Skip to content
SarvaKosh
भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)

Bhamati of Vachaspati Mishra Hindi

by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)

Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)

Report a copyright issue

DevanagariHindipublished639 pages

Page 568 of 639

Read in context
Page 568
Page 568 scan

५५० ब्रह्मसूत्रशाङ्करभाष्यम् [ अ. २ पा. १ सू. ५

वागाद्यभिमानिन्यश्च चेतना देवता वदनसंवदनादिषु चेतनोचितेषु
व्यवहारेषु व्यपदिश्यन्ते, न भूतेन्द्रियमात्रम् । कस्मात् ? विशेषानुगतिभ्याम् ।
विशेषो हि भोक्तॄणां भूतेन्द्रियाणां च चेतनाचेतनप्रविभागलक्षणः प्रागभिहितः ।
सर्वचेतनतायां चासौ नोपपद्येत । अपि च कौषीतकिनः प्राणसंवादे करणमा-
त्राशङ्काविनिवृत्तयेऽधिष्ठातृचेतनपरिग्रहाय देवताशब्देन विशिषन्ति - 'एता ह वै
देवता अहंश्रेयसे विवदमानाः' इति 'ता वा एताः सर्वा देवताः प्राणे निःश्रेयसं
विदित्वा' (कौषी० उ० २।१४) इति च । अनुगताश्च सर्वत्राभिमानिन्यश्चेतना देवता
मन्त्रार्थवादेतिहासपुराणादिभ्योऽवगम्यन्ते । 'अग्निर्वाग्भूत्वा मुखं प्राविशत्'

Sign up free to read the full text of this page

The page scan is free for everyone.

Sign up or sign in