भामती (वाचस्पति मिश्र - ब्रह्मसूत्र शाङ्करभाष्य चतुःसूत्री हिन्दी व्याख्या)
Bhamati of Vachaspati Mishra Hindi
by वाचस्पति मिश्र (व्याख्याकार: स्वामी योगेन्द्रानन्द)
Source: Brahma Sutra Shankara Bhashya with Vachaspati Mishra Bhamati and Hindi Commentary (origin)
Page 567 of 639
Read in contextसांख्यतर्कस्यानादरः ] हिन्दीसहितभामतीसंवलितम् ५४९
कत्वश्रवणाच्छब्दशरणतया केवलयोत्प्रेक्षेत, तच्च शब्देनैव विरुध्यते। यतः शब्दादपि तथात्वमवगम्यते। तथात्वमिति प्रकृतिविलक्षणत्वं कथयति। शब्द एव 'विज्ञानं च' ( तै० २।६ ) इति कस्यचिद्विभागस्याचेतनतां श्रावयन्नचेतनाद् ब्रह्मणो विलक्षणमचेतनं जगच्छ्रावयति ॥ ४ ॥
ननु चेतनत्वमपि कचिदचेतनत्वाभिमतानां भूतेन्द्रियाणां श्रूयते—यथा 'मृदब्रवीत्', 'आपोऽब्रुवन्' ( श० प० ब्रा० ६।१।३।२।४ ) इति, 'तत्तेज ऐक्षत' 'ता आप ऐक्षन्त' ( छा० ६।२।३।४ ) इति चैवमाद्या भूतविषया चेतनत्वश्रुतिः। इन्द्रियविषयाणि 'ते हेमे प्राणा अहंश्रेयसे विवदमाना
Sign up free to read the full text of this page
The page scan is free for everyone.
Sign up or sign in