हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)
Hammira Mahakavya with Hindi Commentary
नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा
पृष्ठ 60, कुल 185 में से
संदर्भ में पढ़ें२] पूर्वजवर्णनम् ११
संकोचयन्वैरिमुखांबुजानि प्रवर्द्धयन् कौमुदमासमुद्रं ।
संपीडयन् दुर्नयसैंहिकेयं नवो विवस्वान् भुवि यत्प्रतापः ॥ ७ ॥
पुरा निजैः प्रौढतरैः प्रतापै रतापयद्यः कुपितो धरित्रीं ।
ततो दयार्द्रकृतचित्तवृत्ति र्यशःसुधाभिर्नितरामसिंचत् ॥ ८ ॥
अप्युग्रवीरव्रतवीरवीर-संसेव्यमानक्रमपद्मयुग्मं ।
श्रीमूलाजं समरे निहत्य यो गुर्ज्जरं जर्जरतामनैषीत् ॥ ९ ॥
कृतारिषड्वर्गजयो नयज्ञः श्रीगुंददेवोय बभौ नृदेवः ।
कवींद्रबद्धापि यदीयकीर्त्ति र्जगत्समस्तं भ्रमतस्म चित्रं ॥ १० ॥
चकार निर्विघ्नविधित्सितस्य यदोजसो द्रव्यलवेन वेधाः ।
गौरीपतेर्यं तिलकं खमूर्त्ते श्चकास्ति सोद्यापि सहस्ररश्मिः ॥ ११ ॥
महीमृगांकोहमिति प्रजानां न्यधत्त यो नैव करान् कठोरान् ।
युक्तं स ईदृग् चकोरहर्ष-दायी परं चित्रमिदं न कस्य ॥ १२ ॥
कल्पांतकालज्वलनोपमाने यस्य प्रतापे ज्वलितेभितोपि ।
यन्प्रीतिवल्ली क्वच नापि नागा म्लानिं तदेतद्गुरुविस्मयाय ॥ १३ ॥
त्रस्तः समंतादपि यत्प्रतापात् द्विषोभिगच्छन् शरणं जलस्य ।
अकृत्यमप्याद्रियतौर्ववन्हि रहो दुरंता बत जीविताशा ॥ १४ ॥
प्रत्यर्थिनां वेश्मसु यत्प्रताप-ज्वालावलीढेषु सुमंततो यत् ।
उज्जंगमामास तृणोच्चयस्त दुक्तं जनेप्यस्य तथैव सिद्धेः ॥ १५ ॥
भूवल्लभो वल्लभराजनामा ततोभवद्भास्वदनर्घधामा ।
लीलावतीलोचनलोभनीय-लावण्यलीलाद्रुतरूपसंपत् ॥ १६ ॥
हित्वा वपुर्मानुषमाजिभूमौ धृतत्वरा देवभुवं व्रजंतः ।
प्रत्यर्थिभूपाः स्मृतयत्प्रतापा श्चकंपिरे वीक्ष्य सहस्ररश्मिं ॥ १७ ॥
स्वर्गश्रिया वैभवाजिन्त्वरीणां श्रियामपारत्वमवेक्ष्य यस्य ।
तत्स्पर्धयेवाऽशु यशांस्यपारी-भूय व्यजृंभंत जगत्यशंकं ॥ १८ ॥
विश्वंभराभारधुरीणबाहू रामस्ततो ऽजायत बाहुजेशः ।
विमर्दितोद्यत्खरदूषणेन येन त्रिलोकी वशमाशु निन्ये ॥ १९ ॥