं. शिवदत्त शर्मा) द्वारा

DevanagariHindipublished742 पृष्ठ

पृष्ठ 407, कुल 742 में से

संदर्भ में पढ़ें
पृष्ठ 407

३६६ पालकाप्यमुनिविरचितो— [३ शल्यस्थाने-
विपरीतैः । तत्र बलतृप्त्युपचयकरः श्लेष्मा । पित्तमाहारं पचति । वायुश्चेष्टाप्रव-
र्तकः पञ्चधा प्रविभक्तः ॥
—:() :—
द्वावित्याहारोपचारौ । ताभ्यामिष्टदेशकालोपपन्नाभ्यां वातादयः समीभवन्ति ॥
चतुर इति चतुर्विधो¹ भूतग्रामः स्वेदजाण्डजोद्भिज्जजरायुजाख्याः । तदधीना
चिकित्सा । तत्रापि द्विविधा योनिः—चरा स्थावरा च । तत्र कृमिकीटपतङ्ग-
पिपीलिकादंशमशकनागचतुष्पदाश्चराः । ओषधिर्वनस्पतिर्वानस्पत्यो वीरुधः
स्थावराः । तत्र स्तम्भवत्यः फलपाकान्ता ओषधयः । पुष्पफलवत्यो वानस्पत्यः ।
अपुष्पाः फलवत्यो वनस्पतयः । गुल्मलतावल्लीप्रतानवत्यो वीरुधः । इत्येष
चतुर्विधो भूतग्रामोऽन्योन्यानुग्रहे प्रवर्तते । ततो रसाः प्रजायन्ते, इति ॥
—:०:—
नव इति । प्राणापानव्यानोदानसमाना मानसचेतना (*धातु)बुद्धयः ।
तत्रोर्ध्वः प्राणः । स ऊर्ध्वगोऽभिन्यस्तनिःश्वासक्षवथुकर्मा शरीरं श्रेयसे²
नियुनक्ति । अपानोऽधस्तात्पकं पक्वं मूत्रपुरीषमुत्सृजति । समानः पुनर्मध्ये
चाभ्यवहृतं पचति धारयति । व्यानोऽभिवहति शरीरं धातुष्वाहारमनुपकम् ।
उदानस्त्वाहारमनुपकमपनयत्यामाशयादूर्ध्वम् । एवमेते योगवाहाः प्रविभक्ताः
पञ्च धातुषु प्रतिपद्यन्ते ॥
विप्रतिपन्नास्ते मध्येऽधस्तिर्यगूर्ध्वबहिरन्तरवस्थिता भ्रमन्तो वा विविधा-
न्रोगानुत्पादयन्ति । तत्र प्राणविप्रतिपत्तौ दुःसोच्छ्वासमहोच्छ्वासानुच्छ्वासचित्त-
विभ्रमक्षवथुवमथूच्छ्वासाः प्रादुर्भवन्ति।अपानविप्रतिपत्तौ गृध्रसीश्वासजघनशूलक-
³ण्ठूवर्त्मेन्द्रियोपरोधाश्मरीबस्तिमुष्कगुददेशोपसृष्टमूत्रपुरीषविकाराः प्रादुर्भवन्ति।
समानविप्रतिपत्तौ चाग्निदौर्बल्यारोचकहृद्दद्योत्क्लेदापसरणानाहोपद्रव⁴दाहज्वर-
जठरशूलगुल्महृद्रोगदर्दूर्(र्ध्व): संभवन्ति । व्यानविप्रतिपत्तौ धातुवैषम्यव्यतिक-
रश्च, तेषां वैषम्यव्यतिकरेभ्यो गदास्त्वग्दोषश्वपथुरेकाङ्गगलरोगनिर्भोगमन्थन-
तोदनभेदनवेपथुश्वासरोमहर्षग्रन्थिहृदयप्रसेकोन्मथनोदावर्ताः संभवन्ति । उदाना-
विप्रतिपत्तावन्तःप्रतीघाततृष्णाश्लेष्माभिषण्णशिरोरोगमन्याग्रहकण्ठेश्वरश्रोतो-
⁵क्षिविकारा घुरघुरावसेकोत्कर्णकाः संभवन्ति । इत्येष प्राणादिपञ्चवायुरुपको-
पतो रोगसमुद्देशः ॥
————————————————————————

  • धातुपदं प्रक्षिप्तमग्रिमग्रन्थानुरोधात् ।
    ————————————————————————
    १ ख. °विधाभू° । २ क. श्रेयसा । ३ क. °ण्डूतावत्र्तेन्द्रि° । ४ क. °होयत्प्र-
    वदा° । ५ क. °ण्ठश्रवसोतो० ।