भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द) द्वारा
स्रोत: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (उद्गम)
इस ग्रन्थ के बारे में
भामती अद्वैत वेदान्त का एक आधारभूत टीका-ग्रन्थ है। नवीं-दसवीं शताब्दी के मैथिल आचार्य वाचस्पति मिश्र ने इसे बादरायण के ब्रह्मसूत्र पर शंकराचार्य के शारीरक-मीमांसा-भाष्य की व्याख्या के रूप में लिखा। परम्परा के अनुसार इसका नाम उनकी पत्नी भामती के नाम पर पड़ा। इसी टीका से अद्वैत की 'भामती-प्रस्थान' नामक धारा चली, जो अविद्या के आश्रय और विषय जैसे प्रश्नों पर विवरण-प्रस्थान से भिन्न मत रखती है।
यह खण्ड ब्रह्मसूत्र के आरम्भिक भाग पर केन्द्रित है, जिसे चतुःसूत्री कहा जाता है: 'अथातो ब्रह्मजिज्ञासा', 'जन्माद्यस्य यतः', 'शास्त्रयोनित्वात्' और 'तत्तु समन्वयात्'। शंकर का अध्यास-भाष्य और इन चार सूत्रों का भाष्य पूरे अद्वैत दर्शन की नींव माने जाते हैं, इसलिए वेदान्त के अध्येता सबसे अधिक परिश्रम इन्हीं पर करते हैं।
इस संस्करण में सूत्र, शाङ्करभाष्य, भामती और स्वामी ऋषिराम के शिष्य उदासीन संन्यासी स्वामी योगीन्द्रानन्द की विस्तृत हिन्दी 'भामती-व्याख्या' एक साथ हैं। यह चौखम्बा विद्याभवन, वाराणसी की विद्याभवन प्राच्यविद्या ग्रन्थमाला (क्रमांक १२) का प्रथम भाग है, जिसका यह स्कैन 2005 के संस्करण का है और 639 पृष्ठों का है।
निषेधवाक्येषु कार्याभावः ] हिन्दीसहितभामतीसंवलितम् १६९
भामती
तु दण्डादि हस्तादिना व्यापारयति। तस्माद् घटार्थी कृतिं व्यापारविषयामेव प्रतिपद्यते, न तु रूपतो घटविषयाम्, उद्देश्यतया त्वस्यामस्ति घटो न तु विषयतया, विषयतया तु हस्तादिव्यापार एव। अत एवाग्नेय इत्यत्रापि द्रव्यदेवतासम्बन्धाक्षिप्तो यजिरेव कार्यविषयो विधेयः। किमुक्तं भवति आग्नेयो भवतीति, आग्नेयेन यागेन भावयेदिति। अत एव 'य एवं विद्वान् पौर्णमासीं यजते', 'य एवं विद्वानमावास्यां यजते' इत्यनुवादो भवति यदाग्नेय इत्यादिविहितस्य यागषट्कस्य। अत एव च विहितानुष्ठितस्य तस्यैव दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यधिकारसम्बन्धः। तस्मात् सर्वत्र कृतिप्रणालिकया
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| १७० | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. ४ |
|---|
'ब्राह्मणो न हन्तव्यः' इत्येवमाद्या निवृत्तिरुपदिश्यते । न च सा क्रिया । नापि क्रियासाधनम् । अक्रियार्थानामुपदेशोऽनर्थकश्चेत् 'ब्राह्मणो न हन्तव्यः' इत्यादिनिवृत्त्युपदेशानामानर्थक्यं प्राप्तम् । तच्चानिष्टम् । न च स्वभावप्राप्तहन्त्यर्थानुरागेण नञः
भामती
सम्भवे लक्षणा न्याय्या । नेक्षेतोद्यन्तमित्यादौ तु तस्य व्रतमित्यधिकारात् प्रसज्यप्रतिषेधासम्भवेन पर्युदासवृत्त्याऽनीक्षणसङ्कल्पलक्षणा युक्ता । तस्मान्न हन्यान्न पिबेदित्यादिषु प्रसज्यप्रतिषेधेषु भावार्थाभावात् तद्व्याप्तायाः कृतेरभावस्तदभावे च तद्व्याप्यस्य कार्यस्याभाव
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंनिषेधवाक्येषु कार्याभावः ] हिन्दीसहितभामतीसंवलितम् १७१
शक्यमप्राप्तक्रियार्थत्वं कल्पयितुं हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण । नञश्चैष स्वभावो यत्स्वसम्बन्धिनोऽभावं बोधयतीति । अभावबुद्धिश्चौदासीन्यकारणम् । सा च दग्धेन्धनाग्निवत्स्वयमेवोपशाम्यति । तस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेव 'ब्राह्मणो न हन्तव्य-' इत्यादिषु प्रतिषेधार्थं मन्यामहे, अन्यत्र प्रजापतिव्रतादिभ्यः ।
भामती
रागतः प्रवृत्तस्य हननपानादावकस्मादौदासीन्यमनुपपद्यते विना विधारकप्रयत्नम् । तस्मात् स एव प्रवृत्त्युन्मुखानां मनोवाग्देहानां विधारकः प्रयत्नो निषेधविधिगोचरः क्रियेति नाक्रियापरमस्ति वाक्यं किञ्चिदपीत्याह ॐ **न च हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| १७२ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. ४ |
|---|
भामती
सिद्धवत् साध्ये च साध्यवद् भासत इति साध्यविषयो नञर्थः साध्यवद् भासत इति नञर्थः कार्यं इति भ्रमस्तविदमाह ꣸ नञश्चैष स्वभावः इति ꣸ । ननु बोधयतु सम्बन्धिनोऽभावं नञ् , प्रवृत्त्युन्मुखानान्तु मनोवाग्देहानां कुतोऽकस्मान्निवृत्तिरित्यत आह ꣸ अभावबुद्धिश्चौदासीन्यपालनकारणम् ꣸ । अयमभिप्रायः—ज्वरितः पथ्यमश्नीयाद् न सर्पायाङ्गुलिं दद्यादित्यादिवचनश्रवणसमनन्तरं प्रयोज्यवृद्धस्य पथ्याशने प्रवृत्तिं भुजङ्गाङ्गुलिदानोन्मुखस्य च ततो निवृत्तिमुपलभ्य बालो व्युत्पित्सुः प्रयोज्यवृद्धस्य प्रवृत्तिनिवृत्तिहेतू इच्छाद्वेषावनुमिमीते । तथाहीच्छाद्वेषहेतुके वृद्धस्य प्रवृत्तिनिवृत्ती, स्वतन्त्रप्रवृत्तिनिवृत्तित्वात् ,
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंनिषेधवाक्येषु कार्याभावः ] हिन्दीसहितभामतीसंवलितम् १७३
भामती
कर्त्तव्यतां चावगमयति, अनन्यलभ्यत्वादुभयोः, अनन्यलभ्यस्य च शब्दार्थत्वात् । यत्र तु कर्त्तव्यताऽन्यत एव लभ्यते, यथा न हन्यान्न पिबेदित्यादिषु हननपानप्रवृत्त्यो रागतः प्रतिलम्भात्तत्र तदनुवादेन नञ्समभिव्याहृता लिङादिविभक्तिरन्यतोऽप्राप्तमनयोरनर्थ-हेतु-भावमात्रमवगमयति । प्रत्यक्षं हि तयोरिष्टसाधनभावोऽवगम्यते, अन्यथा रागविषयत्वायोगात् । तस्माद्रागादिप्राप्तकर्त्तव्यानुवादेनानर्थसाधनता प्रज्ञापनपरं न हन्यान्न पिबेदित्यादिवाक्यं, न तु कर्त्तव्यतापरमिति सुष्ठूक्तमकार्यनिष्ठत्वं निषेधानाम् । निषेध्यानां चानर्थसाधनताबुद्धिरेव निषेध्याभावबुद्धिस्तथा खल्वयं चेतन
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| १७४ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. ४ |
|---|
तस्मात्पुरुषार्थानुपयोग्युपाख्यानादिभूतार्थवादविषयमानर्थक्याभिधानं द्रष्टव्यम् ।
यदप्युक्तम्—कर्तव्यविध्यनुप्रवेशमन्तरेण वस्तुमात्रमुच्यमानमनर्थकं स्यात्, 'सप्तद्वीपा वसुमती' इत्यादिवदिति, तत्परिहृतम्, 'रज्जुरियं नायं सर्पः' इति वस्तुमात्रकथनेऽपि प्रयोजनस्य दृष्टत्वात् । ननु श्रुतब्रह्मणोऽपि यथापूर्वं संसारित्वदर्शनान्न रज्जुस्वरूपकथनवदर्थवत्त्वमित्युक्तम्, अत्रोच्यते—नावगतब्रह्मात्मभावस्य यथापूर्वं
भामती
मुद्धृत्य दग्धेन्धनाग्निवत् स्वयमेवोपशाम्यति । एतदुक्तं भवति—यथा प्रासादावस्थानकारणं स्तम्भो नैवमौदासीन्यावस्थानकारणमभावबुद्धिः, अपि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंश्रुतब्रह्मणो विशेषः ] हिन्दीसहितभामतीसंवलितम् १७५
संसारित्वं शक्यं दर्शयितुं, वेदप्रमाणजनितब्रह्मात्मभावविरोधात् । न हि शरीराद्यात्मा-
भिमानिनो दुःखभयादिमत्त्वं दृष्टमिति तस्यैव वेदप्रमाणजनितब्रह्मात्मावगमे तदभि-
माननिवृत्तौ तदेव मिथ्याज्ञाननिमित्तं दुःखभयादिमत्त्वं भवतीति शक्यं कल्पयितुम् ।
न हि धनिनो गृहस्थस्य धनाभिमानिनो धनापहारनिमित्तं दुःखं दृष्टमिति तस्यैव
प्रव्रजितस्य धनाभिमानरहितस्य तदैव धनापहारनिमित्तं दुःखं भवति । न च कुण्ड-
लिनः कुण्डलत्वाभिमाननिमित्तं सुखं दृष्टमिति तस्यैव कुण्डलवियुक्तस्य कुण्डलित्वा-
भिमानरहितस्य तदेव कुण्डलत्वाभिमाननिमित्तं सुखं भवति । तदुक्तं श्रुत्या —
‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ (
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१७६ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. १ सू. ४
ृत्वमिति चेन्न; शरीरसंबन्धस्यासिद्धत्वाद्धर्माधर्मयोरात्मकृतत्वासिद्धेः । शरीरसंबन्धस्य धर्माधर्मयोस्तत्कृतत्वस्य चेतरेतराश्रयत्वप्रसङ्गादन्धपरंपरैषाऽनादित्वकल्पना । क्रियासमवायाभावाच्चात्मनः कर्तृत्वानुपपत्तेः ।
भामती
स्यादेतत् — न मिथ्याज्ञाननिमित्तं सशरीरत्वमपि तु धर्माधर्मनिमित्तं, तच्च स्वकारणधर्माधर्मनिवृत्तिमन्तरेण न निवर्त्तते । तन्निवृत्तौ च प्रयाणमेवेति न जीवतोऽशरीरत्वमिति शङ्कते ॐ तत्कृत इति ॐ । तदित्यात्मानं परामृशति । निराकरोति ॐ न, शरीरसम्बन्धस्य इति ॐ । न तावदात्मा साक्षाद्धर्माधर्मौ कर्तुमर्हति, वाग्बुद्धिशरीरारम्भजनितौ हि तौ नासति
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंअहंप्रतीतेर्गौणत्वम् ] हिन्दीसहितभामतीसंचालितम् १७७
संनिधानमात्रेण राजप्रभृतीनां दृष्टं कर्तृत्वमिति चेन्न; धनदानाद्युपार्जितभृत्य-संबन्धित्वात्तेषां कर्तृत्वोपपत्तेः, न त्वात्मनो धनदानादिवच्छरीरादिभिः स्वस्वामि-संबन्धनिमित्तं किंचिच्छक्यं कल्पयितुम्। मिथ्याभिमानस्तु प्रत्यक्षः संबन्धहेतुः। एतेन यजमानत्वमात्मनो व्याख्यातम्।
अत्राहुः—देहादिव्यतिरिक्तस्यात्मन आत्मीये देहादावभिमानो गौणो, न मिथ्येति चेन्न; प्रसिद्धवस्तुभेदस्य गौणत्वमुख्यत्वप्रसिद्धेः। यस्य हि प्रसिद्धो वस्तुभेदः,
भामती
शङ्कते ॐ संनिधानमात्रेण इति ॐ। परिहरति ॐ न इति ॐ। उपार्जनं स्वीकरणम्। न
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें१७८ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. १ सू. ४
यथा केसरादिमानाकृतिविशेषोऽन्वयव्यतिरेकाभ्यां सिंहशब्दप्रत्ययभाङ्मुख्योऽन्यः प्रसिद्धः, ततश्चान्यः पुरुषः प्रायिकैः क्रौर्यशौर्यादिभिः सिंहगुणैः संपन्नः प्रसिद्धः, तस्य पुरुषे सिंहशब्दप्रत्ययौ गौणौ भवतो नाप्रसिद्धवस्तुभेदस्य । तस्य त्वन्यत्रान्यशब्द-प्रत्ययौ भ्रान्तिनिमित्तावेव भवतो न गौणौ । यथा मन्दान्धकारे स्थाणुरयमित्यगृह्य-माणविशेषे पुरुषशब्दप्रत्ययौ स्थाणुविषयौ, यथा वा शुक्तिकायामकस्माद्रजतमिदमिति
भामती
**स्थाणुरयमित्यगृह्यमाणविशेषे वस्तुनि पुरुषात्सांशयिकौ पुरुषशब्दप्रत्ययौ स्थाणुविषयौ, तत्र तु
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंजीवतोऽशरीरत्वम् } हिन्दीसहितभामतीसंवलितम् १७९
निश्चितौ शब्दप्रत्ययौ, तद्देहादिसंघातेऽहमिति निरुपचारेण शब्दप्रत्ययावात्मानात्मा-
विवेकेनोत्पद्यमानौ कथं गौणौ शक्यौ वदितुम् ? आत्मानात्मविवेकिनामपि पण्डिताना-
मजाविपालानामिवाविविक्तौ शब्दप्रत्ययौ भवतः। तस्माद्देहादिव्यतिरिक्तात्मास्ति-
त्ववादिनां देहादावहंप्रत्ययो मिथ्यैव, न गौणः। तस्मान्मिथ्याप्रत्ययनिमित्तत्वात्स-
शरीरत्वस्य सिद्धं जीवतोऽपि विदुषोऽशरीरत्वम्। तथा च ब्रह्मविद्विषया श्रुतिः
'तद्यथाहिनिर्व्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेते।
अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव' (बृह० ४।४।७) इति। 'सचक्षुरचक्षुरिव
सकर्णोऽकर्ण इव
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| १८० | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. ४ |
|---|
पर्यवसायित्वमिति। न; अवगंत्यर्थत्वान्मनननिदिध्यासनयोः। यदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येत भवेत्तदा विधिशेषत्वम्। न तु तदस्ति; मनननिदिध्यासनयोरपि श्रवणवदवगंत्यर्थत्वात्। तस्मान्न प्रतिपत्तिविधिविषयतया शास्त्रप्रमाणकत्वं ब्रह्मणः संभवतीत्यतः स्वतन्त्रमेव ब्रह्म शास्त्रप्रमाणकं वेदान्तवाक्यसमन्वयादिति सिद्धम्। एवं च सति 'अथातो ब्रह्मजिज्ञासा' इति तद्विषयः पृथक्शास्त्रारम्भ उपपद्यते। प्रतिपत्तिवि-
भामती
मनननिदिध्यासनयोरपि न विधिस्तयोरन्वयव्यतिरेकसिद्धसाक्षात्कारफलयोर्विधिसरूपैर्वचनैरनुवादात्। तदिदमुक्तम् ॐ अवगंत्यर्थत्वाद् इति ॐ। ब्रह्मसाक्षात्कारोऽवगतिस्तदर्थत्वं
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करेंउपनिषदां ब्रह्मपरत्वम् ] हिन्दीसहितभामतीसंवलितम् १८१
धिपरत्वे हि 'अथातो धर्मजिज्ञासा' इत्येवारब्धत्वान्न पृथक्शास्त्रमारभ्येत । आरभ्यमाणं चैवमारभ्येत—'अथातः परिशिष्टधर्मजिज्ञासा' इति, 'अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा' (जै० ४।१।१ ) इतिवत् । ब्रह्मात्मैक्यावगतिस्त्वप्रतिज्ञातेति तदर्थो युक्तः शास्त्रारम्भः— 'अथातो ब्रह्मजिज्ञासा' इति । तस्मादहं ब्रह्मास्मीत्येतदवसाना एव सर्वे विधयः सर्वाणि चेतराणि प्रमाणानि । नह्यहेयानुपादेयाद्वैतात्मावगतौ निर्विषयान्यप्रमातृकाणि च प्रमाणानि भवितुमर्हन्तीति । अपि चाहुः—
गौणमिथ्यात्मनोऽसत्त्वे पुत्रदेहादिबाधनात् ।
सद्ब्रह्मात्माहमित्येवंबोधि
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें| १८२ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. ४ |
|---|
अन्वेष्टव्यात्मविज्ञानात्प्राक्प्रमातृत्वमात्मनः ।
अन्विष्टः स्यात्प्रमातैव पाप्मदोषादिवर्जितः ॥
भामती
यथा स्वदुःखेन दुःखी यथा स्वसुखेन सुखी तथा पुत्रादिगतेनापीति सोऽयं गुणः। न त्वेकत्वाभिमानो, भेदस्यानुभवसिद्धत्वात् ? तस्माद् गौर्वाहीक इतिवद्गौणः, देहेन्द्रियादिषु त्वभेदानुभवान्न गौण आत्माभिमानः, किन्तु शुक्तौ रजतज्ञानवन्मिथ्या । तदेवं द्विविधोऽयमात्माभिमानो लोकयात्रां वहति, तदसत्त्वे तु न लोकयात्रा, नापि ब्रह्मात्मैकत्वानुभवः तदुपायस्य श्रवणमननादेरभावात्। तद्विवाह ॐ पुत्रदेहादिबाधनात् ॐ । गौणात्मनोऽसत्त्वे पुत्रकलत्रादिबाधनं ममकाराभाव इति यावत् । मिथ्यात्मनोऽसत्त्वे देहेन्द्रियादिबाधनं श्रवणादिबाधनञ्च । तथा च न केवलं लोकयात्रासमुच्छेदः सद् ब्रह्माहमित्येवंबोधशीलं यत्कार्यमद्वैतसाक्षात्कार इति यावत् तदपि ॐ कथं भवेत् ॐ । कुतस्तदसम्भव इत्यत आह ॐ अन्वेष्टव्यात्मविज्ञानात्प्राक् प्रमातृत्वमात्मनः ॐ । उपलक्षणं चैतत् । प्रमाप्रमेयप्रमाणविभाग इत्यपि द्रष्टव्यम् ।
भामती-व्याख्या
अन्वेष्टव्यात्मविज्ञानात् प्राक् प्रमातृत्वमात्मनः ।
अन्विष्टः स्यात् प्रमातैव पाप्मदोषादिवर्जितः ॥
देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः ।
लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात् ॥
पुत्र-दारादि में आत्माभिमान गौण होता है, क्योंकि जैसे सिंह के शूरतादि गुणों को अपना कर देवदत्त गौण सिंह बनता है, वैसे ही पुत्र-दारादि के सुखित्व-दुःखित्वादि रूप गुणों को अपने में मानकर अहमर्थभूत आत्मा कहता है—'अहं सुखी, दुःखी च'। पुत्र-दारादि के साथ एकत्वाभिमान नहीं होता, क्योंकि उनसे आत्मा का भेद अनुभव-सिद्ध है, अतः 'गौर्वाहीकः'—इत्यादि के समान गौणाभिमान ही है [गुण वृत्ति का उदाहरण प्रस्तुत करते हुए कैयट ने लिखा है—'सिंहो माणवकः', 'गौर्वाहीकः' इत्यादावपि ताद्धर्म्यात्ताद्रूप्यारोपात् तच्छब्द वृत्तिः, तदुक्तं हरिणा—
गोत्वानुषङ्गो वाहीके निमित्तात् कैश्चिदिष्यते ।
अर्थमात्रं विपर्यस्तं शब्दः स्वार्थे व्यवस्थितः ॥
किसी जड़-मूर्ख व्यक्ति के लिए जैसे 'बैल' शब्द का गौण प्रयोग हो जाता है, वैसे ही पञ्जाब के 'बहिः' प्रखण्ड में रहनेवाले मूर्ख हलवाहे के लिए 'गौर्वाहीकः'—ऐसा प्रयोग प्राचीनकाल से होता आया है ]। देह और इन्द्रियादि में जो आत्माभिमान होता है, गौण नहीं, क्योंकि वहाँ देहादि से आत्मा का भेद प्रतीत नहीं होता, अतः वह वैसा ही मिथ्या प्रत्यय या अध्यास है, जैसा कि शुक्ति में रजत-प्रत्यय । यही 'गौण' और 'मिथ्या' भेद से भिन्न द्विविध आत्माभिमान लौकिक व्यवहार का निर्वाहक माना जाता है । उसकी सत्ता न मानने पर न तो लोक-व्यवहार का निर्वाह होगा और न ब्रह्मात्मैकत्व का अनुभव, क्योंकि उसके उपायभूत श्रवण-मननादि का अनुष्ठान अध्यासमूलक ही होता है, अध्यास का अभाव होने पर न हो सकेगा, यही कहा गया है—"पुत्रदेहादिबाधनात्" । अर्थात् गौणात्मा के न होने पर ममकार का अभाव हो जाने से पुत्र-दारादि का बाध हो जाता है और मिथ्या आत्मा की असत्ता होने पर देहेन्द्रियादि और श्रवणादि साधनों का बाध हो जाता है । तब न केवल लोक-व्यवहार का समुच्छेद हो जाता है, अपितु 'सद्ब्रह्माहम्'—इस प्रकार का जो बोधरूप कार्य (अद्वैत-साक्षात्कार) है, वह भी कैसे होगा ? क्योंकि "अन्वेष्टव्यात्मविज्ञानात् प्राक् प्रमातृत्वमात्मनः" । आत्म-साक्षात्कार के होने से पहले ही आत्मा में कर्तृत्व-प्रमातृत्वादि का भान हो सकता है, उसके
उपनिषदां ब्रह्मपरत्वम् ] हिन्दीसहितभामतीसंवलितम् १८३
देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः ।
लौकिकं तद्वदेवेदं प्रमाणं त्वाऽऽत्मनिश्चयात्' ॥ इति ॥ ४ ॥
इति भाष्ये चतुःसूत्री समाप्ता
भामती
एतदुक्तं भवति । एष हि विभागोऽद्वैतसाक्षात्कारकारणम् । ततो नियमेन प्राग् भावात् । तेन तदभावे कार्यं नोत्पद्यते इति । न च प्रमातुरात्मनोऽन्वेष्टव्य आत्माऽन्य इत्याह ॐ अन्विष्टः स्यात्प्रमातैव पाप्मदोषादिवर्जितः ॐ । उक्तं ग्रीवास्थग्रैवेयकनिदर्शनम् । स्यादेतत्—अप्रमाणात्कथं पारमार्थिकाद्वैतानु-भवोत्पत्तिरित्यत आह ॐ देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः । लौकिकं तद्वदेवेदं प्रमाणं तु ॐ । अस्यावधिमाह ॐ आत्मनिश्चयात् ॐ । आ ब्रह्मस्वरूपसाक्षात्कारादित्यर्थः । एतदुक्तं भवति—पारमार्थि-कप्रपञ्चवादिभिरपि देहादिष्वात्माभिमानो मिथ्येति वक्तव्यं, प्रमाणबाधितत्वात् । तस्य च समस्तप्रमा-णकारणत्वं भाविकलोकयात्रावाहित्वं चाभ्युपेयम् । सेयमस्माकमप्यद्वैतसाक्षात्कारे विधा भविष्यति । न चायमद्वैतसाक्षात्कारोऽप्यन्तःकरणवृत्तिरेव एकान्ततः परमार्थः । यस्तु साक्षात्कारो भाविकः, नासौ कार्यः, तस्य ब्रह्मस्वरूपत्वात् । अविद्या तु यद्यविद्यामुच्छिन्द्याज्जनयेद्वा, न तत्र काचिदनुपपत्तिः । तथा च श्रुतिः—
भामती-व्याख्या
पश्चात् नहीं। प्रमातृत्व का कथन प्रमाण, प्रमेय और प्रमा के विभाग का भी उपलक्षक है। सारांश यह है कि यह प्रमाता, प्रमाण, प्रमेय और प्रमा का विभाग ही अद्वैत-साक्षात्कार का कारण है, क्योंकि वह नियमतः अद्वैत-साक्षात्कार के पूर्वकाल में रहता है, अतः उस नियत पूर्वभावी कारण का अभाव होने पर कार्य की उत्पत्ति नहीं हो सकती। प्रमाता आत्मा से कभी अन्वेष्टव्य (प्रमेयभूत) आत्मा भिन्न नहीं, अतः कहा है—"अन्विष्टः स्यात् प्रमातैव पाप्मदोषादिवर्जितः"। अन्वेष्टा और अन्वेष्टव्य आत्मा एक ही है, तब किसके द्वारा किसका अन्वेषण होगा? इस शङ्का का समाधान 'गले के हार' का दृष्टान्त देकर किया जा चुका है। 'यदि प्रमाणादि-विभाग काल्पनिक और अप्रमाणभूत है, तब उससे पारमार्थिक अद्वैतानुभव की उत्पत्ति क्योंकर होगी?' इस प्रश्न का उत्तर है—"देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः, लौकिकं तद्वदेवेदं प्रमाणं तु"। जैसे देह में आत्म-प्रत्यय को व्यवहार-काल में प्रमाण माना जाता है, वैसे ही प्रमाणादि-भेद-प्रत्यय को भी प्रमाण ही माना जाता है। कब तक यह प्रमाण माना जाता है? इसकी अवधि बताई गई है—"आ आत्मनिश्चयात्"। ब्रह्मस्वरूप का साक्षात्कार होने तक। आशय यह है कि जो लोग प्रपञ्च को पारमार्थिक मानते हैं, उन्हें भी देहादि में आत्माभिमान को मिथ्या ही मानना होगा, क्योंकि वह प्रमाणों के द्वारा बाधित है। देहादि में अहमनुभव को समस्त प्रमाणों का कारण और भावी लोक-व्यवहार का निर्वाहक भी मानना होगा। ये दोनों मान्यताएं हमें भी अद्वैत-साक्षात्कार में अपनानी होंगी। यह अद्वैत-साक्षात्कार भी जो अन्तःकरण की एक विशेष वृत्ति है, एकान्ततः परमार्थ नहीं माना जाता और वृत्ति-प्रतिफलित चैतन्यरूप जो पारमार्थिक साक्षात्कार है, वह कार्य (जन्य) नहीं माना जाता, क्योंकि वह नित्य, शुद्ध, बुद्ध ब्रह्मस्वरूप ही है। अविद्या यदि अविद्या का नाश या उत्पादन करती है, तब उसमें किसी प्रकार की अनुपपत्ति नहीं, जैसा कि श्रुति कहती है—
१८४ ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. १ पा. १ सू. ४
भामती
‘विद्यां चाविद्यां च यस्तद्वेदोभयं सह।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥’ इति।
तस्मात्सर्वमवदातम्। एवम्—
कार्यान्वयं विना सिद्धरूपे ब्रह्मणि मानता।
पुरुषार्थे स्वयं तावद्वेदान्तानां प्रसाधिता ॥ ४ ॥
इति भामत्यां चतुःसूत्री समाप्ता।
भामती-व्याख्या
“विद्यां चाविद्यां च यस्तद्वेदोभयं सह।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते।।” ( ईशा. ११ )
[ अन्तःकरण-वृत्तिरूप विद्या और प्रमाणादि-भेद-प्रतीत्यात्मक अविद्या को कार्य-कारणभाव के रूप में जो जानता है, वह अखण्डाकार वृत्तिरूप अविद्या के द्वारा अविद्यारूप मृत्यु का उच्छेद करके वृत्ति-प्रतिफलित चैतन्यरूप विद्या के द्वारा अमृत ब्रह्म की प्राप्ति कर लेता है।
ब्रह्मसूत्र-शाङ्कर भाष्य के वार्त्तिककार श्री नारायणसरस्वती ऊपर के तीनों श्लोकों को श्रीगोड़पादाचार्य की कृति मान कर कहते हैं— “अपि चाहुरस्मिन्नर्थे सम्प्रदायविदो गौड़पादाचार्याः”। किन्तु श्री आत्मस्वरूपभगवान् पञ्चपादिका की अपनी व्याख्या प्रबोधपरिशोधिनी में उक्त तीनों श्लोकों के रचयिता का नाम आचार्य सुन्दर पाण्ड्य बताते हैं। श्री माधवाचार्य-कृत सूतसंहिता-व्याख्या तात्पर्यदीपिका से भी ऐसा ही प्रतीत होता है ] ॥४॥
इति भामतीव्याख्यायां चतुःसूत्री समाप्ता
प्रधानस्य जगत्कारणत्वम् ] हिन्दीसहितभामतीसंवलितम् १८५
( ५ ईक्ष्यत्यधिकरणम् । सू० ५-११ )
एवं तावद्वेदान्तवाक्यानां ब्रह्मात्मावगतिप्रयोजनानां ब्रह्मात्मनि तात्पर्येण समन्वितानामन्तरेणापि कार्यानुप्रवेशं ब्रह्मणि पर्यवसानमुक्तम् । ब्रह्म च सर्वज्ञं सर्व-शक्ति जगदुत्पत्तिस्थितिविनाशकारणमित्युक्तम् । सांख्यादयस्तु परिनिश्चितं वस्तु प्रमाणान्तरगम्यमेवेति मन्यमानाः प्रधानादीनि कारणान्तराण्यनुमिमानास्तत्परतयैव वेदान्तवाक्यानि योजयन्ति । सर्वेष्वेव वेदान्तवाक्येषु सृष्टिविषयेष्वनुमानेनैव कार्येण कारणं लिलक्षयिषितम् । प्रधानपुरुषसंयोगा नित्यानुमेया इति सांख्या मन्यन्ते । काणादास्त्वेतेभ्य एव वाक्येभ्य ईश्वरं निमित्तकारणमनुमिमते, अणूंश्च समवायि-कारणम् । एवमन्येऽपि तार्किका वाक्याभासयुक्त्याभासावष्टम्भाः पूर्वपक्षवादिन इहोत्तिष्ठन्ते । तत्र पदवाक्यप्रमाणज्ञेनाचार्येण वेदान्तवाक्यानां ब्रह्मावगतिपरत्वदर्शनाय
भामती
ब्रह्मजिज्ञासां प्रतिज्ञाय जन्माद्यस्य यत इत्यादिना तत्तु समन्वयादित्यन्तेन सूत्रसन्दर्भेण सर्वज्ञे सर्वशक्तौ जगदुत्पत्तिस्थितिविनाशकारणे प्रामाण्यं वेदान्तानामुपपादितम् । तच्च ब्रह्मणीति परमार्थतो न त्वद्यापि ब्रह्मण्येवेति व्युत्पादितम् । तदत्र सन्दिह्यते । तज्जगदुपादानकारणं किं चेतनमुताचेतनमिति । अत्र च विप्रतिपत्तेः प्रतिवादिनां विशेषानुपलम्भे सति संशयः । तत्र च प्रधानमचेतनं जगदुपादानकारण-मनुमानसिद्धमनुवदन्त्युपनिषद इति सांख्याः । जीवाणुव्यतिरिक्तचेतनेश्वरनिमित्ताधिष्ठिताश्चतुर्विधाः परमाणवो जगदुपादानकारणमनुमितमनुवदन्तीति काणादाः । आदिग्रहणेनाभावोपादानत्वादि प्रहीतव्यम् । अनिर्वचनीयानाद्यविद्याशक्तिकमचेतनोपादानं जगदागमिकमिति ब्रह्मविदः । एतासां च विप्रतिपत्तीनामनु-मानवाक्यानुमानवाक्याभासा बीजम् ।
भामती-व्याख्या
संगति—विगत ग्रन्थ के द्वारा कार्यान्वयन के बिना ही सिद्ध ब्रह्म में वेदान्त-वाक्यों का प्रामाण्य सिद्ध किया गया, सच्चिदानन्दरूप ब्रह्म स्वयं पुरुषार्थ है, वह अन्य किसी पुरुषार्थ का साधन नहीं। अर्थात् ब्रह्म-जिज्ञासा की प्रतिज्ञा करके "जन्माद्यस्य यतः" (ब्र. सू. १।१।२) यहाँ से लेकर "तत्तु समन्वयात्" (ब्र. सू. १।१।३) यहाँ तक के सूत्र-सन्दर्भ के द्वारा सर्वज्ञ सर्वशक्ति-समन्वित, जगत्-कारणीभूत ब्रह्म में वेदान्त-वाक्यों का प्रमाण्य संस्थापित किया ।
संशय—जगज्जन्मादि-कारणत्व परमार्थतः ब्रह्म में है, किन्तु वह ब्रह्म में ही है, अन्यत्र ( प्रधानादि में ) नहीं—इस सिद्धान्त का व्युत्पादन अभी तक नहीं किया गया, अतः यह सन्देह होता है कि जगत् का उपादान कारण क्या चेतन है ? अथवा अचेतन ? इस विप्रति-पत्ति में वादिगणों का कोई विशेष व्युत्पादन न देख कर संशय का हो जाना स्वाभाविक है । ( १ ) सांख्याचार्यों का कहना है कि जो अचेतन प्रधान तत्त्व जगत् का उपादान कारण अनुमान-सिद्ध है, उपनिषद्वाक्य उसी का अनुवाद करते हैं । ( २ ) कणादमतावलम्बी आचार्यों की घोषणा है कि जीव और अणुओं से भिन्न चतुर्विध ( पृथिवी, जल, तेज और वायु के ) परमाणु चेतन ईश्वर से अधिष्ठित होकर जगत् के उपादान कारण जो अनुमान के द्वारा सिद्ध किए जाते हैं, उन्हीं का अनुवाद उपनिषद्वाक्य करते हैं । ( ३ ) भाष्यकार ने जो कहा है—'सांख्यादयः" वहां 'आदि' पद के द्वारा अभावोपादानकत्वादि का ग्रहण कर लेना चाहिए । ( ४ ) ब्रह्मवादियों का सिद्धान्त है कि अनादि अनिर्वचनीय अविद्यारूप शक्ति से समन्वित चेतन पुरुष जगत् का उपादान कारण है—इसका उपपादन हमारे आगम उपनिषद् ग्रन्थ करते हैं । इस प्रकार के विविध मतवादों के पोषक अनुमान, वैदिक वाक्य, अनुमानाभास और वाक्याभास माने जाते हैं ।
२४
| १८६ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. ५ |
|---|
वाक्याभासयुक्त्याभासविप्रतिपत्तयः पूर्वपक्षीकृत्य निराक्रियन्ते ।
तत्र सांख्याः प्रधानं त्रिगुणमचेतनं जगतः कारणमिति मन्यमाना आहुः— यानि वेदान्तवाक्यानि सर्वज्ञस्य सर्वशक्तेर्ब्रह्मणो जगत्कारणत्वं प्रदर्शयन्तीत्यवोचंस्तानि
भामती
तदेव विप्रतिपत्तेः संशये किं तावत्प्राप्तम् ? तत्र
ज्ञानक्रियाशक्त्यभावाद् ब्रह्मणोऽपरिणामिनः ।
न सर्वशक्तिविज्ञाने प्रधाने त्वस्ति सम्भवः ॥
ज्ञानक्रियाशक्ती खलु ज्ञानक्रियाकार्यदर्शनोन्नेयसद्भावे । न च ज्ञानक्रिये चिदात्मनि स्तः, तस्यापरिणामित्वादेकत्वाच्च । त्रिगुणे च प्रधाने परिणामिनि सम्भवतः । यद्यपि च साम्यावस्थायां प्रधाने समुदाचरद्वृत्तिनी क्रियाज्ञाने न स्तः, तथाप्यव्यक्तेन शक्त्यात्मना रूपेण सम्भवत एव । तथा च प्रधानमेव सर्वज्ञं च सर्वशक्ति च, न तु ब्रह्म । स्वरूपचैतन्यं त्वस्यावृत्तिकमनुपयोगि जीवात्मनामिवास्माकम् । न च स्वरूपचैतन्ये कर्तृत्वम्, अकार्यत्वात्तस्य । कार्यत्वे वा न सर्वदा सर्वज्ञता । भोगापवर्गलक्षणपुरुषार्थ-द्वयप्रयुक्तानादिप्रधानपुरुषसंयोगनिमित्तस्तु महदहङ्कारादिक्रमेणाचेतनस्यापि चेतनानधिष्ठितस्य प्रधानस्य परिणामः सर्गः । दृष्टं चाचेतनं चेतनानधिष्ठितं पुरुषार्थे प्रवर्त्तमानम् । यथा वत्सविवृद्ध्यर्थमचेतनं क्षीरं
भामती-व्याख्या
पूर्वपक्ष—इस प्रकार संशय उपस्थित हो जाने पर सांख्याचार्यों की स्थापना है—
ज्ञानक्रियाशक्त्यभावाद् ब्रह्मणोऽपरिणामिनः ।
न सर्वशक्तिविज्ञाने प्रधाने त्वस्ति सम्भवः ॥
ब्रह्म अपरिणामी है, अतः उसमें ज्ञान शक्ति और क्रिया शक्ति सम्भव न होने के कारण सर्व शक्ति और सर्व-ज्ञान नहीं, उसके विना उपादानकारणता उपपन्न नहीं हो सकती, किन्तु प्रधान संज्ञक त्रिगुणा परिणामिनी प्रकृति में ज्ञानशक्ति (सत्त्व गुण) और क्रिया शक्ति (रजोगुण) विद्यमान होने के कारण जगदुपादानत्व उपपन्न हो जाता है। यद्यपि साम्यावस्था में प्रकृतिगत क्रिया (रजोगुण) और ज्ञान (सत्त्वगुण) कार्यकारी नहीं होते, तथापि अव्यक्त-शक्ति के रूप में अवस्थित रहते हैं, उनको लेकर प्रधान तत्त्व ही सर्वज्ञ और सर्व-शक्ति-समन्वित हो सकता है, ब्रह्म नहीं। ब्रह्म का स्वरूप चैतन्य तो अविद्या से आवृत और अवृत्तिक अर्थात् जगद्रूपेण परिणत होने में वैसे ही अक्षम होता है, जैसे कि हम संसारी जीवगण। स्वरूप (अनौपाधिक) चैतन्य में सर्वज्ञत्व या ज्ञान-कर्तृत्व भी नहीं रहता, क्योंकि वह ज्ञान पदार्थ जन्य ही नहीं होता, जिसकी जनकता उसमें सम्भव हो। यदि उस स्वरूप ज्ञान को जन्य माना जाता है, तब वह सदातन नहीं रह सकता, ब्रह्म की सदा सर्वज्ञता समाप्त हो जाती है।
चेतनानधिष्ठित जड़ प्रकृति की जगद्रचना में प्रवृत्ति क्योंकर होगी? यह प्रश्न भी संगत नहीं, क्योंकि इसका उत्तर दिया गया है—"पुरुषार्थ एव हेतुः, न केनचित् कार्यते करणम्" (सां. का. ३१) अर्थात् भोग और मोक्षरूप द्विविध पुरुषार्थ से प्रयुक्त अनादि पुरुष-संयोग प्रकृति को महत्, अहङ्कारादि क्रम से परिणत होने में सक्षम बना देता है। यह देखा भी गया है कि चेतन से अधिष्ठित न होकर भी अचेतन (जड़) पदार्थ भोगापवर्गरूप कार्य के साधन में प्रवृत्त होता है, जैसे बछड़े की क्षुधा निवृत्त करने के लिए गौ के स्तनों में दूध अपने-आप उतर आता है—
वत्संविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ (सां. का. ५७)
प्रधानस्य जगत्कारणत्वम् ] हिन्दीसहितभामतोसंवलितम् १८७
भामती
प्रवर्त्तन्ते । 'तदैक्षत बहुस्यां प्रजायेयेति' इत्याद्याश्च श्रुतयोऽचेतनेऽपि चेतनवदुपचारात् स्वकार्योन्मुखत्वमा-
दर्शयन्ति । यथा कूलं पिपतिषतीति ।
यत्प्राये श्रूयते यच्च तत्तादृगवगम्यते ।
भाक्तप्राये श्रुतमिदमतो भाक्तं प्रतीयते ॥
अपि चाहुर्वृद्धाः—'यथाऽग्रग्रप्राये लिखितं दृष्ट्वा वदन्ति भवेदग्रमग्रग्रः' इति, तथेदमपि 'ता आप ऐक्षन्त' 'तत्तेज ऐक्षत' इत्याद्युपचारप्राये श्रुतम् । तदैक्षतेत्यौपचारिकमेव विज्ञेयम् । अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणोति च प्रधानस्य जीवात्मत्वं जीवार्थकारितयाह । यथा हि भद्रसेनो राजार्थकारी राज्ञा भद्रसेनो ममात्मेत्युपचर्य्यते । एवं तत्त्वमसीत्याद्याः श्रुतयो भाक्ताः सम्पत्त्यर्था वा द्रष्टव्याः । स्वमपीतो भवतीति च निरुक्तं जीवस्य प्रधाने स्वकीयेऽप्ययं सुषुप्तावस्थायां ब्रूते ।
भामती-व्याख्या
“तदैक्षत बहु स्यां प्रजायेय" ( छां. ६।२।२ ) इत्यादि श्रुतियां तो अचेतन ( जड़ प्रकृति ) में चेतन-जैसा गौण व्यवहार वैसे ही करती है, जैसे 'कूलं पिपतिषति' ( नदी का कगार गिरना ही चाहता है ) ऐसा गौण व्यवहार, क्योंकि—
यत्प्राये श्रूयते यच्च तत् तादृगवगम्यते ।
भाक्तप्राये श्रुतमिदमतो भाक्तं प्रतीयते ॥
[ “प्राय वचनाच्च" ( जै. सू. २।२।१२ ), “विषये प्रायदर्शनात्" ( जै. सू. ३।३।२ ) इत्यादि सूत्रों में सजातीय या समान पदार्थों के समूह, प्रसङ्ग या प्रकरण का 'प्राय' शब्द से निर्देश किया गया है और प्राय-पाठ को भी एक निर्णायक या तात्पर्य-ग्राहक माना जाता है, जैसा श्री शबरस्वामी कहते हैं—“प्रायादपि चार्थनिश्चयो भवति, यथा—अग्रप्राये लिखिते अग्रच इति गम्यते" ( शा. भा. पृ. ६०२ ) । अर्थात् प्रधान पदार्थों की पंक्ति में निर्दिष्ट पदार्थ प्रधान एवं गौण पदार्थों की पंक्ति में चर्चित पदार्थ गौण माना जाता है । प्रकृत में ईक्षण पदार्थ गौण ईक्षणों के प्रसङ्ग में वर्णित हैं, जैसे ] “ता आप ऐक्षन्त" ( छां. ६।२।४ ), “तत् तेज ऐक्षत", ( छां. ६।२।२ ) इत्यादि जलादि जड़ पदार्थों के औपचारिक ( गौण ) ईक्षणों के मध्य में “तदैक्षत बहु स्यां प्रजायेय" ( छां. ६।२।३ ) यह ईक्षण भी पठित है, अतः यहाँ 'तत्' पद से प्रधान ( प्रकृति ) का ही ग्रहण करना चाहिए, जिससे गौण ईक्षणों का प्रसङ्ग भङ्ग न हो । "अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि" ( छां. ६।३।१ ) इत्यादि श्रुतियों के द्वारा प्रधान की ओर से ही यह कहलवाया गया है कि मैं ( प्रधान ) इस मनुष्य शरीर में जीव के रूप में प्रविष्ट होकर नाम-रूप का व्याकरण [ देवदत्तादि विशेष नाम और गौरादि विशेषरूप धारण ] करूँ । यहां भी प्रधान में ही जीवात्मत्व का व्यवहार इस लिए कर दिया गया है कि प्रधान तत्त्व ही जीव का उपकार-साधन करता है—
नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः ।
गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति ॥ ( सा. का. ६० )
लोक में उपकार-कर्त्ता को आत्मा ही समझा जाता है, जैसे भद्रसेन नामक पुरुष राजा का उपकार-साधन करता है, अतः राजा उसमें आत्मस्वरूपता का गौण व्यवहार करता है—'भद्रसेनो ममात्मा' । इसी प्रकार “तत्त्वमसि" ( छां. ६।८।७ ) इत्यादि श्रुतियों के द्वारा जीव में प्रधानरूपता का उपचार या सम्पादन किया जाता है । “स्वमपीतो भवति" ( छां. ६।८।१ ) इस श्रुति के द्वारा सुषुप्त जीव का अपनी प्रकृति ( प्रधान ) में लय प्रतिपादित है,
| १८८ | ब्रह्मसूत्रशाङ्करभाष्यम् | [ अ. १ पा. १ सू. ५ |
|---|
प्रधानकारणपक्षेऽपि योजयितुं शक्यन्ते । सर्वशक्तित्वं तावत्प्रधानस्यापि स्वविकारविषयमुपपद्यते । एवं सर्वज्ञत्वमप्युपपद्यते । कथम् ? यत्तु ज्ञानं मन्यसे स सत्त्वधर्मः, ‘सत्त्वात्संजायते ज्ञानम्’ (गी० १४।१७) इति स्मृतेः । तेन च सत्त्वधर्मेण ज्ञानेन
भामती
प्रधानांशतमःसमुद्रेके हि जीवो निद्राणस्तमसीव मग्नो भवति । यदाहुः—‘अभावप्रत्ययालम्बना वृत्तिर्निद्रा’ इति । वृत्तीनामन्यासां प्रमाणादीनामभावस्तस्य प्रत्ययः कारणं तमस्तदालम्बना निद्रा जीवस्य वृत्तिरित्यर्थः । तथा सर्वज्ञं प्रस्तुत्य श्वेताश्वतरमन्त्रोऽपि ‘स कारणं करणाधिपाधिपः’ इति प्रधानाभिप्रायः । प्रधानस्यैव सर्वज्ञत्वं प्रतिपादितमधस्तात् । तस्मादचेतनं प्रधानं जगदुपादानमनुवदन्ति श्रुतय इति पूर्वः पक्षः । एवं काणादादिमतेऽपि कथञ्चिद्योजनीयाः श्रुतयः । अक्षरार्थस्तु “प्रधानकारणपक्षेऽपि” इति “प्रधानस्यापि” इति अपिकारावेवकारार्थौ । स्यादेतत्—सत्त्वसम्पत्त्या चेदस्य सर्वज्ञताऽथ तमःसम्पत्त्याऽसर्वज्ञताऽस्य कस्मान्न भवतीत्यत आह ❖ तेन च सत्त्वधर्मेण ज्ञानेन ❖ इति । सत्त्वं हि प्रकाशशीलं निरतिशयोत्कर्षं सार्वज्ञ्यबीजम् । यदाहुः—‘निरतिशयं सार्वज्ञ्यबीजम्’ इति । यत् खलु सातिशयं तत् क्वचिन्निरतिशयं दृष्टं, यथा कुवलामलकबिल्वेषु सातिशयं महत्त्वं व्योम्नि परममहति निरतिशयम् । एवं ज्ञानमप्येकद्वि-
भामती-व्याख्या
क्योंकि प्रधान के तमोगुणरूप अंश की वृद्धि या प्रधानता हो जाने पर जीव सुषुप्तिरूप गाढ निद्रा में वैसे ही डूब जाता है, जैसे कोई गाढ़ अन्धकार में समा जाय । महर्षि पतञ्जलि निद्रा का लक्षण करते हैं— “अभावप्रत्ययालम्बना वृत्तिर्निद्रा” (यो. सू. . १।१० ) अर्थात् अन्तःकरण की सब पाँच वृत्तियाँ होती हैं—( १ ) प्रमाण, ( २ ) विपर्यय, ( ३ ) विकल्प, ( ४ ) निद्रा और ( ५ ) स्मृति । निद्रा से भिन्न प्रमाणादि चार प्रकार की वृत्तियों के अभाव का जो प्रत्यय (कारण या सम्पादक) है—तमोगुण, उसको आलम्बन (विषय) करनेवाली वृत्ति को निद्रा कहते हैं । श्वेताश्वतर उपनिषत् में सर्वज्ञ का प्रकरण आरम्भ करके जो कहा गया है— “स कारणं करणाधिपाधिपः” (श्वेता० ६।९) वह प्रधान पदार्थ को अभिलक्ष्य करके कहा है कि वह जगत् का कारण एवं करणों (इन्द्रियों) के अधिपति जीव का अधिपति (अन्तर्यामी) है । प्रधान में ही सर्वज्ञता का उपपादन पहले किया जा चुका है, अतः अचेतन प्रधान को ही जगत् का उपादान कारण श्रुतियाँ बताती हैं—यह इस अधिकरण का पूर्वपक्ष है ।
यद्यपि वैशेषिकादि मतों में भी श्रुतियों की योजना की जा सकती है, तथापि प्रधान कारणता पक्ष में ही श्रुतियों का अक्षरार्थ घटता है। “प्रधानकारणपक्षेऽपि” और “सर्वशक्तिमत्त्वं तावत् प्रधानस्यापि” इन भाष्य-वाक्यों में प्रयुक्त दोनों ‘अपि’ शब्द एवकारार्थक हैं, अर्थात् श्रुतियों का शब्दार्थ प्रधान-कारणता-पक्ष में ही घटता है और सर्वशक्तिमत्त्व भी प्रधान तत्त्व में ही उपपन्न होता है । सर्वज्ञत्व भी वहीं समञ्जस होता है, क्योंकि सर्वज्ञत्व का घटकीभूत जो ज्ञान है, वह प्रधान के सत्त्व गुण का ही धर्म है, भगवद्गीता कहती है—“सत्त्वात् सञ्जायते ज्ञानम्” (गी. १४।१७) । ‘यदि सत्त्व गुण के धर्मभूत ज्ञान को लेकर प्रधान सर्वज्ञ है, तब अपने तमोगुण के धर्मभूत अज्ञान को लेकर असर्वज्ञ क्यों नहीं ?’ इस प्रश्न का उत्तर है—“तेन च सत्त्वधर्मेण ज्ञानेन कार्यकारणवन्तः पुरुषाः योगिनः सर्वज्ञाः प्रसिद्धाः, सत्त्वस्य हि निरतिशयोत्कर्षे सर्वज्ञत्वं प्रसिद्धम् ।” अर्थात् सत्त्वगुण प्रकाशशील है, प्रकाश का निरतिशय उत्कर्ष (असीम अवस्था में पहुँच जाना) ही सर्वज्ञता का बीज (कारण) है, जैसा कि योगसूत्र की स्थापना है—“तत्र निरतिशयं सार्वज्ञ्यबीजम्” (यो. सू. १।२५) । जो वस्तु सातिशय (तरतमभाव-युक्त) होती है, वह कहीं चरम सीमा में पहुँची देखी गई है, जैसे—