सामग्री पर जाएँ
सर्वकोश
हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

हम्मीर महाकाव्यम् (रणथम्भौर चौहान वीरगाथा एवं इतिहास)

Hammira Mahakavya with Hindi Commentary

नयचन्द्र सूरि / डॉ. दशरथ शर्मा द्वारा

DevanagariSanskritpublished185 पृष्ठ

पृष्ठ 52, कुल 185 में से

संदर्भ में पढ़ें
पृष्ठ 52

१ ] पूर्वजवर्णनम् ३
जयश्रिया प्राप्तमहावियोगान्संमूर्च्छयन् वैरिगणान्निकांमं ।
यो युध्यवाची पवनायितोपि चित्रं द्विजिह्वान् सुखीचकार ॥ २३ ॥
प्रस्पर्धते मद्यशसा ऽस्य सूनुः शशीयमर्पात् किल यौम्बुराशेः ।
गांभीर्यलक्ष्मीं हरतिस्म किन्न सुतापराधे जनकस्य दंडः ? ॥ २४ ॥*
तदा ऽख्यया जायत चाहमान-वंश स्त्रिलोकीविहितप्रशंसः ।
शश्वत् सुपर्वावलिसेव्यमान उत्पत्तिहेतु र्नरमौक्तिकानां ॥ २५ ॥
तस्मिन् स्फुरद्विक्रमचक्रवाला वंशे बभूवु र्बहवो नृपालाः ।
त्रिवर्गसंसर्गपवित्रचित्र-चरित्रविन्नासितपापभाराः ॥ २६ ॥
पराक्रमाक्रांतजगत्क्रमेणा भवन्नृपो दीक्षितवासुदेवः ।
शकासुरान् जेतु मिहावतीर्णः स्वयं धरायामिव वासुदेवः ॥ २७ ॥
सपत्नसंघातशिरोधिसंधि-च्छेदादसिं कुंठतरं निजे यः ।
प्रतापवह्लावभिताप्य काम मपाययत्तद्रमणीदृगंबु ॥ २८ ॥
छिन्नद्विषन्मंडलमौलिमूला-सृक्पूरदिग्धासिलताछलेन ।
रणाजिरे यस्य करे विरेजे व्यक्त्तानुरागेव भृशं जयश्रीः ॥ २९ ॥
प्रवाद्यमाने रणवाद्यवृंदे संपश्यमानेषु दिवः सुरेषु ।
शौर्यश्रियं यो रणरंगभूमा वनर्त्तयद्देलदसिच्छलेन ॥ ३० ॥
भास्वान् जितो यन्महसा ददाति झंपां किमद्यापि न वारिराशौ ।
उन्मज्जति व्याकुलितो ऽन्वहं द्य सुदुस्त्यजं हा ! हतजीवितव्यं ॥ ३१ ॥
तदंगजन्मा ऽजनि नाभिजन्मा-र्हणाचणः श्रीनरदेवभूपः ।
तनूदरीलोचनलोभनीय-तनुश्रिया र्जितकामरूपः ॥ ३२ ॥ *
अशात्रवं विश्वमिदं विधातुं क्रुद्धे परिक्राम्यति यत्र भूपे ।

  • राज्यश्रियं पातुमरातयः स्व-कोशादसून्यांचकृषुर्न खङ्गान् ॥ ३३ ॥
    संख्येपु पूर्वाचलचूडशोभां बाहुर्यदीयः कलयांबभूव ।
    म्लानिं नयन्वैरिमुखांबुजानि रराज यस्मिन् नवचंद्रहासः ॥ ३४ ॥
    प्रतापवह्नि र्ज्वलितो यदीयः स्थाने यदन्यायवनान्यधाक्षीत् ।
    जगज्जनाश्चर्यकरं तदैतत् यद्वैरिणां कंपभरं ततान ॥ ३५ ॥